अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

सङ्कल्पाधिकरणम्

एवं पर­वि­द्या­फ­ल­मु­क्त­मि­दा­नी­म­प­र­वि­द्या­फलं प्रपञ्चयति -
सङ्कल्पादेव तु तच्छ्रुतेः ।
एव­का­र­स्या­यो­गा­न्य­यो­ग­व्य­व­च्छे­द­सा­धा­र­ण्या­त्सं­शयः, ब्रह्मलोकं गतस्योपासकस्य सङ्कल्पो यत्ना­न्त­र­सा­पेक्षः, भोग­सा­म­ग्री­स­ङ्क­ल्प­त्वा­द­स्म­दा­दि­स­ङ्क­ल्प­वत् । न चैवकारविरोधः सङ्कल्पेन सामग्र्या अयोगव्यवच्छेदेन सौल­भ्या­र्थ­त्वात्, यत्नानङ्गीकारे भोग­पु­ष्ट्य­सि­द्धे­श्चेति पूर्वपक्षार्थः । अत्र लोकवृत्तानुसरणं फलम् , सिद्धान्ते तु विद्याबलेन सङ्कल्पस्यैव भोग­पु­ष्टि­क­र­त्व­सि­द्धि­रिति भेदः ।

किञ्च यदि भोग­स­ङ्क­ल्पा­न­न्त­र­मपि यत्ना­न्त­र­सा­ध्य­नि­मि­त्ता­पेक्षा स्यात्तर्हि निमि­त्त­प्राप्तेः प्राग्जा­त­स­ङ्क­ल्पस्य वन्ध्यत्वं स्याद्भोगे विलम्बात्ततः सत्य­स­ङ्क­ल्प­श्रु­तेर्न यत्ना­न्त­रा­पे­क्षे­त्याह -
निमित्तान्तरमपि त्विति ॥८॥

नन्वी­श्व­रा­धी­नस्य विदुषः कथं सङ्क­ल्प­मा­त्रा­द्भो­ग­सि­द्धि­स्त­त्राह -
अत एवेति ।
ईश्वरधर्म एव विदुष्याविर्भूत इति न सङ्कल्पभङ्ग इति भावः ॥९॥