अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

षष्ठोऽध्यायः: पञ्चमः खण्डः

कथं त्रिधा विभज्यमानत्वं कथं वा तस्य विनियोग इति प्रश्नपूर्वकं विवृणोति –
कथमित्यादिना ।
रसा­दी­त्या­दि­श­ब्देन रुधिरादि गृह्यते । तस्य कर्मफलस्य नाडीचरो भोक्तेति हिताख्या नाड्यस्तास्विति यावत् ।

कथ­म­न्नो­प­यो­गा­त्प्रा­गेव मनसः सिद्ध­त्वा­त्त­न्मनो भवतीत्युच्यते तत्राऽऽह –
मनोरूपेणेति ।

मन­सोऽ­न्नो­प­चि­त­त्व­व­च­ना­द्वै­शे­षि­क­प­रि­भा­वाऽपि दूषिता वेदितव्येत्याह –
ततश्चेति ।

मनसो दैव­त्व­वि­शे­ष­णा­न्नि­त्य­त्व­सि­द्धि­रि­त्या­श­ङ्क्याऽऽह –
यदपीति ।

केनाभिप्रायेण तर्हि विशे­ष­ण­मि­त्या­श­ङ्क्याऽऽह –
किं तर्हीति ।

तर्हि चक्षुरादिभ्यो वैलक्षण्यादस्ति तदपेक्षया नित्य­त्व­मि­त्या­श­ङ्क्याऽऽह –
यच्चेति ।

यद्वा चक्षु­रा­दि­ष्व­स­त्स्वपि मनसः सत्त्वो­प­ल­म्भा­त्त­द­पे­क्षया तस्य नित्य­त्व­मे­ष्ट­व्य­मि­त्या­श­ङ्क्याऽऽह –
यच्चेति ।

आत्मवन्मनसो नित्यत्वं किं न स्यादि­त्या­श­ङ्क्याऽऽह –
सदिति ॥१॥

भुक्तस्यान्नस्य त्रैवि­ध्य­मुक्त्वा पीतानामपामपि त्रैविध्यमाह –
तथेति ॥२॥

कथं तेज­सोऽ­ग्न्या­दि­त्या­दे­र­श­न­मि­त्या­शङ्क्य विशिनष्टि –
तैलेति ।

मज्जा­श­ब्दा­र्थ­माज –
अस्थीति ।

योऽणिष्ठः सा वागित्युक्तं व्यक्तीकरोति –
तैलघृतादीति ॥३॥

भुक्तस्यान्नस्य पीता­ना­म­प्य­पा­म­शि­तस्य तैलादेश्च येऽणिष्ठा धातवस्ते मनोवाक्प्राणा इत्येवं यतः सिद्ध­म­त­स्ते­षा­म­न्ना­दि­म­यत्वं युक्तिमित्याह –
यत इति ।

तेषा­म­न्ना­दि­म­यत्वं व्यति­रे­का­सि­द्धि­मा­श्रि­त्याऽऽ­क्षि­पति –
नन्विति ।

आखुप्रमुखानां स्फुटो­द­पा­दा­ना­द्य­नु­प­ल­म्भेऽपि यत्तेषां भक्ष्यं तत्रै­वो­द­का­न्त­र्भा­व­स­म्भ­वा­त्प्रा­णा­दे­र­म्म­य­त्वा­द्यु­प­प­न्न­मि­त्यु­त्त­र­माह –
नैष दोष इति ।
सर्व­स्या­न्ना­दे­स्त्रि­वृ­त्कृ­त­त्व­स्यो­क्त­त्वा­त्तस्य सर्वस्यैव भक्ष्यस्य भूत­त्र­या­त्म­त्व­स­म्भ­वा­दे­कैकं भक्षयतोऽपि सर्व­भ­क्ष­क­त्वो­प­प­त्ते­र्मन आदे­र­न्ना­दि­म­य­त्व­म­वि­रु­द्ध­मि­त्यर्थः ।

उक्तमेव व्यक्तीकरोति –
न हीत्यादिना ।

उक्तरीत्या मना­अ­दे­र­न्ना­दि­म­य­त्व­प्र­त्या­य­न­द्वारा प्रनाड्या सन्मात्रपरिशेषे प्रत्यायिते सति श्वेत­के­तु­श्चो­द­य­ती­त्याह –
इत्येवमिति ।

सर्वेषां सन्नि­धा­ना­वि­शे­षेऽ­न्नस्य सूक्ष्मांशो मन एवोपचिनोति न प्राणमिति निश्च­या­सि­द्धि­रि­त्याह –
नाद्यापीति ।

पार्थि­व­मे­वो­प­चि­नो­तीति विशे­ष­मा­श­ङ्क्याऽऽह –
यस्मादिति ।
एकस्मिन्नुदरे प्रवि­ष्टा­ना­म­न्ना­दीनां मिश्री­भू­त­त्वा­न्म­न­सश्च सर्व­भू­त­गु­ण­व्य­ञ्ज­क­त्वेन सर्व­भू­ता­र­ब्ध­त्वा­त्पा­र्थि­व­त्वा­सि­द्धे­र्नोक्तो विशेषः सम्भवतीत्यर्थः । यस्मा­दे­व­म­भि­प्रायः श्वेतकेतोरत इति योजना ।

मन आदे­र­न्ना­दि­म­य­त्व­मु­प­पा­द­यि­तु­मु­त्त­र­ग्र­न्थ­म­व­ता­र­यति –
तमेवमिति ।
यत्त्वं मन आदे­र­न्ना­दि­म­यत्वं कथमिति पृच्छसि तदिदं यथोपपद्यते तथाऽ­त्रा­न्ना­दि­म­यत्वे तस्य दृष्टा­न्त­मु­च्य­मानं शृण्विति योजना ॥४॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां षष्ठाध्यायस्य पञ्चमः खण्डः ॥