अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

प्राणाधिकरणम्

आका­श­वा­क्यो­क्त­न्यायं तदु­त्त­र­वा­क्येऽ­ति­दि­शति
अत एव प्राणः ।
उद्गी­थ­प्र­क­र­ण­मिति ज्ञाप­ना­र्थ­मु­द्गीथ इति भाष्यपदम् । उद्गीथप्रकरणे श्रूयत इत्यन्वयः । कश्चि­दृ­षि­श्चा­क्रा­यणः प्रस्तो­ता­र­मु­वाच, हे प्रस्तोतः, या देवता प्रस्तावं सामभक्तिमनुगता ध्यानार्थम् , तां चेदज्ञात्वा मम विदुषो निकटे प्रस्तोष्यसि मूर्धा ते पतिष्यतीति । ततो भीतः सन् पप्रच्छ, कतमा सा देवतेति । उत्तरम् , प्राण इति । प्राणमभिलक्ष्य सम्यग्विशन्ति लीयन्ते, तम­भि­ल­क्ष्यो­ज्जि­हते उत्पद्यन्त इत्यर्थः ।

अति­दे­श­त्वा­त्पू­र्व­व­त्सं­श­यादि द्रष्ट­व्य­मि­त्युक्तं विवृणोति
प्राणेति ।
मनौपाधिको जीवः प्राणेन ब्रह्मणा बध्यते सुषु­प्ता­वे­की­भ­वति । प्राणस्य वायोः प्राणम्प्रेरकं तस्य सत्ता­स्फू­र्ति­प्र­द­मा­त्मानं ये विदुस्ते ब्रह्मविद इत्यर्थः ।

पूर्वेण गत­र्था­त्वा­त्पृ­थ­क्सूत्रं व्यर्थमिति शङ्कते
ननु पूर्ववदिति ।

अधि­का­श­ङ्का­नि­रा­सा­र्थ­म­ति­दे­श­सू­त्र­मिति मत्वा शङ्कामाह
न । मुख्येऽपीति ।
तर्हि तदा चक्षु­र­प्ये­ती­त्ये­वं­प्र­का­रेण सर्वत्र सम्बन्धः ।

नन्व­त्रे­न्द्रि­याणां प्राणे लयोदयौ श्रूयेते, तावता महा­भू­त­ल­या­दि­प्र­ति­पा­द­क­वा­क्य­शे­षो­प­पत्तिः कथमित्यत आह
इन्द्रि­य­सा­र­त्वा­दिति ।
'तस्य ह्येष रसः' इति श्रुतेः । इन्द्रियाणि लिङ्गात्मरूपाणि अप­ञ्ची­कृ­त­भू­तानां साराणि तेषां लयाद्युक्त्या भूतानामपि प्राणे लयादिसिद्धेः वाक्य­शे­षो­प­प­त्ति­रि­त्यर्थः ।

अब्र­ह्म­स­ह­पा­ठाच्च प्राणो न ब्रह्मेत्याह
अपि चेति ।
उद्गा­तृ­प्र­ति­ह­र्तृ­भ्या­मु­द्गीथे प्रतिहारे च का देवतेति पृष्टेन चाक्रा­य­णे­ना­दि­त्योऽन्नं च निर्दिश्यते । 'आदित्य इति होवाच' 'अन्नमिति होवाच' इति श्रुतावित्यर्थः । सामान्यं सन्निधानम् । संनि­ध्य­नु­ग्र­ही­त­प्र­थ­म­श्रु­त­प्रा­ण­श्रुत्या मुख्य­प्रा­ण­नि­र्णये तद्दृष्ट्या प्रस्ता­वो­पा­स्ति­रिति पूर्वपक्षफलम् , सिद्धान्ते ब्रह्म­दृ­ष्टि­रू­पो­पास्तिः । तस्या­धि­क­र­ण­स्या­ति­दे­श­त्व­मेव पूर्वेण सङ्गतिरिति विभागः ।

भवन्तीति भूतानीति व्युत्पत्या यत्कि­ञ्चि­द्भ­व­न­ध­र्मकं कार्यमात्रम् , तस्य लयोदयौ वायुविकारे प्राणे न युक्ता­वि­त्युक्त्वा भूतशब्दस्य रूढार्थग्रहेऽपि लया­दे­र्ब्र­ह्म­नि­र्णा­य­क­त्व­मि­त्याह
यदापीति ।
भैतिकप्राणस्य भूत­यो­नि­त्वा­यो­गा­दि­त्यर्थः ।

तस्य तद्योनित्वं श्रुत्याशङ्कते
नन्विति ।
अथ यदा सुषुप्तो जीवः प्राणे ब्रह्म­ण्ये­की­भ­वति तदा एनं प्राणं सवि­ष­य­वा­गा­द­योऽ­पि­य­न्ती­त्यर्थः ।

अत्र जीवाभिन्नत्वे सर्व­ल­या­धा­र­त्व­लि­ङ्गान्न मुख्यः प्राण इत्याह
तत्रापीति ।

वाक्या­न्त­र­सं­नि­ध्य­पे­क्षया स्ववा­क्य­ग­तं­लिङ्गं बलीय इत्याह
तदयुक्तमिति ।
एकवाक्यत्वं वाक्यशेषः तस्य बलं तद्गतं लिङ्गं तेनेत्यर्थः ।

प्राण­मे­वे­त्य­व­धा­र­णेन सर्व­भू­त­प्र­कृ­ति­त्व­लि­ङ्गेन च प्राणपदेन तत्कारणं ब्रह्म लक्ष्यमित्याह
तदा­का­श­श­ब्द­स्ये­वेति ।

वृत्ति­कृ­ता­मु­दा­ह­रणं संश­या­भा­वे­ना­यु­क्त­मि­त्याह
अत्रेत्यादिना ।

शब्दभेदमुक्त्वा प्रकरणं प्रपञ्चयति
यस्य चेति ॥ २३ ॥