भाष्यरत्नप्रभाव्याख्या
उपसंहाराधिकरणम्
सर्वशाखासु विद्यैक्यचिन्तायाः फलमाह -
उपसंहार इति ।
शाखाभेदे समानविद्यायां श्रुता गुणा यथाश्रुति व्यवस्थिता उत एकत्राश्रुता इतरशाखात उपसंहर्तव्या इति संदेहे विद्यैक्येऽपि तत्र तत्रोक्तैरेव गुणैर्विद्योपकारसिद्धेः शाखाभेदेन गुणा व्यवस्थिता इति पूर्वपक्षः, तत्र प्रकृतविद्यैक्यचिन्तानैष्फल्यमिति फलम् ।
सिद्धान्तत्वेन सूत्रं व्याचष्टे -
स्थिते चेत्यादिना ।
गुणानां गुण्यविनाभावादेतच्छाखास्था विद्या शाखान्तरोक्ततद्विद्यागुणवती, तदभिन्नत्वात्, तद्विद्यावदित्यनुमानद्विद्यैक्ये गुणोपसंहारसिद्धिरित्यर्थः ।
प्रधानैक्ये तत्तदुपकारकाणामङ्गानामुपसंहारे दृष्टान्तमाह -
विधिशेषवदिति ।
उक्तमेव व्यतिरेकमुखेनाह -
यदि हीति ।
नन्वाग्नेययागावरुद्धानां गुणानां ततोऽभिन्ने सौर्ये प्राप्तिवद्विद्यान्तरस्थगुणानां विद्यान्तरे प्राप्तिः किं स्यादित्यत आह -
प्रकृतीति ।
प्रकृतिगुणानां विकारे प्राप्तिर्युक्ता विद्यानां तु प्रकृतिविकृतिभावासिद्धेर्न तत्प्राप्तिरित्यर्थः । नैवमिति गुणानुपसंहारो नेत्यर्थः ।
उत्तरसूत्राणामनेन सूत्रेण पौनरुक्त्यं वारयति -
अस्यैवेति ॥५॥