आनन्दगिरिटीका (छान्दोग्य)
षष्ठोऽध्यायः: त्रयोदशः खण्डः
नोपलभ्यते स्वेन प्रकारेणेति शेषः । इतीममर्थं प्रत्यक्षीकर्तुं यदीच्छसि तर्हि दृष्टान्तमत्र शृण्विति योजना । रात्रेरत्ययानन्तर्यमथशब्दार्थः । जगन्मूलं स्वतोऽप्रत्यक्षमपि प्रत्यक्षमुपायान्तरेणेति पित्रोक्तोऽर्थस्तं प्रत्यक्षीचिकीर्षुर्घटादावुदके पिण्डरूपं लवणं रात्रौ प्रक्षिप्य तदत्ययानन्तरं प्रातःकाले पितृसमीपं श्वेतकेतुर्गतवानित्याह –
स हेति ।
यथा तत्पिण्डरूपं लवणं प्रक्षेपात्प्रागभूत्तथा न विज्ञातवानिति सम्बन्धः ।
उदके प्रक्षिप्तं लवणं विमृश्यापि न विज्ञायते चेदसदेव तर्हि तदित्याशङ्क्याऽऽह –
विद्यमानमेवेति ।
किमिति तर्हि चक्षुषा स्पर्शेन वा नोपलभ्यते तत्राऽऽह –
अप्स्विति ॥१॥
कथं तर्हि तस्य विद्यमानत्वमवगतं तत्राऽऽह –
यथेति ।
यद्यपि पिण्डरूपं लवणमुदके क्षिप्तमवमृश्यापि चक्षुस्स्पर्शनाभ्यां न त्वं वेत्थ तथाऽपि तत्तत्र विद्यत एव यतस्ताभ्यामगृह्यमाणमपि तत्रोपायान्तरेणोपभ्यत इत्येतमर्थं प्रत्याययितुमुत्तरं वाक्यमित्यर्थः । यथाशब्दो यद्यपीत्यर्थे ।
तद्धेत्यादि व्याचष्टे –
लवणमिति ।
संवर्तत इतीदं वचनं ब्रुवन्नाजगामेति सम्बन्धः ।
दृष्टान्तमनूद्य दार्ष्टान्तिकमाह –
इत्येवमुक्तवन्तमित्यादिना ।
सतो जगन्मूलस्यास्मिन्देहे सत्त्वं त्वया कथमवगतमत आह –
वावेति ।
अत्र वावेत्यादिनाऽत्रैव किलेत्यस्य पौनरुक्त्यमाशङ्क्यार्थविशेषं दर्शयति –
यथाऽत्रेत्यादिना ॥२॥
उपायान्तरजिज्ञासया पृच्छति –
यद्येवमिति ।
तर्हि तदेत्यध्याहृतस्य तस्येत्यादिना सम्बन्धः ।
सतो मूलस्योपलम्भेऽनुपलम्भे वा किं स्यादित्याशङ्क्याऽऽह –
यदुपलम्भादिति ।
बुभुत्सितमुपायमुपदर्शयितुमुत्तरग्रन्थमुपादत्ते –
तथेति ॥३॥
इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य त्रयोदशः खण्डः ॥