आनन्दगिरिटीका (छान्दोग्य)
सप्तमोऽध्यायः: षोडशः खण्डः
अत्र प्राणान्तमुपदेशं श्रुत्वा नारदस्य तूष्णीभावे किं कारणमित्याशङ्कायामाह –
स एष इति ।
कथं तस्योपरतिरवगतेत्याशङ्क्याऽऽह –
न पूर्ववदिति ।
किमिति तर्हि प्राप्तायामुपेक्षायां स्वयमेवाऽऽचार्यो व्युत्पादयतीत्याशङ्क्याऽऽह –
तमेवमिति ।
“एतस्माज्जायते प्राण”(मु.उ. २ । १ । ३) इति श्रुत्यन्तरात्प्राणस्य विकारत्वेनानृतत्वं “वाचाऽऽरम्भणं विकारो नामधेयम्”(छा.उ. ६ । १ । ४) इत्युक्तम् । तस्मिन्ननृते प्राणे ब्रह्मणि विज्ञानं तेनेति यावत् ।
परितुश्ष्टत्वे कथमकृतार्थत्वमित्याशङ्क्य मिथ्याज्ञानशालित्वादित्याह –
परमार्थेति ।
न च तस्योपेक्षार्हत्वमित्याह –
योग्यमिति ।
मिथ्याग्रहविशेषो नास्ति प्राणात्परमित्यभिमानः ।
कथं तर्हि प्राणविदोऽतिवादित्वमुक्तं तत्राऽऽह –
नामादीति ।
कस्तर्हि परमार्थतोऽतिवादीत्याशङ्क्याऽऽह –
यस्त्विति ।
सोऽतिवादीति यतः सनत्कुमारस्याभिप्रायोऽत एवाऽऽहेति योजना ।
ननु नारदस्य नाद्यापि सत्यविज्ञानमुत्पन्नं कथं सत्येनातिवदानीति पृच्छति तत्राऽऽह –
तथेति ॥१॥
इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य षोडशः खण्डः ॥