आनन्दगिरिटीका (छान्दोग्य)
षष्ठोऽध्यायः: एकादशः खण्डः
जीवस्य नाशाभावं वक्तुमादौ दृष्टान्तमाह –
श्रुण्विति ॥१॥
ननु रोगग्रस्तायां वातोपहतायां वा शाखायां प्राणोपसंहारेऽपि कुतो जीवोपसंहारः सम्भवति तत्राऽऽह –
वागिति ।
ननु वृक्षे जीवस्य सद्भावे तत्रोपसंहारानुपसंहारौ वक्तव्यौ तत्र तस्य सत्त्वं तु कुतस्त्यमत आह –
जीवेन चेति ।
रसरूपेण वर्धयदिति सम्बन्धः ।
वृक्षशरीरे जीवस्य सत्त्वेऽपि किमित्यसौ कदाचित्तदीयामेकां शाखां जहातीत्याशङ्क्याऽऽह –
अशितेति ।
जीवोपसंहारेऽपि किमिति शाखा शुष्यति तत्राऽह –
जीवस्थितीति ।
जीवस्य स्थितिर्निमित्तं यस्येति विग्रहः । तथा शाखायामुक्तप्रकारेणेति यावत् ।
यत्तु वैशेषिकवैनाशिकाभ्यां स्थावराणां निर्जीवत्वेनाचेतनत्वमुक्तं तदेतन्निरस्तमित्याह –
वृक्षस्येति ।
आदिशब्दो वृद्धिमोदादिसंग्रहार्थः । स एष वृक्षो जीवेनाऽऽत्मनाऽनुप्रभूत इति दृष्टान्तश्रुतिः ॥२॥
श्रुतिदृष्टान्ते विवक्षितमंशमनूद्य दार्ष्टान्तिकमाह –
यथेत्यादिना ।
जीवस्य सुषुप्ते नाशाभावे हेत्वन्तरमाह –
कार्यशेषे चेति ।
तस्मिन्सति सुषुप्तो भूत्वा पुनरुत्थितस्य कार्यस्य शेषोऽस्ति यस्मिन्कर्मणि तदिदं ममासमाप्तमिति स्मृत्वा तस्य समापनदर्शनान्न स्वापे जीवो नश्यतीत्यर्थः ।
मरणकाले तन्नाशाभावे हेत्वन्तरमाह –
जातमात्राणामिति ।
आद्यश्चकारः समुच्चये द्वितीयोऽवधारणे ।
जीवस्य प्रलयादावविनाशे कारणान्तरमाह –
अग्निहोत्रादीनामिति ।
इतिशब्दो जीवस्य नित्यत्वोपसंहारार्थः ।
यदुक्तं सन्मूलाः सोम्येत्यादि तत्र चोदयति –
कथं पुनरिति ।
विलक्षणयोर्न कार्यकारणत्वमिति शङ्कमानं प्रतिबोधयितुमुत्तरं वाक्यमुपादत्ते –
तथेति ॥३॥
इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्यैकादशः खण्डः ॥