अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

इतरक्षपणाधिकरणम्

भोगेन त्वितरे क्षपयित्वा सम्पद्यते ।

तत्त्वविदत्र विषयः, स किं प्रार­ब्ध­क्ष­या­न­न्तरं संसरत्युत नेति निमि­त्त­भा­वा­भा­वाभ्यां संशये सिद्धा­न्त­मु­प­क्र­मते -
अनारब्धेति ।
अनारब्धकर्मणः क्षयो­क्ता­वा­र­ब्धस्य कथं क्षय इत्या­का­ङ्क्षा­या­म­स्यो­त्था­ना­त्स­ङ्गतिः । पूर्वपक्षे विदे­ह­कै­व­ल्या­सिद्धिः सिद्धान्ते तत्सिद्धिरिति भेदः ।

देहपातोत्तरमपि तत्त्व­वि­त्सं­स­रति संसा­र­यो­ग्य­त्वा­द्यथा देह­पा­ता­त्पू­र्व­मि­त्य­ना­र­ब्धा­धि­क­र­ण­दृ­ष्टा­न्तेन पूर्वपक्षमाह -
नन्विति ।
भोग­नि­मि­त्त­क­र्मा­भा­वा­द्धे­त्व­सिद्धिः । यत्तु सञ्चितं कर्मान्तरं तन्न निमित्तं फलस्य, दग्धमूलत्वात् । अविद्यादयो हि क्लेशाः कर्मणस्तत्फलस्य च मूलम् । तदुक्तं योगशास्त्रे 'क्लेशमूलः कर्माशयः सति मूले तद्विपाकः' इति । तच्च मूलं ज्ञानाग्निना दग्धमिति कुतः पुनः संसा­र­स्त­स्मा­द्दे­ह­पाते कैवल्यमिति सिद्धम् ॥१९॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­गो­वि­न्दा­न­न्द­भ­ग­व­त्पा­द­कृतौ भाष्य­र­त्न­प्र­भायां चतु­र्थ­स्या­ध्या­यस्य प्रथमः पादः ॥१॥
॥ इति चतुर्थस्याध्याय जीव­न्मु­क्ति­नि­रू­प­णाख्यः प्रथमः पादः ॥

चतुर्थेऽध्याये द्वितीयः पादः ।
वाङ्मनसि दर्श­ना­च्छ­ब्धाच्च ।
ज्ञान­फ­लो­क्त्य­न­न्त­र­मु­पा­स­न­फलं ब्रह्मलोकस्थं वक्तव्यं तच्चा­र्चि­रा­दि­मा­र्ग­प्रा­प्यम् , मार्ग­प्रा­प्ति­श्चो­त्क्रा­न्ति­साध्या तस्मा­दु­पा­स्ति­फ­ल­क्षि­प्तो­त्क्रा­न्ति­पा­द­स्या­स्त्या­ध्या­य­स­ङ्गतिः ।

युक्तं चास्य पूर्व­पा­दा­न­न्तर्यं ज्ञान­फ­लो­क्त्य­न­न्तरं वक्त­व्यो­पा­स्ति­फ­ले­ना­क्षि­प्त­त्वा­दि­त्याह -
अथेति ।