अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

तृतीयोऽध्यायः: सप्तदशः खण्डः

ननु पूर्वे­णाऽऽ­शी­र्वा­द­प्र­यो­गे­णो­दा­ह­र­णे­नैव सम­न­न्त­र­ग्र­न्थस्य सम्बन्धो नोपलभ्यते तत्राऽऽह –
स यदिति ।
पूर्वेण तस्य यानि चनु­विं­श­ति­व­र्षा­णी­त्या­दिना सादृ­श्य­नि­र्दे­शे­ने­त्यर्थः । एवं­जा­ती­य­क­म­श­ना­या­दि­कृ­त­मिति यावत् ।

अशिशिषादिषु दीक्षादृष्टौ हेतुमाह –
दुःखेति ॥१॥

दीक्षा­व­च­न­सा­दृ­श्या­त्पु­रु­षस्य यज्ञ­त्व­मु­क्त­मि­दा­नी­मु­प­स­दु­पे­त­त्व­सा­दृ­श्या­दपि तस्य यज्ञत्वं विज्ञेयमित्याह –
अथेति ।

अशनादिषु कथ­मु­प­स­द्दृ­ष्टि­स्त­त्राऽऽह –
उपसदां चेति ।
पयोव्रतत्वं पयो­भ­क्ष­ण­यु­क्त­त्वम् । यज्ञे यान्य­हा­ल्प­भो­ज­नी­यानि प्रसिद्धानि तानि चोपसत्सु क्रिय­मा­णा­न्या­श्वा­स­न्ना­नीति तासु प्रश्वासः स्वास्थ्यविशेषः । अशनादिषु च सोऽस्तीति प्रसिद्धमिति भावः । सुखनिमित्तत्वं क्लेश­नि­वृ­त्ति­हे­तुत्वं च सामान्यम् ॥२॥

स्तुत­श­स्त्र­वै­शि­ष्ट्य­सा­म्या­दपि पुरुषस्य यज्ञत्वमित्याह –
अथ यदिति ।

हासादिषु स्तुत­श­स्त्र­दृष्टौ हेतुमाह –
शब्दवत्त्वेति ॥३॥

दक्षि­णा­व­त्त्व­सा­म्या­दपि पुरुषस्य यज्ञ­त्व­म­व­धे­य­मि­त्याह –
अथेति ।

तपोदानादिषु दक्षिणादृष्टौ हेतुमाह –
धर्मेति ॥४॥

प्रकारान्तरेण पुरुषस्य यज्ञत्वं साधयति –
यस्माच्चेति ।
“षूङ् प्राणिप्रसवे” “षुञ् अभिषवे” इति धातु­द्व­य­द­र्श­ना­त्प्र­सवे कण्डने च साधारणः सवनशब्दस्ततः सव­न­श­ब्द­व­त्त्व­सा­मा­न्याद्वा पुरुषे यज्ञदृष्टिः कर्तव्येत्यर्थः ।

पुरुषगतं शब्दसामान्यं विशदयति –
पुनरिति ।
यत्पुनरस्य पुरुषाख्यस्य विधियज्ञस्येव सोष्य­ती­त्या­दि­श­ब्द­स­म्ब­न्धित्वं तदुत्पादनमेव तदिति योजना ।

अव­भृ­थ­स­म्ब­न्धि­त्वा­दपि पुरुषस्य यज्ञ­त्व­म­स्ती­त्याह –
किंचेति ॥५॥

पुरुषे यज्ञ­दृ­ष्टि­रुक्ता सम्प्रति विशि­ष्ट­पु­रु­ष­स­म्ब­न्धेन विद्यां स्तोतुं विद्याङ्गं च जपं विधातुमुपक्रमते –
तद्धैतदिति ।

देव­की­पु­त्र­स्यै­त­द्द­र्श­न­श्र­व­ण­फ­ल­माह –
स चेति ।

किमर्थेयं गुरु­शि­ष्या­ख्या­यि­के­त्याह –
इत्थं चेति ।

अक्षितमसीति कीदृशीं देवतां प्रत्युच्यते तत्राऽऽह –
सामर्थ्यादिति ।
निकृष्टस्य स्तुति­स­म्ब­न्धा­यो­गा­त्पु­रु­ष­यज्ञे सव­न­दे­व­ता­न्त­रा­नु­प­प­त्तेश्च प्राणा­ना­मे­वाऽऽ­धि­दै­विकं रूपमादित्याख्यं जप्य­म­न्त्रा­र्थ­त्वेन सम्बध्यत इत्यर्थः ।

द्विती­य­म­न्त्र­स्या­र्था­न्तरं वारयति –
तथेति ।
प्रथ­म­म­न्त्र­व­दि­त्यर्थः । न च द्वयो­रे­का­र्थत्वे सत्यन्यतरस्य वैयर्थ्यं द्वयोरपि जप्य­त्वे­नो­प­यु­क्त­त्वा­दिति द्रष्टव्यम् ।

मन्त्र­त्र­य­प्र­ति­पाद्यं सावित्रं तत्त्व­मृ­ग्भ्या­मपि प्रतिपादितमिति प्रत्य­य­दा­र्ढ्या­र्थ­माह –
तत्रेति ।

किमिति विद्या­स्तु­ति­प­र­त्व­म­न­यो­रि­ष्यते जपार्थत्वमेव किं न स्यात्तत्राऽऽह –
नेत्यादिना ।

अन­यो­र्ज­पा­र्थ­त्वेऽपि त्रित्व­सं­ख्या­याः­स­त्त्वान्न सा बाध्ये­त्या­श­ङ्क्याऽऽह –
पञ्चेति ।
अनयोर्जप्यत्वे पञ्चकं प्रतिपद्येतेति पञ्चसंख्याया वक्त­व्य­त्वा­त्त्रित्वं बाधितं स्यादित्यर्थः ॥६॥

“आदित्प्रत्नस्य रेतसो ज्योतिः पश्यन्ति वासरम् । परो यदिध्यते दिवि” इति मन्त्रस्य प्रती­क­ग्र­ह­ण­मा­दि­त्प्र­त्नस्य रेतस इति, तत्प­द­च्छे­द­पू­र्वकं व्याचष्टे –
आदित्यादिना ।
इच्छ­ब्द­श्चा­न­र्थक इति पूर्वेण सम्बन्धः ।

किं तत्का­र­ण­मि­त्य­पे­क्षायां सदेव सोम्ये­द­मि­त्या­दि­श्रु­ति­सिद्धं ब्रह्मेत्याह –
सदाख्यस्येति ।
आनन्दं ब्रह्मणो विद्वा­नि­ति­व­त्प्र­त्नस्य ज्योतिरिति सम्बन्धो द्रष्टव्यः । उत्सृ­ष्टा­नु­बन्धो ध्वस्ततकारः स इति यावत् ।

ननु ब्रह्म­स्व­रू­प­भू­त­मे­त­ज्ज्यो­ति­र्नैव सर्वे पश्यन्तो दृश्यन्ते तत्राऽऽह –
निवृत्तचक्षुष इति ।
निवृत्तानि विमुखीकृतानि विष­ये­भ्य­श्च­क्षूंषि करणानि येषां ते तथा । अत एव ब्रह्मविदः, “कश्चिद्धीरः प्रत्य­गा­त्मा­न­मै­क्ष­दा­वृ­त्त­च­क्षु­र­मृ­त­त्व­मि­च्छन्”(क.उ. २ । ४ । १) इति श्रुत्यन्तरम् ।

तत्रै­वो­पा­या­न्तरं सूचयति –
ब्रह्मचर्यादीति ।
“स्मरणं कीर्तनं केलिः प्रेक्षणं गृह्यभाषणम् । सङ्क­ल्पोऽ­ध्य­व­सा­यश्च क्रिया­नि­वृ­त्ति­रेव च ॥ एत­न्मै­थु­न­म­ष्टाङ्गं प्रवदन्ति मनीषिणः । विपरीतं ब्रह्म­च­र्य­मे­त­दे­वा­ष्ट­ल­क्ष­णम् ॥”(अ.पु. ३७२) [इत्युक्तं] ब्रह्मचर्यम् । आदि­प­दे­ना­हिं­साऽ­स्ते­या­दयो गृह्यन्ते । एतै­र्नि­वृ­त्ति­प्र­धानैः साधनैः शुद्ध­मु­द्दी­पि­त­म­न्तः­क­रणं येषां ते तथा ।

व्यत्यये हेतुमाह –
ज्योति­ष्प­र­त्वा­दिति ।
यत्स्व­म­हि­म­प्र­ति­ष्ठितं दीप्यते तत्परं ज्योतिरिति सम्बन्धः ।

दीप्यमानत्वं विवृणोति –
येनेति ।

मन्त्रा­न्त­र­म­व­ता­र­यति –
किञ्चेति ।
इतश्च विद्या­स्तु­त्य­र्थेति यावत् ।

किमा­हे­त्य­पे­क्षायां द्वितीयं मन्त्रमादत्ते –
उद्वयमिति ।

तं व्याकरोति –
तमस इत्यादिना ।
तस्यैव ज्योतिषः प्रभाने ज्योति­र्ना­न्य­द­स्ती­त्यर्थः ।

देवत्वेन प्रत्य­गा­त्म­त्व­माह –
स्वरिति ।

तयोरेकत्वं “स यश्चायम्”(तै.उ. २ । ८ । ५) इत्यादिषु श्रुत्य­न्त­र­सिद्धं दर्शयति –
आदित्यस्थमिति ।

तत्पदार्थं त्वंपदार्थं चोक्त्वा तयो­रै­क्य­मु­क्त­मि­दा­नी­मे­की­भूतं ज्योति­र्वि­शि­नष्टि –
यदुत्तरमिति ।

एकत्वधीफलं कथयति –
पश्यन्त इति ।

फलमेव प्रश्नपूर्वकं विवृणोति –
किमित्यादिना ।

फलविषयं स्वानुभवं दर्शयति –
अहो इति ।

मन्त्राणां मन्त्र­यो­श्चै­क­वा­क्य­त्व­मु­प­सं­ह­रति –
इदं तदिति ॥७॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां तृतीयाध्यायस्य सप्तदशः खण्डः ॥