आनन्दगिरिटीका (छान्दोग्य)
अष्टमोऽध्यायः: प्रथमः खण्डः
पूर्वस्मिन्नध्यायद्वये निर्विशेषमात्मतत्त्वमनवच्छिन्नं सदानन्दैकतानमावेदितं तथा चोपनिषदारम्भे चरितार्थे किमवशिष्यते यदर्थमध्यायान्तरमित्याशङ्क्याऽऽह –
यद्यपीति ।
कर्तुमिति तदधिगमाय विशिष्टो देश उपदेष्टव्य इति सम्बन्धः । मन्दबुद्धीनां तर्हि परमार्थवस्तुनो ब्रह्मणोऽधिगतिरपेक्षितेत्यर्थः ।
न केवलं मन्दाधिकारिणां ब्रह्माधिगमशेषत्वेन हृदयदेशोपदेश एवात्र कर्तव्यः किं तु पूर्वत्रानुक्तगुणाद्यर्थान्तरोपदेशश्च कार्य इत्याह –
यद्यपीति ।
अवशिष्टमर्थान्तरमुपदेष्टव्यमन्वाचष्टे –
तथेति ।
मन्दधियां ब्रह्मधीशेषत्वेन देशविशेषवद्गुणविशेषवच्च ब्रह्मचर्यादिसाधनविशेषो विधातव्य इति सम्बन्धः ।
शब्दोत्थब्रह्मज्ञानवतां विधिं विनाऽपि विषयवैमुख्यसम्भवात्किं विधिनेत्याशङ्क्याऽऽह –
यद्यपि ब्रह्मविदामिति ।
यथा साधनविशेषो वक्तव्योऽवशिष्यते तथोपासकानां गतिश्च वक्तव्येत्यवशिष्टमर्थान्तरमाह –
तथेति ।
एकत्वदर्शिनां गन्त्रादिसर्वभेदप्रत्ययास्तमयादविद्याविशेषस्य देहस्थितिनिमित्तस्य क्षये सति निवृत्तिसम्भवात्कुतो गतिर्वक्तव्येत्याशङ्क्याऽऽह –
यद्यप्यात्मैकत्वविदामिति ।
अविद्यादिशेषस्थितिनिमित्तक्षये स्वात्मन्येव निवृत्तिरित्युत्तरेण सम्बन्धः ।
स्वात्मनिर्वाणेऽपि कृतकरूपत्यागेन स्वाभाविकस्वरूपावस्थानमित्यत्र दृष्टान्तानाह –
गगन इवेति ।
अनेकोदाहरणोपादानं बुद्धिसौकर्यार्थम् ।
उक्तमेवाध्यायतात्पर्यं संक्षिप्य दर्शयति –
दिग्देशेति ।
दिशादेशेन गुणैर्गत्या फलभेदेन च शून्यं तदनवच्छिन्नमिति यावत् ।
तस्य दिगाद्यनवच्छिन्नत्वे हेतुमाह –
अद्वयमिति ।
तर्हि तेषां भ्रमापोहार्थं परमार्थसदद्वयं ब्रह्म ग्राहयितव्यं किमित्यन्यथोपदिश्यते तत्राऽऽह –
सन्मार्गस्था इति ।
अध्यायतात्पर्यं संक्षेपविस्तराभ्यां दर्शयित्वा श्रुत्यक्षराणि व्याकरोति –
अथेत्यादिना ।
उत्तमबुद्धीन्प्रति निर्विशेष ब्रह्मोपदेशानन्तरं मन्दबुद्धीन्प्रति सविशेषमुपदिश्यते ब्रह्मेत्यर्थः ।
तत्र तावदुपास्यायतनं निर्दिशति –
यदिदमिति ।
हृदयपुण्डरीकस्य वेश्मसादृश्ये हेतुमाह –
द्वारपालादीति ।
तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषय इत्यादिश्रुतेरुक्तहेतुसिद्धिः ।
तस्याऽऽश्रयं दर्शयति –
अस्मिन्निति ।
शरीरस्य ब्रह्मपुरत्वं दृष्टान्तेन साधयति –
राज्ञ इति ।
तत्रोक्तं वेश्म दृष्टान्तेन स्पष्टयति –
पुरे चेति ।
कथं पुनः सर्वगतस्य निरवयवस्य ब्रह्मणो यथोक्तवेश्मनिष्ठत्वमित्याशङ्क्याऽऽह –
ब्रह्मण इति ।
ननु संसारिणो ब्रह्मातिरिक्तस्य स्वकर्मोपार्जितेन शरीरेण स्वामित्वसंबन्धो न ब्रह्मणस्तदसंबन्धिनः कथं तत्रोपलब्धिरत आह –
अस्मिन्हीति ।
ब्रह्मणो जीवात्मना सृष्टे कार्ये जलार्कवत्प्रवेशे हृदयपुण्डरीकस्य ब्रह्मोपलब्ध्यधिष्ठानत्वं पूर्वोक्तमविरुद्धमित्याह –
तस्मादिति ।
अन्तराकाशस्यात्यल्पतरत्वे हेतुमाह –
वेश्मन इति ।
आकाशशब्दस्य भूताकाशविषयत्वं व्यावर्तयति –
आकाशाख्यमिति ।
कथं वाक्यशेषेऽप्याकाशशब्दो ब्रह्मणि वर्तते तत्राऽऽह –
आकाश इवेति ।
तस्मिन्यदन्तस्तदाश्रयेण सहान्वेष्टव्यं तस्मिन्वा स्वे महिम्नि यदन्तस्तदाकाशाख्यं ब्रह्म तदन्वेष्टव्यं तस्मिन्वा हृदयपुण्डरीकावच्छिन्ने नभसि यदन्तराकाशाख्यं ब्रह्म तदन्वेष्टव्यमिति योजना ॥१॥
दहरोऽस्मिन्नित्यादिवाक्यस्य यथाश्रुतमर्थं गृहीत्वा चोद्यमुत्थापयति –
तं चेदिति ।
तदेव चोद्यमाकाङ्क्षाद्वारा विवृणोति –
कथमित्यादिना ।
भवतु परिच्छिन्ने शरीरे पुण्डरीकाकारस्य हृदयस्याल्पत्वं तदन्तर्वर्तिनश्चाऽऽकाशस्य ततोऽप्यल्पतरत्वं तथाऽपि प्रकृते किं स्यादित्याशङ्क्याऽऽह –
पुण्डरीक एवेति ।
किंशब्दस्य प्रश्नविषयत्वं व्यावर्तयति –
न किंचनेति ।
हृदयपुण्डरीकान्तर्वर्तिनमाकाशमुपेत्याऽऽद्यं दूषयति –
यदि नामेति ।
फलानुपलम्भोऽतःशब्दः । तत्रेत्यन्तर्वर्त्याकाशोक्तिः ।
शिष्याचार्यव्यतिरिक्तस्यात्राप्रस्तुतत्वात्कस्येदं नियोगवचनमित्याशङ्क्याऽऽह –
इति श्रुतेरिति ॥२॥
किमाचार्यो ब्रूयादित्यपेक्षायां वक्ष्यमाणेऽर्थे शिष्याणां मनःसमाधानमादौ प्रार्थयत इत्याह –
श्रुणुतेति ।
श्रोतव्यमेव दर्शयितुं शिष्यैरुक्तमनुवदति –
तत्रेति ।
किमाकाशस्य स्वाभाविकं दहरत्वमुपेत्य चाद्यते किं वा परोपाधिनिमित्तमिति विकल्प्याऽऽद्यं दूषयति –
तदसदिति ।
ततश्च तस्य स्वाभाविकं दहरत्वमाश्रित्य चोद्यं निरवकाशमिति शेषः ।
कथं तर्हि दहरत्वोक्तिराकाशस्येत्याशङ्क्याऽऽह –
किं तर्हीति ।
तस्मिन्विशुद्धे तावन्मात्रं ब्रह्म यथोक्तविशेषणं योगिनां विषयेभ्यो विमुखीकृतान्तःकरणानामुपलभ्यत इति सम्बन्धः ।
अन्तःकरणस्य शुद्धत्वे दृष्टान्तमाह –
स्वच्छ इवेति ।
ब्रह्मणस्तस्मिन्नुपलभ्यमानत्वे प्रतिबिम्बरूपमिवेत्युदाहरणम् । प्रतिपत्तिसौकर्यार्थमुदाहरणान्तरम् ।
ब्रह्मणो नैसर्गिकमागन्तुकं च व्यवधानं नास्तीत्युपलब्धिसिद्ध्यर्थं विशिनष्टि –
स्वच्छमिति ।
तादृगेव दहरत्वमादाय चोद्यते चेदनौपाधिकं महत्त्वमुपेत्य समाधिः सम्भवतीति कल्पान्तरं निरस्यति –
स्वतस्त्विति ।
यस्मिन्नन्वेष्टव्यमाश्रयेण सहेति शेषः ।
यावांस्तावानिति वचनादाकाशेन तुल्यपरिमाणत्वं ब्रह्मणोऽभिप्रेतं तथाच ज्यायानाकाशादित्यादि विरुद्धमित्याशङ्क्याऽऽह –
नापीति ।
केनाभिप्रायेण तर्हि तावानित्युक्तमत आह –
किं तर्हीति ।
“न तस्य प्रतिमाऽस्ति”(श्वे.उ. ४ । १९) इत्याकाशादि येन व्याप्तं लोकोऽनुभवति तस्मिन्नक्षरे सर्वमृगादि समाहितमित्यर्थः ।
कार्यकारणयोरतुल्यपरिमाणत्वप्रसिद्धेश्च नाऽऽकाशसमता ब्रह्मणोऽस्तीत्याह –
तस्मादिति ।
आधाराधेययोस्तुल्यपरिमाणत्वाच्चैवमित्याह –
एतस्मिन्निति ।
इतश्चाऽऽकाशस्य न स्वाभाविकं दहरत्वमित्याह –
किंचेति ।
कार्यं हि द्यावापृथिव्यादि कारणे समाहितं तच्च हृदये ध्येयमित्यभिप्रेत्य बुद्ध्युपाधिविशिष्ट इत्युक्तम् ।
आकाशे द्यावापृथिव्यादिः समाहितत्वे भूमविद्यासंवादं दर्शयति –
यथा वेति ।
न विद्यते सर्वं तदास्मिन्समाहितमिति सम्बन्धः ।
नास्तिशब्दस्यात्यन्तासद्विषयत्वं व्यावर्तयति –
नष्टमिति ॥३॥
आश्रयनाशादाश्रितनाशः स्यादिति न्यायमाश्रित्य शङ्कते –
तं चेदिति ।
यद्यस्मिन्सर्वं समाहितं ततो देहनाशे किमवशिष्यत इति सम्बन्धः ।
शिष्याणामधिकावापं दोषमाशङ्कते –
कथमिति ।
शङ्कितं दोषं परिहरति –
नैष दोष इति ।
सर्वं तदस्मिन्समाहितमित्यत्रोक्तेन सर्वशब्देनेति शेषः ।
शिष्याणामधिकावापं दोषं परिहृत्य प्रकृतं चोद्यं विवणोति –
यदेत्यादिना ।
आकाशस्य शिष्यमाणत्वमाशङ्क्याऽऽह –
घटेति ।
ततो यथोक्तान्नाशादिति सम्बन्धः ॥४॥
कया पुना रीत्या शून्यविषया शिष्यमतिरपनेतव्येति प्रश्नपूर्वकं विवृणोति –
कथमित्यादिना ।
देहादिविक्रियया ब्रह्मणो न विक्रियाऽस्तीत्येतत्कैमुतिकन्यायेन साधयति –
न चेति ।
देहादिषु तादात्म्येन स्थितं चेद्ब्रह्म दोषैरसंस्पृष्टमित्ययुक्तमित्याशङ्क्याऽऽह –
कथमिति ।
प्रकृता दहरोपासना तत्र व्यासङ्गो विक्षेपः ।
यदि देहादिदोषैरसंस्पृष्टत्वं ब्रह्मणो नोच्यते चेदेते न क्वचिदुपपद्यन्ते तर्हि तदविवक्षितमेव स्यादित्याशङ्क्याऽऽह –
इन्द्रेति ।
नास्येत्यादिनोऽक्तेऽर्थे हेतुमाह –
एतदिति ।
कथं यथोक्तं ब्रह्मणः पुरमवितथं स्यादित्याशङ्क्याऽऽह –
ब्रह्मैवेति ।
सत्यशब्दसामानाधिकरण्यादुक्तसमाससिद्धिरित्यर्थः ।
कथं तर्हि शरीरं ब्रह्मपुरमित्युक्तमत आह –
शरीराख्यं त्विति ।
तदेव स्फुटयितुं शरीरस्य मिथ्यात्वं सप्रमाणं दर्शयति –
तत्त्विति ।
अथ मिथ्याभूतस्य तस्य कथं ब्रह्मपुरत्वमत आह –
तद्विकार इति ।
किं च व्यावहारिकं सत्यमिदं शरीरं तद्युक्तं तस्यानृतस्यापि ब्रह्मोपलब्ध्यधिष्ठानस्य ब्रह्मपुरत्वमित्याह –
व्यावहारिकमिति ।
ब्रह्म तु परमार्थसत्यमतश्चैतदेव सत्यमित्युक्तं ब्रह्मपुरमित्याह –
सत्यं त्विति ।
ब्रह्मणः सत्यत्वेऽपि पुरत्वायोगात्कुतो ब्रह्मपुरत्वमित्याशङ्क्याऽऽह –
सर्वव्यवहारेति ।
दहराकाशस्याल्पत्वं विनाशित्वमित्याशङ्कितं दोषं परिहृत्योपास्यत्वसिद्ध्यर्थं पातनिकां करोति –
अत इति ।
अस्मिन्सर्वकामसमाधाने फलितमुपासनमुपदिशति –
अतस्तदिति ।
यथोक्ते दहराकाशे कीदृगुपासनं कर्तव्यमित्यपेक्षायामहंग्रहेणेत्याह –
एष इति ।
पुनरुक्तिं शङ्कते –
तदुक्तमिति ।
तां परिहरति –
यद्यपीति ।
अन्यथा देहसम्बन्धं विना स्वभावतोऽपीत्यर्थः । निवृत्त्यर्थं पुनरुच्यत इति पूर्वेण सम्बन्धः ।
प्रकारान्तरेण पुनरुक्तिं चोदयति –
नन्विति ।
शोकस्यान्ता किंचिद्व्यवधाय पिपासा येष्वस्ति ते शोकान्तास्तेषां जरादीनामपहतपाप्मत्वेन प्रतिषिद्धत्वे हेतुमाह –
कारणेति ।
कथं धर्माधर्मप्रतिषेधे जरादिविकारप्रतिषेधस्तत्राऽऽह –
धर्मेति ।
इति पृथक्प्रतिषेधोऽनर्थकः स्यादिति सम्बन्धः ।
जरादिप्रतिषेधस्यार्थवत्त्वमङ्गीकृत्य पाप्मप्रतिषेधस्य नैरर्थक्यमिति पक्षान्तरमाह –
जरादीति ।
धर्मादेर्जरादेर्वा निषेधादितरनिषेधः सिद्ध्यतीत्यङ्गीकरोति –
सत्यमेवमिति ।
तर्हि किमित्यपहतपाप्मेत्युक्त्वा विजरो विमृत्युरित्याद्युच्यते तत्राऽऽह –
तथाऽपीति ।
तथाऽपि दुःखे प्रतिषिद्धे किमिति जरादि प्रतिषिध्यते तत्राऽऽह –
जरादिति ।
यत्तु कार्याभावे सतोरपि धर्माधर्मयोरुत्खातदन्तोरगवदकिंचित्करत्वादपहतपाप्मेति न पृथग्वक्तव्यमिति तत्राऽऽह –
पापनिमित्तानामिति ।
ईश्वरस्य सत्यकामत्वं साधयति –
वितथा हीति ।
यथेश्वरस्यावितथाः कामास्तथा संकल्पाश्चेत्याह –
तथेति ।
अभावरूपाणां धर्माणामद्वैताव्याघातमकत्वेन सम्भावितत्वेऽपि कथं भावरूपा धर्माः सम्भवेयुरित्याशङ्क्याऽऽह –
संकल्पा इति ।
शुद्धसत्त्वं रजस्तमोभ्यामस्पृष्टं त्रिगुणाया मायाया अंशभूतं तदेवोपाधिस्तन्निमित्तं येषां ते तथा ।
अस्वाभाविकानां संकल्पादीनामीश्वरविशेषणत्वे दृष्टान्तमाह –
चित्रगुवदिति ।
यथा चित्रा गावोऽस्वाभाविकाश्चित्रगोर्देवदत्तस्य विशेषणं तथा ब्रह्मणोऽपि कामादय इत्यर्थः ।
किमिति कामादयो ब्रह्मणि स्वाभाविका न भवन्ति धर्मधर्मिणोरेवोपचारादद्वैतश्रुतेरुपपत्तेरित्याशङ्क्याऽऽह –
न स्वत इति ।
वाक्यान्तरमवतारयितुं पातनिकां करोति –
यथोक्तेति ।
ज्ञानप्रकारं निमित्ताधिकारिप्रदर्शनपूर्वकं दर्शयति –
गुरुभ्य इति ।
प्रश्नपूर्वकं यथा हीत्यादिवाक्यमाह –
न चेदिति ।
यथाकाशात्मापरिज्ञानमत्रेति परामृष्टम् ।
अक्षरोत्यमर्थं ह्येवेत्यनेन दृष्टान्तेन दर्शयित्वा वाक्यार्थं कथयति –
यथा ह्येवेति ।
अमुमर्थं प्रश्नपूर्वकमन्वाचष्टे –
किमित्यादिना ।
उक्तदृष्टान्तेन विवक्षितमंशमनूद्यदृष्टान्तान्तरस्य तात्पर्यमाह –
एष इति ॥५ ॥
केषामेष दोषो भवतीत्याकाङ्क्षायामाह –
उक्त इति ।
कर्मसाध्यस्य पारतन्त्र्यं क्षयिष्णुत्वं च ज्ञानहीनकर्मसाध्यविषयब्रह्मोपासकानामेष दोषो भवतीति दर्शयत्त्युत्तरं वाक्यमित्यर्थः ।
अविदुषामेवास्वातन्त्र्यदोषमुक्त्वा विदुषां स्वातन्त्र्यफलं कथयति –
अथेत्यादिना ॥६॥
॥ इति श्रीमदानन्दगिरिटीकायां अष्टमाधायस्य प्रथमः खण्डः ॥