अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

चतुर्थाध्याये प्रथमः पादः

चतुर्थेऽध्याये प्रथमः पादः ।
ओम् । यज्ज्ञा­ना­ज्जी­वतो मुक्ति­रु­त्क्रा­न्ति­ग­ति­व­र्जिता ।
लभ्यते तत्परं ब्रह्म रामनामास्मि निर्भयम् ।
आवृ­त्ति­र­स­कृ­दु­प­दे­शात् ।

साधनं निरूप्य फलं निरूप्यत इत्य­ध्या­य­यो­र्हे­तु­फ­ल­भावं सङ्गतिमाह -
तृतीय इति ।

फल­प्र­स­ङ्गे­नो­त्क्रा­न्ति­र­र्चि­रा­दि­मा­र्गश्च विचार्यत इत्याह -
प्रसङ्गेति ।
पूर्वं साक्षादेव श्रुत्युक्तं संन्यासादि साधनं चिन्तितम् , सम्प्रति फला­र्था­प­त्ति­ग­म्य­मा­वृ­त्त्या­दि­क­म­द्या­श्ले­षा­धि­क­र­णा­त्प्रा­क्चि­न्त्यते, तदारभ्य जीव­न्मु­क्ति­स्ततो द्वितीयपादे उत्क्रा­न्ति­स्तृ­तीये अर्चि­रा­दि­मा­र्गस्य गन्तव्यस्य च निर्णयश्चतुर्थे ज्ञानोपासनयोः फलनिर्णय इति पादार्थविवेकः ।