अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

ज्ञाधिकरणम्

ज्ञोऽत एव ।

'आत्मै­वास्य ज्योतिः' इत्या­द्या­त्म­स्व­प्र­का­श­त्व­श्रु­तीनां 'पश्यं­श्चक्षुः शृण्व­ञ्च्छ्रो­त्रम्' इत्य­नि­त्य­ज्ञा­न­व­त्त्व­श्रु­ति­भि­र्वि­रो­धोऽत्र निरस्यते । अस्य लोकस्य चक्षुर्द्रष्टा श्रोत्रं श्रोतेत्यर्थः । प्रागु­क्त­जी­वा­नु­त्प­त्ति­हे­तु­मा­दाय स्वप्र­का­श­त्व­सा­ध­ना­द्धे­तु­सा­ध्य­भावः सङ्गतिः । अनुत्पत्तौ हि स्वप्रकाशं ब्रह्मैवोपहितं जीव इति जीवस्य स्वप्रकाशता सिध्यति । न चैवं गतार्थता, अनुत्पन्नस्यापि जीवस्य स्वप्रकाशत्वे ज्ञान­सा­ध­न­वै­य­र्थ्य­मिति तर्क­स­हि­ता­नि­त्य­ज्ञा­न­श्रु­ति­ब­लेन स्वप्र­का­श­त्व­श्रु­ते­र्बा­ध्य­तया ब्रह्मा­न्य­त्व­श­ङ्कायां तदैक्ययोग्यतायै स्वप्र­का­श­त्व­स्यात्र साधनात् । तथा च पूर्वपक्षे जीवस्य ब्रह्मै­क्या­यो­ग्यता सिद्धान्ते तद्यो­ग्य­ते­त्या­पा­द­स­माप्तेः फलमवगन्तव्यम् । इष्टापत्तिं निराचष्टे -
ते पृष्टा इति ।

साध­ना­धी­न­ज्ञा­न­त्वान्न स्वप्रकाशो जीवो व्यति­रे­के­णे­श्व­र­व­दि­त्याह -
अतः कादाचित्केति ।
यथाश्रुते भाष्ये हेतोः साध्याविशेष इति मन्तव्यम् ।

अतो जीवस्य स्वप्र­का­श­त्व­श्रु­ति­र्बा­ध्येति प्राप्ते सिद्धान्तयति -
एवमिति ।
चेच्छब्दो निश्चयार्थः ।

न केवलं स्वप्र­का­श­ब्र­ह्मा­भे­दा­ज्जी­वस्य स्वप्रकाशता किन्तु श्रुति­तोऽ­पी­त्याह -
विज्ञानमयेति ।
योऽयं विज्ञानमय इति प्रकरण इत्यर्थः । असुप्तः स्वयं भासमान एवात्मा सप्तां­ल्लु­प्त­व्या­पा­रा­न्वा­गा­दी­न­भि­लक्ष्य चाकशीति । सुप्ता­र्था­न्प­श्य­तीति यावत् । अत्र स्वप्ने विज्ञा­तु­र्बु­द्धि­स­त्त्वस्य साक्षिणो विज्ञा­ते­र्वि­नाशो नास्तीत्यर्थः ।

घ्राणा­दि­ज­न्य­ग­न्धा­दि­ज्ञा­ना­नु­स­न्धा­न­सि­द्धये आत्मनो ज्ञानरूपत्वं वाच्यमिति श्रुत्यन्तरेणाह -
अथेति ।

आत्मनो नित्य­चि­द्रू­प­त्वेऽपि स्वतोऽसङ्गतया गन्धा­द्य­स­म्ब­न्धा­त्त­त्स­म्ब­न्ध­घ­ट­ना­त्म­क­वृ­त्त्य­र्थानि ज्ञानसाधनानीति न तेषां वैयर्थ्यमित्याह -
न गन्धेति ।
परिच्छेदो वृत्तिः । गन्धाय तद्गो­च­रा­न्तः­क­र­ण­वृ­त्तये इत्यर्थः ।

सुप्ता­द्य­व­स्था­स्वा­त्म­स­त्त्वेऽपि चैत­न्या­भा­वा­न्नात्मा चिद्रूप इत्युक्तं दूषयति -
यत्त्विति ।

तत्तदासुषुप्तौ न पश्यतीति यत्त­त्प­श्य­न्ने­वा­लु­प्त­ज्ञान एव सन्न पश्यतीत्यत्र हेतुः -
न हीति ।
नाशा­यो­ग्य­त्वा­दि­त्यर्थः ।

किमिति न पश्यतीत्यत आह -
न त्विति ।
वृत्तेः साध­ना­धी­न­त्वोक्त्या स्वरू­प­ज्ञा­न­स्या­सा­ध­ना­धी­नत्वं हेतुरसिद्ध इत्युक्तम् । साध­न­वै­य­र्थ्य­त­र्कोऽपि निरस्तः । शृण्व­न्नि­त्या­द्य­नि­त्य­ज्ञा­न­श्रु­तीनां वृत्तिविषयत्वं व्याख्यातम् । आत्मा न ज्ञानम् , द्रव्यत्वात् , इत्या­दि­त­र्का­श्चा­ग­म­बा­धिताः । फल­व­त्प्र­धा­न­वा­क्या­पे­क्षि­त­स्व­प्र­का­श­त्वा­ग­मस्य बलवत्त्वात् । किञ्च निरवयवात्मनो मनः­सं­यो­गा­न्ना­नि­त्य­ज्ञा­न­गु­णता समवायाभावाच्च न स्वस­म­वे­त­ज्ञा­न­वे­द्यता कर्म­क­र्तृ­त्व­वि­रो­धाच्च । किञ्च ज्ञान­त्व­स्यै­क­वृ­त्तित्वे लाघवादात्मैव ज्ञानं वृत्तेश्च मनः­प­रि­णा­म­त्व­श्रुत्या 'कामः सङ्कल्पः' इत्याद्यया जड­त्वा­न्ना­स्माकं ज्ञान­द्वै­वि­ध्य­गौ­र­व­मि­त्य­न­व­द्य­मा­त्मनः स्वप्र­का­श­त्व­मिति सिद्धम् ॥१८॥