भाष्यरत्नप्रभाव्याख्या
प्रकृतैतावत्त्वाधिकरणम्
ब्रह्मणो निर्विशेषचिन्मात्रत्वमुक्त्वा सर्वनिषेधावधित्वेन सद्रूपत्वमाह -
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूय इति ।
पृथिव्यप्तेजोभूतत्रयं मूर्तं वाय्वाकाशद्वयममूर्तमिति राशिद्वयमुक्त्वा भूतद्वयस्यामूर्तस्य सारः 'करणात्मा हिरण्यगर्भो य एष एतस्मिन् सूर्यमण्डले पुरुषो यश्चायं दक्षिणेऽक्षिणि पुरुषः' इत्युक्तः, तस्य वासनामयानि स्वप्नरूपाणि 'तद्यथा माहारजनं, वासो यथा पाण्ड्वाविकं यथेन्द्रगोपः' इत्युपमाभिरुक्तानि विचित्राणि, तत्र महारजनं हरिद्रा तया लिप्तं वस्त्रं माहारजनं, पाण्ड्वादिकमिति धवलं कम्बलादि । केचित्तु श्रुतिमुपलक्षणं कृत्वा सूक्ष्मपञ्चभूतान्यमूर्तानि पञ्चीकृतानि मूर्तानि ततश्चामूर्तरसत्वोक्त्या करणानां पाञ्चभौतिकत्वसिद्धिरिति व्याचक्षते । अथ सत्पदात्मकप्रपञ्चोक्त्यनन्तरं, अत उक्तारोपस्य निषेधार्थत्वान्नेति नेतीति निषेधेनोपदेशः क्रियत इत्यर्थः ।
नेतिशब्दार्थमाह -
न हीति ।
एतस्मादात्मनोऽन्यन्नास्तीति नेतीत्युच्यत इत्यर्थः । शून्यतानिरासार्थं परं ब्रह्मास्तीत्युक्तमिति सिद्धान्तरीत्या श्रुत्यर्थः ।
अत्र निषेध्यविशेषानुपलम्भात्संशयमाह -
तत्र कोऽस्येत्यादिना ।
नञ्प्रयोगस्य नकारास्येतिशब्दोपस्थापितवस्तुनिषेधकत्वादित्यर्थः ।
इतिशब्दान्निषेध्यसामान्यसमर्पणे विशेषाकाङ्क्षायां प्रकरणाद्रूपद्वयस्य रूपिब्रह्मणश्च निषैध्यत्वभानात्संशयमुक्त्वा पूर्वोक्तं निर्विशेषं ब्रह्म नास्तीत्याक्षेपसङ्गत्या पूर्वपक्षयति -
तत्र प्रकृतत्वेति ।
पूर्वपक्षे तत्पदार्थाभावाद्वाक्यार्थाभेदासिद्धिः, सिद्धान्ते तत्सिद्धिरिति फलम् ।
निरधिष्ठाननिषेधादर्शनात्सर्वनिषेधो न युक्त इत्यरुच्या प्रपञ्चे ब्रह्मनिषेध इत्याह -
अथवेति ।
एकब्रह्मण एव निषेधे नकारद्वयस्य पौनरुक्त्यामित्यत आह -
अभ्यासस्त्विति ।
उत्सूत्रमेव तावत्सिद्धान्तमुपक्रमते -
एवमिति ।
शून्यप्रसङ्ग इष्ट इति वदन्तं प्रत्याह -
किञ्चिद्धीति ।
तच्चेति प्रतिषेधनमित्यर्थः । अधिष्ठानानवशेषे तत्प्रमारूपहेत्वभावात् निषेधवाक्यार्थः प्रमा न स्यात् 'इदमत्र नास्ति' इति लोके निषेधस्य साधिष्ठानस्यैव प्रमितिदर्शनादित्यर्थः ।
किञ्च यद्भाति तत्सदित्युत्सर्गस्य भानार्थाभावाधिष्ठानप्रमितिरपवादस्तया पूर्वभानस्य भ्रमत्वनिश्चयेनार्थसत्त्वापलापात् । अपवादानङ्गीकारे तूत्सर्गतः प्रपञ्चस्य सत्यत्वापत्तेर्निषेधानुपपत्तिरित्याह -
अपरिशिष्यमाणे चेति ।
अधिष्ठानसत्त्वं विना भ्रान्तिनिषेधयोरयोगाच्छून्यवादो न युक्त इत्युक्त्वा पूर्ववादिनः पक्षान्तरं दूषयति -
नापीति ।
देहात्माभिमानवल्लौकिकमानप्राप्तद्वैतस्य निषेधो युक्तो न वेदान्तप्रमितब्रह्मण इति भावः ।
यदुक्तं वाङ्मनसातीतत्वात् निषेधार्हं ब्रह्म इति तत्राह -
वाङ्मनसेति ।
ब्रह्मणो वागाद्यतीतत्वं निषेधार्थं न चेत्किमर्थं तदुक्तिरित्यत आह -
प्रतिपादनेति ।
उक्तार्थे सूत्रं योजयति -
तदेतदित्यादिना ।
'द्वे वाव ब्रह्मणो रूपे' इति रूपद्वयस्यैव प्राधान्येन प्रकृतत्वान्नेतीति निषेध इत्यर्थः ।
ननु 'आदित्यमण्डले पुरुष' इति ब्रह्माप्यत्र प्राधान्येनोक्तमित्याशङ्क्य पुरुषो लिङ्गात्मा अमूर्तरसत्वश्रुत्या भूतजनितत्वभानात्स्वप्नरूपत्वश्रुतेश्चेत्याह -
तज्जनितमेवेति ।
रूपरूपिणोरभेद उक्तः ।
ननु वासनामयं रूपमेव किमित्युपमीयते प्रसिद्धरूपमेव किं न स्यादित्यत आह -
अमूर्तरसस्येति ।
रूपद्वयस्यैव प्राधान्येन प्रकृतत्वे फलितमाह -
तदिति ।
प्रतियोगित्वेन समर्प्यत इत्यर्थः । न चार्थतः प्राधान्यद्ब्रह्मणो निषेधः राज्ञो भृत्यो नास्तीत्यत्र राजनिषेधप्रसङ्गादिति भावः ।
किञ्चात्र ब्रह्मणः प्रतिपाद्यत्वात्न निषेध इत्याह -
प्रपञ्चिते चेति ।
ननु ब्रह्मणि निषिद्धस्याप्यन्यत्र स्थितिसंभवात्कथं कल्पितत्वमित्यत आह -
तदास्पदमिति ।
उपादाने निषिद्धस्यान्यत्र न स्थितिरित्यर्थः ।
यत्तु द्वैतनिषेधे प्रत्यक्षादिविरोध इति, तत्राह -
युक्तं चेति ।
स्थापितं हि आरम्भणाधिकरणे प्रत्यक्षादेर्व्यावहारिकं प्रामाण्यं न तत्वावेदकमिति, अतस्तत्त्वतो निषेधान्न विरोध इति भावः ।
ननु वस्तुत्वाद्वैतवद्ब्रह्मणोऽपि निषेधोऽस्तु, नेत्याह -
नत्विति ।
द्वैतभावाभावसाक्षित्वादशक्यो निषेध इत्यर्थः । न चेत्यादि स्पष्टार्थम् ।
यच्चोक्तं निषेधाभ्यां रूपं रूपि ब्रह्म च निषिध्यत इति, तत्राह -
द्वौ चैताविति ।
उद्देश्यविधेयार्थानां संख्यासाम्ये यथाक्रमं संबन्ध इति न्यायः 'यथासङ्ख्यमनुदेशः समानाम्' इति पाणिनिसूत्रसिद्धस्तेनात्र रूपद्वयोद्देशेन निषेधद्वयविधिरित्यर्थः ।
वीप्सापक्षे सर्वदृश्यनिषेधाज्जिज्ञासाशान्तिरिति विशेषमाह -
परिगणितेति ।
मूर्तं नामूर्तं नेत्येवं विशिष्यनिषेधे जिज्ञासा न शाम्यतीत्यर्थः ।
सूत्रशेषं व्याचष्टे -
इतश्चेति ।
प्रतिषेधानुपपत्त्या ब्रह्मास्तीत्यवगतं भूयः पुनः परमस्तीति श्रुतिः साक्षादपि ब्रवीतीत्यर्थः ।
तच्चेति ।
अवशिष्टं ब्रह्मेत्यर्थः । स्पष्टमन्यत् ॥२२॥
नन्वग्राह्यत्वाद्ब्रह्म नास्तीति शङ्कानिरासार्थं सूत्रं व्याचष्टे -
यत्प्रतिषिद्धादिति ।
रूपाद्यभावादव्यक्तमिन्द्रियाग्राह्यं न त्वसत्त्वादित्यर्थः । अन्यैर्देवैरिन्द्रियान्तरैर्न गृह्यत इत्यन्वयः ॥२३॥
तर्हि कदा ग्राह्यमिति शङ्कोत्तरं सूत्रं व्याख्याति -
अपि चैनमिति ।
चस्त्वर्थः । इन्द्रियैर्न गृह्यते अपि तु संराधनेन शास्त्रसंस्कृतमनसेत्यर्थः । भक्तिध्यानाभ्यां प्रत्यगात्मनश्चित्ते प्रकर्षेण निधानं स्थापनं प्रणिधानम् । जपनमस्कारादिरादिशब्दार्थः । स्वयंभूरीश्वरः । स्वानीन्द्रियाणि । पराञ्च्यनात्मग्राहकाणि कृत्वा व्यतृणत् नाशितवान् । स हि तेषां नाशो यदसदर्थग्राहितया सर्जनं तस्मात्तेषां तथा सृष्टत्वात्, सर्वो लोकः परागर्थमेव पश्यति नान्तरात्मानम् । कश्चित्तु धीरो धीमानावृत्तचक्षुर्निरुद्धेन्द्रियः शुद्धे चेतसि प्रत्यगात्मनं शास्त्रेण पश्यति मोक्षार्थीत्यर्थः । ततः कर्मणा विशुद्धचित्तो ज्ञानाख्यसत्त्वोत्कर्षेण संध्यायंस्तं निष्कलं पश्यतीत्यर्थः । विनिद्राः वितमस्काः, तत्र हेतुर्जितश्वासत्वं प्राणायामनिष्ठत्वं, युञ्चाना ध्यायिनः योगलभ्यः आत्मा योगात्मा ॥२४॥ यथा प्रकाशादय उपाधिषु भिद्यन्ते न स्वतः, एवं प्रकाशश्चिदात्मापि ध्यानादिकर्मण्युपाधौ भिद्यते स्वतस्तस्यावैशेष्यमेकरसत्वमेव तत्त्वमसीत्यभ्यासादिति सूत्रयोजना ॥२५॥
जीवस्य ब्रह्मात्मत्वफलश्रुतिरूपलिङ्गादपि भेद औपाधिक एवेत्याह सूत्रकारः-
अतोऽनन्तेनेति ॥२६॥
भेदाभेदपूर्वपक्षसूत्रद्वयस्य संगतिमाह -
तस्मिन्नेवेति ।
यथाहित्वेनाभेदः । कुण्डलाख्यस्य सर्पावस्थाविशेषस्य कुण्डलत्वेन भेदः । तथा जीवस्य ब्रह्मत्वेनाभेदो जीवत्वेन भेदः । यद्वा सूर्यप्रकाशयोरेकतेजस्त्वधर्मावच्छेदेन भेदाभेदवज्जीवपरयोरपि एकेनैवात्मत्वधर्मेण भेदाभेदौ श्रुतिबलात्स्वीकार्याविति सूत्रद्वयार्थः । कुण्डलत्वं वलयाकारत्वं, आभोगत्वं वक्राकारत्वं, प्रांशुत्वं दीर्घदण्डाकारत्वमुद्गतमुखत्वमादिशब्दार्थः ॥२७ ॥ ॥२८॥
सिद्धान्तसूत्रम् -
पूर्ववद्वेति ।
धर्मभेदेनैकधर्मेण वा भेदाभेदस्वीकारे भेदस्य सत्यत्वादभेदवदनिवृत्तिः स्यात् । एकत्रैव भेदाभेदस्वीकारे लोके विरोधकथोच्छेद इत्यपि द्रष्टव्यं, तस्मात् निष्प्रपञ्चं चिदेकरसं ब्रह्म तत्पदलक्ष्यमस्तीति सिद्धम् ॥२९ ॥ ॥३०॥