अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

द्वितीयोऽध्यायः: षष्ठः खण्डः

ऋतु­दृ­ष्ट्य­न­न्तरं साम्नि पशु­दृ­ष्ट्या­रो­प­का­र­ण­माह –
सम्यगिति ।

अजादृष्ट्या हिङ्कारोपासने हेतुद्वयमाह –
प्राधा­न्या­दि­त्या­दिना ।
अजाया यज्ञ­स­म्ब­न्धा­त्प्रा­धा­न्यम् । प्राथम्यं तु प्रथमपाठादिति द्रष्टव्यम् ।

“ब्राह्मणो मनुष्याणामजः पशूनां तस्मात्ते मुख्या मुखतो ह्यसृज्यन्त” इति श्रुति­म­जा­प्रा­धान्ये प्रमाणयति –
अज इति ।
“तस्माज्जाता अजावय” इति श्रुते­र­जा­ना­म­वीनां च साहचर्यं हिङ्का­र­प्र­स्ता­व­योश्च साहचर्यं प्रसिद्धम् ॥१॥

पशु­मा­न्भ­व­ती­त्यस्य पूर्वेण पौनरुक्त्यं परिहरति –
पशुफलैश्चेति ॥२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां द्विती­या­ध्या­यस्य षष्ठः खण्डः ॥