अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

सम्बन्धाधिकरणम्

संब­न्धा­दे­व­म­न्य­त्रापि ।
सद्भूतत्रयं त्यद्वा­य्वा­का­शा­त्मकं, सत्यं परोक्षभूतात्मकं हिरण्यगर्भाख्यं ब्रह्मोपक्रम्य, तदुक्तं यत्सत्यं तत्स योऽसावादित्यः किं मण्डलं न तत्र स्थाने पुरुषः करणात्मकः स एवा­ध्या­त्म­म­क्षि­स्था­नस्थ इत्युपदिश्य 'तस्य भूरिति शिरो भुव इति बाहुः स्वरिति पादौ' इति व्याहृतिरूपं शरीरमुक्त्वा द्वे उपनिषदौ रहस्यदेवतानामनी उपदिश्येते तस्या­दि­त्य­म­ण्ड­ल­स्थ­स्या­ह­रिति नाम प्रका­श­क­त्वा­त्त­स्या­क्षि­स्थ­स्या­ह­मिति नाम प्रत्य­क्त्वा­दिति ।

इदं नामद्वयं विषयस्तत्र नामिनः सत्याख्यस्य ब्रह्मण एक­त्वा­त्स्था­न­भे­दो­क्तेश्च संशयमाह -
तत्रेति ।
पूर्वपक्षे प्रतिस्थानं नाम­द्व­या­नु­ष्ठानं सिद्धान्ते यथा­श्रु­त्यै­कै­क­ना­मा­नु­ष्ठा­न­मिति फलम् ।

दृष्टा­न्त­सं­गत्या पूर्वपक्षसूत्रं व्याचष्टे -
यथेति ।
यथा विद्यै­क्या­दु­प­सं­हार उक्त एव­म­न्य­त्रा­प्ये­का­वि­द्या­या­मु­प­सं­हारो भवि­तु­म­र्ह­ती­त्यर्थः । सत्यं ब्रह्मे­त्यु­प­क्र­मा­भे­द­स्ता­वे­ता­व­क्ष्या­दि­त्य­पु­रु­षा­व­न्यो­न्य­स्मि­न्प्र­ति­ष्ठितौ, आदित्यरश्मीनां चक्षुषि चक्षु­ष­श्चा­दित्ये प्रतिष्ठानादिति व्यतिषक्तपाठो मिथः संश्ले­ष­पा­ठ­स्ताभ्यां विद्यै­क्य­सिद्धिः ।

विद्यैक्येऽपि किं स्यात्तत्राह -
कथमिति ।

विद्यैक्येऽपि स्थान­भे­दा­दु­प­नि­ष­दो­र­सं­करः स्यादि­त्या­शङ्कां दृष्टान्तेन परिहरति -
यो हीति ॥२०॥

नाम्यैक्यात् नामसंकरो युक्तः, तथा चाक्षि­स्थोऽ­ह­रिति नामवान् सत्य­ब्र­ह्म­त्वा­दा­दि­त्य­स्थ­व­दिति प्राप्ते सिद्धान्तसूत्रं योजयति -
न वेति ।
नाम्नो­रू­पा­स­न­स्था­न­वि­शि­ष्ट­सं­ब­न्धि­त्वा­दि­त्यर्थः । तस्यो­प­नि­ष­द­ह­र­ह­मिति च वाक्यद्वयेन तच्छ­ब्द­प­रा­मृ­ष्टयोः संनि­हि­त­स्था­न­वि­शि­ष्टयोः पुरु­ष­यो­र्ना­म­सं­ब­न्ध­प­रे­णो­प­सं­हा­रा­नु­मानं बाध्यमिति भावः ।

विशे­ष्यै­क्या­न्ना­म­सं­कर इत्याशङ्क्य स्थानभेदेन विशि­ष्ट­पु­रु­ष­भे­दा­न्ना­म­व्य­व­स्था­माह -
नन्वित्यादिना ।

विशिष्टसंबन्धे दृष्टान्तमाह -
अस्तीति ।

प्रति­दृ­ष्टा­न्तस्य स्वरू­प­सं­ब­न्धि­त्वा­द्वि­शिष्टे ध्येये प्रकृते दृष्टान्तत्वे नास्तीत्याह -
ग्रामेति ॥२१॥

उक्त­ना­म­व्य­व­स्था­या­म­ति­देशो लिङ्गमित्याह -
दर्शयति चेति ।
विद्यै­क्या­दे­वो­प­सं­हा­र­सि­द्धा­व­ति­देशो वृथा स्यात्त­स्मा­दे­क­वि­द्या­या­मपि स्थान­भे­दे­नो­क्त­गु­णानां विना­ति­दे­श­म­नु­प­सं­हार इति सिद्धम् ॥२२॥