अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

सप्तगत्यधिकरणम्

एवं जन्म­ल­ब्ध­स­त्ता­कानां प्राणा­ना­मु­प­जी­व्यो­प­जी­व­क­त्व­स­ङ्गत्या सङ्ख्यां निर्णेतुं श्रुतीनां विरोधात्संशये पूर्वपक्षयति -
सप्त­ग­ते­र्वि­शे­षि­त­त्वाच्च ।
विशयः संशयः । इन्द्रियाण्यत्र विषयः । पञ्च धीन्द्रियाणि वाङ्मनश्चेति सप्त प्राणा एत एव हस्तेन सहाष्टौ । ग्रहत्वं बन्धकत्वम् । गृह्णन्ति बध्नन्तीति ग्रहा इन्द्रियाणि तेषां बन्धकत्वं विष­या­धी­न­मि­त्य­ति­ग्रहाः ग्रहा­न­ति­क्रान्ता विषया इत्यर्थः । द्वे श्रोत्रे द्वे चक्षुषि द्वे घ्राणे वाक्चेति सप्त शीर्ष्णि भवाः प्राणा द्वाववाञ्चौ पायूपस्थौ चेति नव, ज्ञान­क­र्मे­न्द्रि­याणि दशेमे पुरुषे देहे प्राणाः आत्मा मन एकादश प्राणा इति सिद्धा­न्त­को­टि­रुक्ता । एत एव हृदयाख्यया बुद्ध्या सहद्वादश । अहङ्कारेण सह त्रयोदश । श्रुतितः सप्त­त्वा­व­ग­तेर्ये शीर्षण्याः सप्त ते प्राणा इति शीर्ष­ण्यो­द्दे­शेन प्राण­त्व­वि­शे­ष­णाद्वा शीर्षण्यानां प्राण­त्व­श­ब्दिता, इन्द्रि­य­त्व­प­रि­स­ङ्ख्यया सप्तैव प्राणा इति सूत्रयोजना ।

सप्तत्वं वीप्सा­वि­रु­द्ध­मिति शङ्कते -
नन्विति ।
गुहायां हृदये शेरत इति गुहाशयाः । स्वस्थानेषु निहिता निक्षिप्ता इत्यर्थः । चित्तेन चतुर्दशत्वं मन्तव्यम् ।

पूर्वपक्षी परिहरति -
नैष दोष इति ॥५॥

सिद्धा­न्ति­ना­प्ये­का­द­शसु मनो­वृ­त्ति­भे­दा­न्नि­श्च­या­त्मिका बुद्धिः, गर्वा­त्म­कोऽ­ह­ङ्कारः, स्मरणात्मकं चित्तमिति द्वाद­शा­दि­स­ङ्ख्या­न्त­र्भा­व­नीया । ततो वरं प्राथ­मि­क­स­प्त­त्वेऽ­न्त­र्भावः लाघवादिति प्राप्ते सिद्धान्तयति -
अत्रेति ।
आदानेन कर्मणा गृहीतः सम्बद्धः ।

सम्बन्धमेवाह -
हस्ताभ्यामिति ।
अतोऽ­धि­क­स­ङ्ख्याया न्यूना­या­म­न्त­र्भा­वा­यो­गा­त्स­प्तैव प्राणाः स्युर्ला­घ­वा­नु­रो­धा­दि­त्येवं न मन्त­व्य­मि­त्य­न्वयः ।

तर्हि कती­न्द्रि­या­णी­त्या­का­ङ्क्ष­या­माह -
उत्तरेति ।

'श्रुतीनां मिथो विरोधे सति माना­न्त­रा­नु­गृ­हीता श्रुति­र्ब­ली­यसी' इति न्यायेन कार्य­लि­ङ्गा­नु­मा­ना­नु­गृ­ही­तै­का­द­श­प्रा­ण­श्रु­त्य­नु­सा­रे­णान्याः श्रुतयो नेया इत्यभिसन्धायाह -
सत्यमिति ।

एका­द­श­का­र्य­लि­ङ्गा­न्याह -
शब्देति ।
त्रयः काला­स्त्रै­काल्यं तद्विषया वृत्तिर्यस्य तत्रै­का­ल्य­वृत्ति । इन्द्रि­या­न्त­राणां वर्त­मा­न­मा­त्रा­ग्रा­हि­त्वा­द­ती­ता­दि­ज्ञा­नाय मनोऽ­ङ्गी­का­र्य­मि­त्यर्थः ।

विशे­षि­त­त्वा­दि­त्युक्तं निरस्यति -
अपि च सप्तेति ।

न च तावतामिति ।
आदानादीनां श्रोत्रा­दि­भ्योऽ­त्य­न्त­वै­जा­त्या­दि­त्यर्थः । तेषां तद्वृत्तित्वे बधि­रा­दी­ना­मा­दा­नादि न स्यादिति भावः ।

कथं तर्हि छिद्रे प्राणशब्द इत्याशङ्क्य लक्षणयेत्याह -
मुख्यस्य त्विति ।
'सप्त प्राणाः प्रभवन्ति' इत्युपासनार्थम् । 'अष्टौ ग्रहा' इति श्रुति­स्तू­प­ल­क्ष­णार्था । पायू­प­स्थ­पा­दा­ना­मपि बन्ध­क­त्वा­वि­शे­षा­दिति विवेक्तव्यम् ।

नन्विदं सूत्र­व्या­ख्या­न­म­स­ङ्गतं पञ्च­धी­न्द्रि­य­वा­ङ्म­नसां सप्तत्वावगतिः शीर्षण्यानां चतुर्णां विशेषितत्वमिति हेतो­र्वै­य­धि­क­र­ण्या­दु­क्त­प­रि­स­ङ्ख्या­दो­षा­च्चे­त्य­रु­चे­राह -
इयमपरेति ।

इन्द्रियाणि कतीति सन्देहे पूर्वपक्षसूत्रं योजयति -
सप्तेति ।
तं जीवात्मानं ये प्राणाः सह गच्छन्ति तेषामेव भोग­हे­तु­त्वा­दि­न्द्रि­य­त्व­मि­त्यर्थः । विप­न्ना­व­स्था­या­मेष चाक्षु­ष­श्च­क्षुषि स्थितोऽ­नु­ग्रा­ह­क­सू­र्यां­श­रूपः पुरुषः परा­ङ्प­र्या­व­र्तते बहि­र्दे­शा­त्स्वां­शिनं सुर्यं प्रतिगच्छति । अथ तदानीमयं मुमू­र्षु­र­रू­पज्ञो भवति । देवांशे देवं प्रविष्टे लिङ्गां­श­श्च­क्षु­र्हृ­दये मनसैकीभवति तदायं न पश्यतीति पार्श्वस्था आहुरित्यर्थः । आदिपदात् 'न जिघ्रति न वदति न रमयते न शृणोति न मनुते न स्पृशति न विजानाति' इति गृह्यते ।

सप्तानामेव जीवेन सह गतिरित्यसिद्धम् , ग्रहत्वश्रुत्या हस्तादीनामपि गतिप्रतीतेरिति सिद्धान्तयति -
एवमित्यादिना ।

हस्तादिबन्धस्य प्राङ्मो­क्षा­त्स­ह­गतौ स्मृतिमाह -
पुर्यष्टकेनेति ।

प्राणादिपञ्चकं भूत­सू­क्ष्म­प­ञ्चकं ज्ञाने­न्द्रि­य­प­ञ्चकं कर्मे­न्द्रि­य­प­ञ्च­क­म­न्तः­क­र­ण­च­तु­ष्ट­य­म­विद्या कामः कर्म चेति पुर्य­ष्ट­क­मा­त्मनो ज्ञाप­क­त्वा­ल्लिङ्गं सति सम्भवे सर्व­श्रु­ति­स­ङ्कोचो न युक्त इत्याह -
सर्वशब्दोऽपीति ।
तस्मा­त्स­ङ्ख्या­श्रु­ती­ना­म­वि­रो­धा­दे­का­द­शे­न्द्रि­य­का­रणे ब्रह्मणि समन्वय इति सिद्धम् ॥६॥