अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

तृतीयोऽध्यायः: त्रयोदशः खण्डः

वक्ष्य­मा­ण­ज्ञा­नस्य स्वातन्त्र्यं परिहृत्य प्रकरणभेदं व्याव­र्त­यि­तु­मु­त्त­र­ग्र­न्थस्य तात्पर्यमाह –
तस्येति ।
द्वार­पा­ला­दी­त्या­दि­प­देन तद्गतो विशेषो गृह्यते ।

ब्रह्म­ण्यु­पा­स­ने­ना­प्र­सि­द्धितो द्वार­पा­लो­पा­स्ति­र­यु­क्ते­त्या­श­ङ्क्याऽऽह –
यथेति ।
इति तदु­पा­स्ति­र­र्थ­व­तीति शेषः ।

स्वर्गलोकशब्दः परमात्मविषयः “स्वर्गं लोकमिता ऊर्ध्वं विमुक्ता” इति श्रुत्यन्तरात् देवसुषित्वं साधयति –
देवैरिति ।
स्वर्गलोकस्य परमात्मनो भवनमायतनं तस्येति यावत् ।

प्राक्त्वेऽ­न­व­स्था­मा­श­ङ्क्योक्तं पूर्वा­भि­मु­ख­स्येति –
तत्स्थस्तेनेति ।

तच्छब्दो हृदयविषयः –
तेनैवेति ।
प्राण­वि­ष­य­स्त­च्छब्दः । तद­व्य­ति­रि­क्तत्वं स्वातन्त्र्येण चक्षु­षोऽ­कि­ञ्चि­त्क­र­त्वम् ।

न हि चक्षुषा प्राणस्य सम्बन्धो न हि बाह्यस्य तत्सम्बन्धे निबन्धनमस्ति तत्राऽह –
चक्षुरिति ।
अधि­ष्ठा­तृ­त्वे­नाऽ­दि­त्य­श्च­क्षुषि प्रति­ष्ठि­त­श्च­क्षुश्च ग्राहकतया रूपे प्रतिष्ठितं रूपदर्शने करणं भवति । तथैव प्राणस्य चक्षु­ष्ट्व­मि­त्यर्थः ।

प्राणा­दि­त्य­यो­रैक्ये प्रमाणमाह –
आदित्यो हेति ।
कथं यथो­क्त­स्याऽऽ­दि­त्यस्य हृद­य­सु­षि­द्वा­र­स्था­नत्वं? वासनात्मना हृदये रूपाणि प्रतिष्ठितानि तदनेन क्रमेण आदित्यो हृदये प्रति­ति­ष्ठ­ती­त्यर्थः ।

तत्र श्रुत्यन्तरं प्रमाणयति –
स आदित्य इति ।

एक­दे­व­ताऽ­भि­न्न­त्वा­दपि प्राणभेदेन चक्षु­रा­दि­त्य­यो­रा­ध्यानं युक्तमित्याह –
प्राणेति ।
आश्रयशब्देन रूपाणि हृदयं चोच्यते द्युलोको वा ।

आदि­त्य­श्च­क्षु­षो­र्दे­व­स्त­द­धि­ष्ठि­तस्य सर्वस्य प्राणात्मत्वे वाक्य­शे­ष­म­नु­कू­ल­यति –
वक्ष्यति चेति ।
न हि प्राणे तृप्यति सर्वस्य तृप्ति­स्ता­दा­त्म्य­म­न्त­रेण सम्भवतीति भावः । तदे­त­त्प्रा­णा­रूपं ब्रह्म स्वर्गलोकं प्रतिपित्सुः सन्पु­रु­ष­स्ते­जोऽऽ­न्ना­द्य­मि­त्याभ्यां गुणाभ्यां विशि­ष्ट­मु­पा­सी­तेति सम्बन्धः ।

किमिति यथोक्तोऽधिकारी प्राणोपासने नियुज्यते तत्राऽऽह –
स्वर्गेति ।

तथाऽपि कथं यथो­क्त­गु­ण­द्व­य­वै­शिष्ट्यं प्राणाख्यस्य ब्रह्मणः सिद्ध्यति तत्र तेजःशब्दं व्याकुर्वन्नाह –
तेजस्वीति ।
एतत्प्राणाख्यं ब्रह्मोभयरूपेण तेजस्वी । तथाच तेजो­गु­ण­वि­शि­ष्ट­तया तदुपासनामर्हति । सवि­तु­श्चा­न्न­दत्वं वृष्टिद्वारेण “आदित्याज्जायते वृष्टिः”(म.स्मृ. ३ । ७६) इत्यादौ दृष्टम् । अतश्चान्नं च तदाद्यं चेति गुणा­न्त­र­वि­शि­ष्ट­त्वे­नापि सवितृरूपं प्राणाख्यं ब्रह्म ध्याना­र्ह­मि­त्यर्थः ।

किं तर्हि मुख्यं फलमिति तदाह –
उपासनेनेति ॥१॥

हृदयस्य पूर्व­दि­ग­व­स्थि­त­च्छि­द्र­स­म्ब­न्धि­त्वेन प्राणमुक्त्वा व्यानःश्रोत्रं चन्द्रमाश्चेति त्रित­य­मि­त­र­स­म्ब­न्ध­मु­पा­स्य­मि­त्याह –
अथेति ।
वीर्यवत्कर्म कुर्वन्ननितीति सम्बन्धः । प्राणापानौ विगृह्य विरुध्य वाऽयमनितीति पक्षान्तरं नाना­स्क­न्ध­स­न्धि­म­र्मसु विविधमनिति चेष्टत इति विकल्पान्तरं तेन व्यानेन सम्बन्धः श्रोत्रस्य श्रुत्यु­क्त­त्वा­द्ध्या­नार्थो मन्तव्यः ।

यथा श्रोत्रस्य व्यानेन सम्बन्धस्तथा चन्द्रमसोऽपि तेन सम्बन्धस्य श्रुत्यु­क्त­त्वा­देव ध्यानार्थतया ग्राह्य इत्याह –
तथेति ।

श्रोत्र­च­न्द्र­मसोः सम्बन्धे श्रुत्य­न्त­र­म­नु­कू­ल­यति –
श्रोत्रेणेति ।
यद्विराजः श्रोत्रं तदात्मना दिश­श्च­न्द्र­मा­श्चे­त्येते सृष्टा इति श्रुतेरित्यर्थः । मिथः सम्बन्धेऽपि कथ­म­न­यो­र्व्या­ना­त्मत्वं ? व्याने तृप्य­ती­त्या­दि­वा­क्य­शे­षा­द­व­धे­य­मि­त्यर्थः । तदे­त­द्व्या­नाख्यं ब्रह्म श्रीश्च यशश्चेत्याभ्यां गुणा­भ्या­मु­पा­सी­तेति सम्बन्धः ।

कथं तस्य गुणद्वयवतो ध्यान­मि­त्या­शङ्क्य श्रोत्रस्य ज्ञान­हे­तु­त्वा­च्च­न्द्र­म­सोऽ­न्न­हे­तु­त्वा­त्त­यो­रा­श्र­य­त्वेन तदात्मनो व्यानस्यापि तद्गु­ण­त्वो­प­प­त्ति­रि­त्याह –
श्रोत्रेति ।

व्यानाख्ये ब्रह्मणि गुणान्तरं साधयति –
ज्ञानेति ।
उक्तस्य ब्रह्मणो गुण­द्व­य­स­म्भ­वोऽ­तः­श­ब्दार्थः । श्रीमा­नि­त्या­दि­फ­ल­वा­क्य­मा­दि­श­ब्दार्थः । समानं तेज­स्वी­त्या­दि­वा­क्ये­नेति शेषः ॥२॥

हृदयस्य पश्चि­म­दि­ग­व­स्थि­त­सु­षि­स­म्ब­न्ध­त्वे­ना­पानो वागग्निश्चेति त्रित­य­म­न्यो­न्य­स­म्बन्धं ध्येयमित्याह –
अथ योऽस्येति ।

सोऽपान इत्यस्यार्थमाह –
तत्स्थ इति ।
सोऽपान इति सम्बन्धः ।

अपानशब्दं वायुविशेषे व्युत्पादयति –
मूत्रेति ।
आदिशब्देन शुक्रादि गृह्यते ।

यथा चक्षुषः श्रोत्रस्य प्राणत्वं व्यानत्वं चोक्तं तथा वागपानो भवत्यपाने तृप्य­ती­त्या­दि­श्रु­ते­रि­त्याह –
सा तथेति ।

यथा चक्षु­रा­दि­द्वा­रे­णाऽऽ­दि­त्यादेः प्राणा­दि­रू­प­त्व­मुक्तं तथा वाचोऽ­धि­ष्ठा­तृ­त्वेन सम्ब­न्धा­द­ग्नि­स्त­द्द्वा­रे­णा­पानो भवतीत्याह –
तत्सम्बन्धादिति ।
तदेतदपानाख्यं ब्रह्म­व­र्च­स­म­न्ना­द्य­मि­त्याभ्यां गुणाभ्यां विशि­ष्ट­मु­पा­सी­तेति सम्बन्धः ।

ब्रह्मवर्चसं व्याचष्टे –
वृत्तेति ।

कथमपानाख्ये ब्रह्मणि यथोक्तो गुणः सिध्य­ती­त्या­श­ङ्क्या­ग्नि­द्वा­रे­त्याह –
अग्नि­स­म्ब­न्धा­दिति ।

तथाऽपि कथ­म­न्ना­द्य­त्व­मि­त्या­श­ङ्क्या­पा­न­द्वा­रे­णे­त्याह –
अन्नेति ।

ब्रह्म­व­र्च­सी­त्या­दि­फ­ल­वाक्यं श्रीमा­नि­त्या­दिना तुल्या­र्थ­त्वान्न व्याख्या­ना­पे­क्ष­मि­त्याह –
समानमिति ॥३॥

हृद­य­स्यो­त्त­र­सु­षि­स­म्ब­न्ध­त्वेन समानो मनः पर्जन्यश्चेति त्रितयं पर­स्प­र­स­म्ब­द्ध­मु­पा­स्य­मि­त्याह –
अथेति ।
समान इति सम्बन्धः ।

समानशब्दं वायुविशेषे व्युत्पादयति –
अशितेति ।

मनसः समानेन सम्बन्धः समाने तृप्य­ती­त्या­दि­श्रु­ते­र्ग्राह्य इत्याह –
तत्सम्बद्धमिति ।

मनसि तृप्यति पर्ज­न्य­स्तृ­प्य­तीति वाक्य­शे­ष­मा­श्रित्य तयोः सम्बन्धमाह –
पर्जन्य इति ।

श्रुत्यन्तरादपि तयोः सम्बन्धं वक्तुं पातनिकामाह –
पर्जन्येति ।
शेषः प्रसि­द्धि­प­रा­म­र्शार्थः ।

तथाऽपि कथं पर्जन्यमनसोः सम्ब­न्ध­सि­द्धि­रि­त्या­शङ्क्य वायोरपि कारणत्वेनाद्भिः सम्ब­न्धा­त्त­द्द्वारा मिथोऽपि तत्सि­द्धि­रि­त्याह –
मनसेति ।
तदेतत्समानाख्यं ब्रह्म कीर्तिश्च व्युष्टि­श्चे­त्याभ्यां गुणा­भ्या­मु­पा­सी­तेति सम्बन्धः ।

तस्मिन्ब्रह्मणि कीर्तिरूपगुणं साधयति –
मनस इति ।

व्युष्टे­र­र्था­न्त­रत्वं कीर्तेर्दर्शयति –
आत्मेति ।

ततो व्युष्टेराचष्टे –
स्वकरणेति ।

तामे­वा­नु­भ­वा­रू­ढ­तया कथयति –
कान्तिरिति ।

कथं पुनर्देहगतस्य लावण्यस्य कीर्तितास्तवः शक्यते तत्राऽऽह –
ततश्चेति ।
लावण्यं पञ्चम्यर्थः । इत्य­स­ङ्की­र्ण­गु­ण­द्व­य­वि­शि­ष्ट­मु­पा­सनं सिद्धमित्यर्थः ।

कीर्ति­मा­नि­त्या­दि­फ­ल­वा­क्यस्य ब्रह्म­व­र्च­सी­त्या­दिना तुल्या­र्थ­त्वा­द­व्या­ख्ये­य­त्व­माह –
समानमिति ॥४॥

हृद­य­स्यो­र्ध्व­च्छि­द्र­वै­शि­ष्ट्ये­नो­दानो वायुराकाशश्चेति त्रित­य­म­न्यो­न्य­स­म्ब­न्ध­मु­पा­स्य­मि­त्याह –
अथ योऽस्येति ।
उत्क्रमणादुदान इति सम्बन्धः ।

उदाने तृप्यति वायुस्तृप्यतीति वाक्य­शे­ष­मा­श्रि­त्याऽऽह –
स वायुरिति ।

वायो­रा­का­श­त्व­मा­धा­रा­धे­य­स­म्ब­न्धा­द्वायौ तृप्य­त्या­का­श­स्तृ­प्य­तीति श्रुतेश्चेत्याह –
तदाधारश्चेति ।
तदेतदुदानाख्यं ब्रह्म­पू­र्व­व­दोजो महश्चेत्याभ्यां विशि­ष्ट­मु­पा­सी­तेति सम्बन्धः ।

उक्तगुणद्वयं निर्दिशति –
वाय्वाकाशयोरिति ।

ओज­स्वी­त्या­दि­वा­क्यस्य कीर्ति­मा­नि­त्या­दिना तुल्यार्थत्वमाह –
समानमिति ॥५॥

तस्य ह वा एत­स्ये­त्या­दि­नो­क्त­म­नु­व­दति –
ते वा इति ।

कथं ब्रह्म­पु­रु­षा­स्त­त्राऽऽह –
राजपुरुषा इति ।
व्यपदिश्यन्त इत्यर्थः ।

तेषां द्वारपालत्वं प्रपञ्चयति –
एतैरिति ।

तत्र स्वानुभवं प्रमाणयति –
प्रत्यक्षं हीति ।
विवे­क­वै­रा­ग्याभ्यां वशी­कृ­त­श्रो­त्रा­दि­क­र­ण­ग्रा­मो­पे­त­त्वा­भा­वा­त्प­रो­क्ष­ब्दा­दि­वि­षय आस­ङ्ग­रू­पा­नृ­ता­क्रा­न्त­त्वा­दि­त्यर्थः ।

एतैरेव विष­य­वि­मु­खै­र्ब्र­ह्म­प्रा­प्ति­द्वा­राणि समाध्यादिना विवृ­ता­नी­त्य­भि­प्रे­त्यो­प­सं­ह­रति –
तस्मादिति ।

ब्रह्म­पु­रु­षा­नु­क्ता­न­नूद्य सफलमुपासनं दर्शयति –
अत इति ।
अनियतानां चक्षुरादीनां ब्रह्म­प्रा­प्ति­प्र­ति­ब­न्ध­कत्वं नियतानां तु तत्प्रा­प्ति­हे­तु­त्व­मि­त्य­तः­श­ब्दार्थः । यथो­क्त­गु­ण­वि­शि­ष्टत्वं चक्षु­रा­दी­ना­मा­दि­त्या­द्या­त्म­क­त्वम् ।

अदृष्टं फलमुक्त्वा दृष्टं फलमाह –
किञ्चेति ।

यथो­क्त­पु­त्रो­त्प­त्ति­र्वि­व­क्षि­त­ब्र­ह्म­प्रा­प्ता­व­नु­प­यु­क्ते­त्या­श­ङ्क्याऽऽह –
तस्य चेति ।
पुत्रस्य ध्यनानुसारित्वं हेतुत्वं ततः शब्दार्थः पार­म्प­र्ये­णो­पा­सा­ना­द्वा­री­णेति यावत् ।

पुत्रस्य ध्यानद्वारा ब्रह्म­प्रा­प्ति­हे­तुत्वे फलितमाह –
इति स्वर्गेति ॥६॥

गायत्र्युपाधिकं ब्रह्मोपास्यं तादर्थ्येन द्वार­पा­लो­पा­स्तिश्च कर्तव्या । ततश्चाङ्गेषु श्रुतानि फलानि समुच्चित्य प्रधानोपासनादेव ब्रह्म­प्रा­प्ति­रि­त्यु­क्तम् । इदानीं विद्यान्तरं प्रस्तौति –
अथेति ।

परस्ताद्दिवो दीप्यमानं ब्रह्म कौक्षेये ज्योतिषि प्रतीकेऽध्यस्य दृष्ट­त्व­श्रु­त­त्वा­भ्या­मु­पा­सि­त­व्य­मिति श्रौतमर्थं सिद्ध­व­त्कृ­त्वाऽऽ­र्थि­क­म­र्थ­मा­दाय तात्पर्यमाह –
यदसौ विद्वानिति ।
वीराणां वीर्य­व­ता­मा­दि­त्या­दीनां पुरुषाणां सेव­ना­दा­ध्या­ना­दिति यावत् ।

लिङ्गेन स्पर्शविशेषेण श्रवणविशेषेण चेत्यर्थः –
चक्षुः­श्रो­त्रे­न्द्रि­य­गो­च­र­मिति ।
मन्ददृष्टिं प्रति दृष्टं श्रुतं च मये­त्या­पा­द­यि­त­व्यम् । अन्यथा दृष्ट­त्व­श्रु­त­त्वाभ्यां ब्रह्मणि ध्याना­सि­द्धे­रि­त्यर्थः ।

पर­स्या­प्र­ति­पत्तौ लिङ्गेन प्रत्यायने दृष्टान्तमाह –
यथेति ।
विप्रतिपन्नं प्रति धूमा­दि­लि­ङ्गे­ना­ग्न्यादि प्रत्याय्यते तथा स्पर्शा­दि­लि­ङ्गेन दृष्ट­त्वा­दि­वि­शि­ष्ट­मिदं प्रत्ये­त­व्य­मि­त्यर्थः ।

यथोक्तस्य ज्योतिषो लिङ्गेन प्रत्यायनं किमिति क्रियते तत्राऽऽह –
तथा हीति ।
लिङ्गद्वारा तस्य प्रत्यायते सति गुण­द्व­य­वि­शि­ष्ट­मे­वेदं ज्योति­र्ना­न्य­थे­त्येवं यथोक्ते पर­स्मि­न्नु­पा­स्य­ज्यो­तिषि दृढा धीः स्यात् । तद­भा­वा­त्त­द्गु­णस्य ज्योति­षोऽ­ध्या­ना­दि­त्यर्थः ।

मा भूत्परस्य ज्योतिषो यथो­क्त­गु­ण­स्या­शे­षो­पा­स­न­मि­त्या­श­ङ्क्याऽऽह –
अनन्यत्वेनेति ।
कौक्षेयस्य ज्योतिषः सन्नि­क­र्षा­ज्जी­वा­भेदं परिकल्प्य जाठरं ज्योति­र्ब्र­ह्मे­त्य­न­न्य­त्वेन ध्याने जीव­ब्र­ह्म­णो­रे­क­तया निश्च­य­श्चा­र्था­त्सि­द्ध्यति । अतो यथो­क्तो­पा­स्ति­र­र्थ­व­ती­त्यर्थः ।

अथशब्दस्य विद्या­न्त­रा­र­म्भा­र्थ­त्व­म­भ्यु­पे­त्या­न­न्त­र­ग्र­न्थस्य तात्प­र्य­मु­क्त्वाऽ­व­शि­ष्टा­न्य­क्ष­रा­ण्य­व­तार्य व्याकरोरि –
अत आहेत्यादिना ।

यदित्युपक्रम्य ज्योति­रि­त्यु­प­सं­हा­रा­त्पर इति पुंलि­ङ्ग­प्र­यो­ग­मा­श­ङ्क्याऽऽह –
परमिति ।

कादा­चि­त्क­प्र­का­श­त्वा­भा­वा­त्कथं दीप्यत इति प्रयो­ग­स्त­त्राऽऽह –
स्वयंप्रभमिति ।

कस्मादिवेति प्रयुज्यते मुख्यमेव दीप्यमानत्वं किं न स्यादि­त्या­श­ङ्क्याऽऽह –
अन्न्यादीति ।
हेतोरुभयत्र सम्बन्धः ।

सर्व­श­ब्द­स्या­स­ङ्कु­चि­त­व­र्ति­त्वा­दा­त्म­नोऽपि तेन संगृ­ही­त­त्वा­त्कथं तस्मादूर्ध्वं ब्रह्मे­त्यु­प­प­न्न­मि­त्या­श­ङ्क्याऽऽह –
संसारादिति ।

तस्यैव सर्व­श­ब्द­वा­च्य­त्व­मु­प­पा­द­यति –
संसार एव हीति ।
तस्यानेकत्वेन सर्व­श­ब्दा­र्ह­त्वा­दि­त्यर्थः ।

आत्मनि सर्व­श­ब्दा­नु­प­प­त्ति­माह –
असंसारिण इति ।
सर्व­श­ब्द­स्या­ने­का­र्थ­वा­चि­त्वा­दा­त्मनि चैक­त्वा­त्प्र­का­र­भे­दस्य च नित्यमुक्ते तस्मि­न्न­स­म्भ­वान्न तस्य सर्व­श­ब्दा­त्प्र­ती­ति­रि­त्यर्थः ।

उत्तमा न भव­न्ती­त्यु­नु­त्त­मा­स्ते­ष्विति तत्पु­रु­षा­श­ङ्कायां तन्नि­वृ­त्ति­द्वारा बहु­व्री­हि­सि­द्ध्यर्थं विशेषणमित्याह –
तत्पुरुषेति ।

किमिति तेषु परब्रह्म निर्दिश्यते तस्य सर्व­ग­त­त्वा­दि­त्या­श­ङ्क्याऽऽह –
हिरण्यगर्भादीति ।
तत्कार्यात्मना स्थितं परं ब्रह्मोत्तमेषु लोके­ष्वि­त्यु­च्यते । तस्य सर्वत्र सतोऽपि सत्यलाकादिषु हिर­ण्य­ग­र्भा­द्या­त्म­नाऽ­ति­श­येन नित्या­भि­व्य­क्त­त्वा­दि­त्यर्थः । यदिति सर्वानाम्ना प्रकृतं ब्रह्म परामृश्यते तस्यो­पा­स्य­त्वार्थं संसा­रा­दु­प­रि­ष्टा­द­व­स्था­न­मु­क्तम् ।

इदानीं कौक्षेये ज्योतिषि तदारोपयति –
इदमिति ।

कौक्षेये ज्योतिषि प्रतीके प्रमाणं दर्शयति –
चक्षुरिति ।
चक्षुष्यो भव­ती­ति­फ­ल­व­च­ना­नु­सा­रेण स्पर्श­रू­पै­क्य­मा­ध्या­सि­क­मा­दा­यो­ष्णि­म्न­श्चा­क्षु­षत्वं द्रष्टव्यम् ।

रूप­स्प­र्श­यो­रै­क्या­ध्यासं स्फुटयति –
यत्त्वचेति ।

यदुष्णं तेजो द्रव्यात्मकं त्वगिन्द्रियेण स्पर्शरूपेण गृह्यते तच्चक्षुषैव गृह्यते तत्र हेतुमाह –
दृढेति ।
त्वचो दृढायां प्रतीतौ हेतु­त्वा­च्च­क्षुषा तादा­त्म्या­रो­पा­दि­त्यर्थः ।

यद्रूपवद्भवति तत्स्पर्शवदिति नियमाच्च रूप­स्प­र्श­यो­स्ता­दा­त्म्या­ध्या­सा­त्तस्य चाक्षु­ष­त्व­सि­द्धि­रि­त्याह –
अवि­ना­भू­त­त्वा­च्चेति ।

शब्दो यस्य ज्योतिषो लिङ्गमौष्ण्यं तस्य त्वगि­न्द्रि­य­ग्रा­ह्यस्य चाक्षु­ष­त्व­मु­प­पा­द­यितुं पृच्छति –
कथमिति ।

तस्यैषा दृष्टि­रि­त्या­दि­वा­क्ये­नो­त्तरं दर्श­य­न्य­न्ने­त्यादि व्याकरोति –
आहेत्यादिना ।
यथेतद्विज्ञानं स्यात्तथेति विज्ञा­न­क्रि­यायां विशेषणमेतदिति पदमित्यर्थः ।

संस्प­र्शे­नो­ष्णि­मानं विजानाति चेत्कथं तर्हि तस्य चाक्षु­ष­त्व­मि­त्या­श­ङ्क्याऽऽह –
रूपसहभाविनमिति ।

भव­त्वौ­प­चा­रि­क­मौ­ष्ण्यस्य चाक्षुषत्वं तथाऽपि कथं तस्य लिङ्ग­त्व­मि­त्या­शङ्क्य जीव­न­प्र­त्या­य­न­द्वारा कौक्षेयज्योतिषि तस्य लिङ्गत्वं साधयति –
स हीति ।

जीवात्मना तस्याव्यभिचारं स्फोरयति –
न हीति ।

तत्रैव श्रुतिं संवादयति –
उष्ण एवेति ।

यदा जीवस्य लिङ्गमौष्ण्यं तदा परस्यापि ज्योति­ष­स्त­ल्लिङ्गं भवति, जीव­प­र­यो­रे­क­त्वा­व­ग­मा­दि­त्याह –
मरणकाले चेति ।
वागादि मनसि मनः प्राणे प्राणस्तेजसि तद­ध्य­क्ष­ल­क्ष­ण­प­रस्यां देवतायां परमात्माख्यायां सम्पद्यत इति श्रुत्या जीवस्य परेण तदर्थात्मना सहा­भि­न्न­त्व­स्यो­प­ग­मा­ज्जी­वस्य लिङ्गं तद्भवति परस्य लिङ्गमित्यर्थः ।

यदा हि जीवस्य परस्य च यथो­क्त­लि­ङ्गा­द­व­ग­ति­स्तदा तत्र कौक्षे­य­ज्यो­ति­ष­स्त­द­धि­क­र­णस्य सुत­रा­म­व­ग­ति­र­स्ती­त्याह –
अत इति ।

उष्णस्य जाठरे ज्योतिषि प्रतीके लिङ्गत्वे सति तल्लिङ्गमाह –
तस्येति ।
विष्णोरिव प्रतिमायां जाठरेण ज्योतिषा परस्य ज्योति­ष­स्ता­दा­त्म्या­दि­त्यर्थः ।

प्रतीकद्वारा दृष्ट्यु­पा­य­व­त्तस्य श्रवणोपायं लिङ्गन्तरं दर्शयति –
तथेति ।
अपिगृह्य श्रुणोतीति सम्बन्धः । यथा श्रवणमेतद्भवति तथा श्रुणोतीति श्रवणक्रियाया विशेषणमेतच्छब्द इति योजना । पौर्णुत्य पिधायेति यावत् । श्रूयमाणशब्दस्य वाच्या­र्थ­भा­व­स्फु­टी­क­र­णा­र्थ­म­ने­क­दृ­ष्टा­न्तो­पा­दा­नम् ।

कौक्षे­य­ज्यो­ति­ष्या­रो­पि­तस्य ज्योतिषो ध्येयस्य ध्यानो­पा­या­ङ्ग­त्वेन गुणद्वयमुपदिशति –
तदेतदिति ।

दृष्ट­मि­त्यु­पा­सने फलमाचष्टे –
तथेति ।

श्रुत­मि­त्यु­पा­सने फलमाह –
श्रुत इति ।

कथं पुनः स्पर्शगुणोपासने स्पर्श्यो भवतीति वक्तव्ये चक्षुष्यो भवतीत्युच्यते तत्राऽह –
यत्स्पर्शेति ।

सम्पादने निमित्तमाह –
रूपस्पर्शयोरिति ।

इतश्च चक्षुष्यो भवतीति फल­व­च­न­मु­चि­त­मि­त्याह –
इष्टत्वाच्चेति ।

फलवचनमपि सम्पादयति न कल्पकमित्याह –
एवं चेति ।
यदा स्पर्श­गु­णो­पा­स­न­नि­मित्तं फलं रूपे सम्पाद्यते तदा विद्यायाः श्रुतं फलमुपपन्नमिति फल­श्रु­ति­र­नु­कू­लिता स्यात् । रूपविशेषवति चक्षुष्यशब्दस्य प्रसि­द्ध­त्वा­दि­त्यर्थः ।

यदि पुन­र्मृ­दु­त्वा­दि­स्प­र्श­गु­ण­स्यो­पा­स­न­नि­मित्तं फलं कल्प्यते तदा चक्षुष्यो भवतीति श्रुतं फलं नैवोपपन्नं स्यात्ततश्च फल­श्रु­ति­र­प­बा­धिता भवेदित्याह –
न त्विति ।

कस्येदं फल­मि­त्य­पे­क्षा­या­माह –
य एवमिति ।

ननु परस्य ज्योतिषो जाठरे ज्योति­ष्या­रो­पि­तस्य यथोक्तगुणवतो ध्याना­त्क­थ­मि­द­म­त्यल्पं फल­म­न­नु­रू­प­मु­प­दि­श्यते तत्राऽऽह –
स्वर्गलोकेति ।
फलवत्यां विद्यायामादरो विवक्षितः ॥७॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां तृतीयाध्यायस्य त्रयोदशः खण्डः ॥