अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

रश्म्यधिकरणम्

रश्म्यनुसारी ।

प्रक­र­ण­शो­ध­न­पू­र्व­क­मु­पा­स­कस्य रश्म्य­नु­सा­रित्वं विषयमाह -
अस्तीत्यादिना ।

अथ प्रारब्धान्ते एतदुत्क्रमणं यदा स्यादथ तदा एतैरेव नाडीसम्बद्धै रश्मि­भि­रु­त्क्रा­म­ती­त्यर्थः । अत्र सम्बन्धस्य काल­वि­शे­षा­श्र­व­णा­द्रात्रौ रश्म्यभावाच्च संशयमाह -
तत्किमिति ।
पूर्वो­क्त­ना­डी­स­म्ब­द्ध­र­श्मी­ना­म­त्रो­प­जी­व्य­त्वा­त्स­ङ्गतिः ।

पूर्वपक्षे रात्रौ मृतस्य रश्मि­प्रा­प्त्यर्थं सूर्यो­द­य­प्र­ती­क्षास्ति, सिद्धान्ते नास्तीति मत्वा सिद्धान्तं प्रतिजानीते -
अविशेषेणेति ॥१८॥

पूर्व­प­क्ष­बी­ज­मु­प­न्यस्य दूषयति -
निशीत्यादिना ।
शिरा नाड्यः प्रतायन्ते विस्तृता भवन्ति, सृप्ताः सम्बद्धाः ।

श्रुतसम्बन्धस्य रात्रौ सत्त्वे युक्तिमाह -
निदाघेति ।

तर्हि हेम­न्ता­दि­रा­त्रि­ष्वौ­ष्ण्यो­प­लब्धिः स्यादित्यत आह -
स्तोकेति ।
सविता रात्रा­व­प्य­ह­र्द­धा­तीति धारणाभिधानं स्तोक­र­श्म्य­नु­वृ­त्त्य­भि­प्रा­य­मे­वे­त्यर्थः । किञ्च यदि रात्रौ मृतस्य रश्मियोगं विनैवोर्ध्वगतिः स्यात्तदा रश्मि­श्रु­ते­र्दि­वा­मृ­त­वि­ष­य­तया सङ्कोचः स्यादू­र्ध्व­ग­त्य­भावे च विद्या­या­म­प्र­वृत्तिः स्यात् । न च प्रती­क्ष­यो­र्ध्व­ग­ति­रिति वाच्यम् , रश्म्यु­द­या­त्प्रा­ग्दे­ह­दाहे आदि­त्य­प्र­ती­क्षा­वै­य­र्थ्या­पा­ता­द­प्र­ती­क्षा­श्रु­ति­वि­रो­धाच्च । तस्माद्यदा कदाचिन्मृतस्य रश्मिप्राप्त्या झटिति ब्रह्म­लो­क­प्रा­प्ति­रिति ॥१९॥