आनन्दगिरिटीका (छान्दोग्य)
अष्टमोऽध्यायः: षष्ठः खण्डः
सगुणविद्याफलस्वरूपमित्थमुपपाद्य तत्प्राप्तये गतिर्वक्तव्येति नाडीखण्डमवतारयति –
यस्त्विति ।
यथोक्तो गुणः सत्यकामत्वादिः । ब्रह्मचर्यादीत्यादिशब्दः शमदमादिसङ्ग्रहार्थः ।
तमेवाऽऽदिशब्दार्थं स्पष्टयति –
त्यक्तेति ।
अधिकारिणः सफलोपास्तिविध्यानन्तर्यमथशब्दार्थः । रसेनान्नस्येति शेषः । तदाकारा इति तच्छब्दोऽन्नरसविषयः । शुक्लस्येत्यादिषष्ठी पूर्ववत् । श्रुतावितिशब्दोऽध्याहारद्योतनार्थः ।
कथं पुनरन्नरसस्य पिङ्गलादिविचित्रो वर्णविशेषः सिद्ध्यतीत्याशङ्क्याऽऽह –
सौरेणेति ।
यत्पित्ताख्यं सौरं तेजस्तेन पाकोऽशितस्य पीतस्य च जायते तेनाभिनिर्वृत्तेनाल्पेन कफेन संपर्कात्तदेव पित्ताख्यं सौरं तेजो भवति पिङ्गलं तेन संपर्काद्रसस्य नाडीनां च जायते पिङ्गलत्वमित्यर्थः ।
तदेव च पित्ताख्यं सौरं तेजो यथोक्तपाकाभिनिर्वृत्तेन प्रभूतेन वातेन सम्बन्धात्तद्भूयस्त्वाद्भवति नीलं तेन च संपर्कादन्नरसस्य नाडीनां च जायते नैल्यमित्याह –
तदेवेति ।
प्रकृतमेव पित्ताख्यं सौरं तेजो यथोक्तपाकवशादभिनिर्वृत्तकफस्य स्वसम्बन्धिनो भूयस्त्वाद्भवति शुक्लं तेन च सम्पर्कादन्नरसस्य नाडीनां च शौक्ल्यं भवतीत्याह –
तदेव चेति ।
उक्तपाकाभिनिर्वृत्तेन कफेन तदभिनिर्वृत्तस्यैव वातस्य समतायां तदेव तेजस्तत्सम्बन्धि पीतं जायते तत्सम्बन्धाच्चान्नरसस्य च नाडीनां च पीतत्वं भवतीत्याह –
कफेनेति ।
यदा तु यथोक्तपाकाभिनिष्पन्नं शोणितं बहुलं भवति तदा तस्य नाडीनां च लौहित्यं भवतीत्याह –
शोणितेति ।
पक्षान्तरमाह –
वैद्यकाद्वेति ।
अन्वेषणप्रकारमाह –
कथमिति ।
नाभेरूर्ध्वं हृदयादधस्तादामाशयमाचक्षते । तद्गतं तेजःसौरं पित्तमित्युच्यते । तच्चान्नरसस्य धात्वन्तरसहकारिवशाद्वर्णविशेषे कारणम् । “आमाशयगतं पित्तं रञ्जकं रसरञ्जनात्”(अ.हृ. १३ । २५) इत्यादिवचनादित्यर्थः ।
कथं तर्हि पिङ्गलस्येत्याद्या श्रुतिरित्याशङ्क्याऽऽह –
श्रुतिस्त्विति ।
उक्तमर्थमाकाङ्क्षाद्वारा स्फोरयति –
कथमित्यादिना ।
आदित्यस्य पैङ्गल्यादयो वर्णविशेषाः शास्त्रप्रामाण्यादेव प्रत्येतव्याः ॥१॥
आदित्यस्य तेजसो नाडीष्वनुगतस्य पैङ्गल्यादयो वर्णविशेषा भवन्तीत्युक्तं तदेव प्रश्नद्वारा दृष्टान्तावष्टम्भेन स्पष्टयति –
तस्येत्यादिना ।
उभयत्राऽऽदित्यमण्डले पुरुषे चेत्यर्थः ।
तत्र पूर्वोक्तमेव दृष्टान्तमनुवदति –
यथेति ।
उभौ ग्रामौ महापथो यथा गच्छति तथोभयत्राऽऽदित्यस्य रश्मयः प्रविष्टाः इत्यर्थः ।
तमेव प्रवेशं प्रश्नद्वारा प्रकटयति –
कथमित्यादिना ।
कथं नाडीनां पिङ्गलादिवर्णत्वमित्याशङ्क्य सौरेण तेजसेत्यादिनोक्तं स्मारयति –
यथोक्तास्त्विति ।
अमुष्मिन्नादित्ये सृप्ता इति सम्बन्धः ।
कथं स्त्रीलिङ्गेन निर्दिष्टानां रश्मीनां पुंलिङ्गेन निर्देशस्तत्राऽऽह –
रश्मीनामिति ॥२॥
नाडीस्वरूपमुक्त्वा विज्ञानात्मस्वापाधिकरणत्वेन ताः स्तोतुमादौ स्वापं प्रस्तौति –
तत्तत्रेति ।
सप्तम्यर्थमेव स्फुटयति –
एवं सतीति ।
नाडीस्वरूपे पूर्वोक्तरीत्या निरूपिते सतीत्यर्थः । एतत्स्वपनमिति क्रियाविशेषणम् ।
समस्तविशेषणस्यार्थवत्वमाह –
स्वापस्येति ।
दर्शनवृत्तिमददर्शनवृत्तिश्चेति द्विप्रकारत्वं स्वापस्येष्टम् । तत्र दर्शनवृत्तेः स्वापस्य व्यावृत्त्यर्थं समस्त इति विशेषणम् ।
तस्य संपिण्डितमर्थमाह –
उपसंहृतेति ।
विशेषणान्तरमुत्थाप्य व्याकरोति –
अत इति ।
उपसंहृतसर्वकरणत्वादिति यावत् ।
उक्तं विशेषणद्वयमुपजीव्य स्वप्नमित्यादि व्याचष्टे –
अत एवेति ।
नाडीषु प्रविष्टो भवतीति यदुक्तं तदयुक्तं य एषोऽन्तर्हृदय आकशस्तस्मिञ्शेत इत्यङ्गीकारादित्याशङ्क्याऽऽह –
नाडीभिरिति ।
नाडीष्विति श्रुता सप्तमी कथं नाडीभिरिति तृतीयया व्याख्यायते तत्राऽऽह –
न हीति ।
तदेति सुषुप्त्यवस्थोच्यते ।
तस्यामवस्थायां कर्माभावे कथं पुनरुत्थानमित्याशङ्क्याऽऽह –
देहेति ।
सुखदुःखानुभवाभावात्पाप्मासंस्पर्शोऽत्र विवक्षितो न तु कर्माभावादित्यर्थः ।
अविषयत्वं साधयति –
अन्यो हीति ।
सुषुप्ते स्वरूपावस्थस्य कथं प्रच्यवनमित्याशङ्क्याऽऽह –
स्वरूपेति ।
अविद्याकामकर्मणां बीजमनाद्यज्ञानं तस्य ब्रह्मविद्याख्येनाग्नीना न स्वापे दाहस्तन्निमित्तं सुषुप्तस्य पुनः स्वरूपप्रच्यवनमिति सम्बन्धः ।
तदेव व्याचष्टे –
जाग्रदिति ।
कीदृक्प्रच्यवनमित्यपेक्षायामाह –
बाह्येति ।
एतच्च सति सम्पद्य न विदुरित्यादावुदितमित्याह –
इत्यवोचामेति ।
तेजसा हेति पाप्मास्पर्शे श्रौतौ हेतुस्तं हेतुं व्याचष्टे –
यदेति ।
तद्व्याप्तिकार्यमाह –
अत इति ।
कार्यकरणसंस्पर्शाभावफलं दर्शयति –
तस्मादिति ॥३॥
नाडीरेवं स्तुत्वा ताभिरूर्ध्वगमनं प्रदर्शयितुं मरणकालं प्रसञ्जयति –
तत्रेति ।
तस्यैवार्थमाह –
एवं सतीति ।
नाडीनामुक्तरीत्या प्राशस्त्ये सतीत्यर्थः । ताभिरूर्ध्वगमनप्रदर्शनप्रारम्भार्थोऽथशब्दः । रोगादीत्यादिपदमागन्तुकसर्वनिमित्तसंग्रहार्थम् । जरादीत्यादिपदं तु नैसर्गिकसर्वनिमित्तद्योतनार्थमिति भेदः । एतन्नयनमिति क्रियाविशेषणम् ॥४॥
प्रारब्धकर्मावसानार्थोऽथशब्दः । एतदिति क्रियाविशेषणमेतदुत्क्रमणं यथा स्यात्तथेत्यर्थः । यथोक्ताभिर्नाडीषु प्रसृताभिरादित्यमण्डलादागताभिरिति यावत् । कर्मणा जितं वशीकृतं स्वात्मसम्बन्धितामापादितं लोकमनतिक्रम्य तं प्रत्यविद्वान्केवलकर्मवान्गच्छतीत्यर्थः । दहरविद्यावतो गतिं दर्शयति –
इतरस्त्विति ।
यथोक्तसाधनं दहरविज्ञानं तेन सम्पन्नो विशिष्ट इत्यर्थः । ध्यायन्गच्छतीत्युत्तरत्र सम्बन्धः । यथापूर्वं स्वस्थावस्थायामिव मरणावस्थायामपीत्यर्थः ।
वा हेतिनिपातद्वयस्यावधारणरूपमर्थं कथयति –
एवेति ।
उच्छब्दार्थमाह –
ऊर्ध्वमिति ।
वाशब्देन द्योतितं विकल्पं दर्शयति –
विद्वाञ्श्चेदिति ।
यदि विद्वान्प्रमीयते तदोर्ध्वमेव गच्छति । यदि त्वविद्वान्प्रमीयते तदा तिर्यगेव गच्छतीति विभागः ।
विदुषस्त्यक्तदेहस्याऽऽदित्यप्राप्तावत्यन्तशैघ्र्यं दर्शयितुमनन्तरवाक्यमादत्ते –
स विद्वानिति ।
तद्व्याचष्टे –
यावतेति ।
आदित्यप्राप्तौ किं स्यादित्यत आह –
अत इति ।
अविदुषामपि तर्हि प्राप्तानामादित्यं ततो निरुद्धानां पुनर्ब्रह्मलोकाप्राप्तिरित्याशङ्क्याऽऽह –
सौरेणेति ।
देहे निरुद्धानां मूर्धन्यया नाड्या नोत्क्रमणमविदुषामित्यत्र लिङ्गं दर्शयति –
विष्वङ्ङिति ॥५॥
यथोक्तोऽर्थो नाडीविभागलक्षणः । प्रधानत इति विशेषणतात्पर्यमाह –
आनन्त्यादिति ।
प्रकरणं नाडीविषयं दहरविद्याविषयं वा ॥६॥
॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य षष्ठः खण्डः ॥