अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

हान्यधिकरणम्

हानौ तूक्तम् ।
यथाऽश्वो रजोयुक्तानि जीर्णरोमाणि त्यक्त्वा निर्मलो भवति तथाहमपि पापं विधूय कृतात्मा निर्म­ली­कृ­त­चित्तः सन् यथा वा राहु­ग्र­स्त­श्चन्द्रो राहु­मु­खा­त्प्र­मुच्य स्पष्टो भवति तथा शरीरं धूत्वा त्यक्त्वा देहा­भि­मा­ना­न्मुक्तः सन्नकृतं कूटस्थं ब्रह्मात्मकं लोकम् अभि­प्र­त्य­क्त्वेन संभवामीत्यर्थः । यथा नद्यः समुद्रं प्राप्य नामरूपे त्यजन्ति तथा विद्वानित्यर्थः । तस्य मृतस्य विदुषः, दायं धनं, तत्तेन विद्याबलेन सुकृतदुष्कृते त्यजतीत्यर्थः ।

उपायनं ग्रहणं तस्य त्याग­पू­र्व­क­त्वात्, अत्य­क्त­यो­र्ग्र­ह­णा­यो­गा­त्त्या­गोऽ­र्था­दा­यति । यत्र तु त्याग एव श्रुतः तत्र हानोपायनयोः सह­भा­व­स्या­व­श्य­क­त्वा­ना­व­श्य­क­त्वाभ्यां संशयमाह -
यत्र त्विति ।
अत्र पूर्वपक्षे स्तुति­प्र­क­र्षा­सिद्धिः सिद्धान्ते तत्सिद्धिरिति फलम् ।

यद्यपि ताण्ड्या­थ­र्व­ण­श्रु­त्यो­र्नि­र्गु­ण­वि­द्या­र्थयोः कर्महानमेव श्रुतं नोपायनं तथापि कौषीतकिश्रुतौ पर्य­ङ्क­स्थ­स­गु­ण­ब्र­ह्म­वि­द्या­या­मु­पा­यनं श्रुत­म­त्रो­प­सं­ह­र्त­व्य­मि­त्या­शङ्क्य विद्या­भे­दा­न्नो­प­सं­हार इत्याह -
विद्यान्तरेति ।

किञ्च यथा मन्त्र­क­र्म­णा­म­ना­व­श्य­क­त्वा­द्वि­द्या­स्व­नु­प­सं­हार उक्तः तथा परैरुपादानं विनापि हान­सं­भ­वे­नो­पा­द­न­स्या­ना­व­श्य­क­त्वान्न प्राप्तिरिति दृष्टा­न्त­सं­गत्या प्राप्ते सिद्धान्तयति -
हानौ त्वित्यादिना ।
उपायनशब्दस्य शेष­त्वा­द्धा­न­श­ब्दे­ना­पे­क्षि­त­त्वा­दिति सूत्रार्थः । अश्व­रो­म­दृ­ष्टा­न्तेन विधूतयोः पुण्यपापयोः पर­त्रा­व­स्था­न­सा­पे­क्ष­त्वा­त्प­रै­रु­पा­दानं वाच्यमिति भावः ।

विद्याभेदे गुणानुपसंहार इति व्यव­स्थाऽ­नु­ष्ठा­न­वि­षया न स्तुति­वि­ष­ये­त्याह -
तदुच्यत इति ।
मन्यते सूत्रकार इत्यर्थः ।

ननु श्रुत­हा­ना­र्थ­वा­दे­नापि स्तुतिसिद्धौ किम­र्थ­मु­पा­य­ना­र्थ­वाद आनीयते, तत्राह -
स्तुति­प्र­क­र्ष­ला­भा­येति ।

नन्वर्थवादस्य विधिना संबन्धः प्रसिद्धो नार्थ­वा­दा­न्त­रे­णे­त्यत आह -
प्रसिद्धा चेति ।
इतो भूलोकादित्यर्थः । हेम­न्त­शि­शि­र­यो­रै­क्या­त्प­ञ्च­र्तवः । यज्ञस्य पुरु­ष­रू­प­क­ल्प­नायां सेन्द्रियत्वाय त्रिष्टुभौ भवत इत्युक्तं बह्वृ­च­ब्रा­ह्मणे, तत्र त्रिष्टु­भ­श्छ­न्दो­मा­त्र­त्वा­त्क­थ­मि­न्द्रि­य­त्व­क­ल्प­ने­त्या­का­ङ्क्षायां यजुर्वाक्यं संवाद्यत इत्यर्थः ।

नन्वमूर्तयोः पुण्यपापयोः उपा­दा­न­स्या­सं­भ­वा­द­नु­प­सं­हार इत्यत आह -
विद्या­स्तु­त्य­र्थ­त्वा­च्चेति ।
विद्व­न्नि­ष्ठ­यो­रेव तयोः फलं परे प्राप्नुवन्ति विद्या­सा­म­र्थ्या­दि­त्यु­प­य­न्ति­प­दे­नो­च्यत इत्यर्थः । नन्व­न्य­नि­ष्ट­क­र्म­णो­र­न्यत्र फलसंचारः कथम् । ननु वचनबलादिति चेत् । न । फल­मु­प­य­न्ती­त्य­श्रुतेः । न च यथा पुत्र­कृ­त­श्रा­द्धस्य पितृषु फलं तथात्रेति वाच्यं, यस्य फलमुद्दिश्य यत्कर्म विहितं तस्य तत्फलमिति न्यायेन पितृणां तृप्त्युद्देशेन कृतकर्मणो व्यधि­क­र­ण­फ­ल­त्वेऽपि विदुषः कर्म­का­लेऽ­नु­द्दि­ष्ट­व्य­धि­क­र­ण­फ­ला­यो­गात् ।

किञ्च विदुषो देहपाते कर्म­णोऽ­स­त्त्वा­द्या­व­ज्जीवं विद्वत्सेवकस्य तद्द्वेषिणो वा फलं स्यादित्यत आह -
नाती­वा­भि­नि­वे­ष्ट­व्य­मिति ।
विद्व­त्से­वा­द्वे­षाभ्यां विद्व­न्नि­ष्ठ­पु­ण्य­पा­प­तुल्ये पुण्यपापे सेव­क­द्वे­षि­णो­र्जा­येते जातयोः फलतः स्वीकार उपायनमिति परिहारस्य सुलभत्वादनाग्रह इत्यर्थः ।

उपायनादेः स्तुतित्वे लिङ्गमाह -
उपायनेति ।
उपा­य­न­वि­व­क्षा­या­मु­पा­य­न­स्यै­वो­प­सं­हारं सूत्रकारो ब्रूयादतः शब्दस्य तं ब्रुवन्स्तुतिं सूचयतीत्यर्थः ।

विद्या­वि­चा­रा­त्मके पादे स्तुतिविचारस्य का संगतिरित्यत आह -
तस्मादिति ।

शाखान्तरस्थो विशेषः शाखान्तरेऽपि ग्राह्य इत्यत्र दृष्टान्तमाह -
कुशेति ।
कुशा उद्गातृणां स्तोत्र­ग­ण­नार्थाः शलाका दारुमय्यः, भो कुशाः, यूयं वानस्पत्याः वनस्थमहावृक्षो वनस्पतिः तत्प्रभवाः स्थ ता इत्थंभूता यूयं मा पात मां रक्षतेति यजमानप्रार्थना । अत्र ता इति स्त्रीलि­ङ्ग­नि­र्दे­शा­दौ­दु­म्बर्य इति भाष्याच्च शलाकासु कुशशब्दस्य स्त्रीत्वं मन्तव्यं दर्भविषयस्य न स्त्रीत्वं, अस्त्री कुश­मि­त्य­नु­शा­स­नात् ।

छन्दोदृष्टान्तं व्याचष्टे -
यथा चेति ।
नवाक्षराणि छन्दांसि आसुराण्यन्यानि दैवानि तेषां क्वच्छिन्दोभिः स्तुवत इत्य­त्रा­वि­शे­ष­प्राप्तौ पैङ्गि­वा­क्या­द्वि­शे­ष­ग्रह इत्यर्थः ।

स्तुतिं विवृणोति -
यथेति ।
आतिरात्रे षोडशिनो ग्रहस्याङ्गभूतं स्तोत्रं कदेति छन्दो­गा­दी­ना­मा­का­ङ्क्षा­या­मु­द­य­स­म­या­विष्टे सूर्ये षोडशिनः स्तोत्र­मि­त्या­र्च­श्रुतेः कालविशेषग्रह इत्यर्थः । ऋचोऽधीयत इत्यार्चाः ।

उपगानं विभजते -
यथेति ।
'ऋत्विज उपगायन्ति' इत्य­वि­शे­ष­श्रुतेः 'नाध्व­र्यु­रू­प­गा­यति' इति श्रुत्य­न्त­रा­द­ध्व­र्यु­भिन्ना ऋत्विज उपगायन्तीति विशेषग्रह इत्यर्थः ।

ननु कुशा­दि­वा­क्या­ना­मपि किमिति विशे­ष­श्रु­त्य­न्त­रै­क­वा­क्य­ताऽ­भ्यु­प­ग­म्यते, तत्राह -
श्रुत्यन्तरकृतं हीति ।
सामा­न्य­वि­शे­ष­यो­रे­क­वा­क्य­ता­रू­पायां गतौ सत्यां वाक्यभेदं कृत्वा नाध्वर्युरिति निषे­धा­द­वि­शे­ष­श्रु­ते­श्चा­ध्व­र्यु­रु­प­गा­यति नोपगायति चेत्येवं सर्वत्र विकल्पो न युक्तः, व्रीहि­य­व­यो­स्त्व­गत्या विकल्प आश्रित इत्यर्थः । विक­ल्प­स्या­न्या­य्य­त्व­म­ष्ट­दो­ष­दु­ष्ट­त्वात् । तथा हि यदि व्रीहि­वा­क्य­मा­श्री­यते तदा यव­वा­क्य­स्ये­ष्ट­प्रा­मा­ण्य­त्यागः, अनि­ष्टा­प्रा­मा­ण्य­स्वी­कारः, कदा­चि­द्य­व­वा­क्या­श्र­यणे त्यक्त­प्रा­मा­ण्य­स्वी­कारः, स्वीकृ­ता­प्रा­मा­ण्य­त्या­ग­श्चे­त्ये­क­स्मि­न्य­व­वाक्ये चत्वारो दोषा भवन्ति ।

एवं व्रीहिवाक्येऽपि चत्वारो दोषा इत्येवं दुष्ट­वि­क­ल्प­प­रि­हा­राय भिन्न­शा­ख­श्रु­त्यो­र­प्ये­क­वा­क्यता जैमि­नि­सं­म­ते­त्याह -
तदुक्तमिति ।
ज्योति­ष्टो­म­प्र­क­रणे 'दीक्षितो न जुहोति', इति श्रुतं 'याव­ज्जी­व­म­ग्नि­होत्रं जुहुयात्' इति चान्यत्र श्रुतं तत्र यदि नदीक्षितवाक्यं होमप्रतिषेधकं स्यात्तदा क्रत्व­र्थ­त्वा­न्नि­षे­धोऽ­नु­ष्ठेयः, यावज्जीवविधिना होमो वानुष्ठेय इति विकल्पः स्यात्, स चान्याय्यः । अपि तु यावज्जीववाक्यं प्रति नदी­क्षि­त­वा­क्यस्य शेषत्वान्नकार इत­र­प­र्यु­दा­सा­र्थकः स्याद्दी­क्षि­ता­न्य­ल­क्षकः स्यात्, न होमप्रतिषेधकः, तस्माददीक्षितो यावज्जीवं जुहु­या­दि­त्ये­क­वा­क्य­तेति नदी­क्षि­ता­धि­क­र­ण­सि­द्धा­न्त­सू­त्रार्थः । अत्र भगवत्पादैः सूत्रमेव पठितं, मिश्रैस्तु पर्यु­दा­सा­धि­क­र­ण­सि­द्धा­न्त­सूत्रं 'अपि तु वाक्यशेषः स्याद­न्या­य्य­त्वा­द्वि­क­ल्पस्य विधीनामेकदेशः स्यात्' इति स्थितमत्रार्थतः पठितमित्युक्तं तच्चिन्त्यम् । सूत्रार्थस्तु यज्ञमात्रे येयजामहे इति प्रयोक्तव्यमिति श्रुतं, नानुयाजेषु येयजामहं करोतीत्यपि श्रुतं, तत्र नकारस्य निषे­ध­क­त्वेऽ­प्य­ति­रात्रे षोड­शि­ग्र­ह­णा­ग्र­ह­ण­यो­रि­वा­नु­या­जेषु यज्ञ­त्वा­वि­शे­षा­त्प्र­यो­क्तव्यं निषेधान्न प्रयोक्तव्यमिति विकल्पः स्यात्, तस्या­न्या­य्य­त्वा­त्ये­य­जा­म­ह­वि­धे­रेव नानु­या­ज­वा­क्य­मे­क­देशः स्यात्, पर्यु­दा­स­वृत्त्या विधिवाक्यशेषः स्यादिति यावत् । तथा चानुयाजभिन्नेषु यागेषु येयजामह इति प्रयो­क्त­व्य­मि­त्ये­क­वा­क्य­तेति ।

वर्णकान्तरमाह -
अथवेति ।
पूर्वत्रविधूननं कर्महानिरिति सिद्धवत्कृत्य उपायनोपसंहार उक्तः, अत्र सैव साध्यत इति भेदः ।

उभयत्र लक्ष­णा­सा­म्या­त्सं­श­य­माह -
किमिति ।
विधूननस्य हि फल­द्व­य­म­श्व­रो­मा­दिषु दृष्टं पूर्व­स्व­भा­वा­त्च्यु­ति­र­न्यत्र संक्रा­न्ति­श्चेति । तत्र संक्रा­न्ति­रू­प­हा­नि­र्ल­क्ष­णीया किंवा च्युतिरिति संशयार्थः । तत्र विधूननशब्दस्य कम्पनं मुख्यार्थ इति तावत्सर्वसंमतम् । तच्चामूर्तयोः पुण्यपापयोर्न संभवति । अतस्तयोर्यः स्वभावः फल­दा­तृ­त्व­श­क्ति­स्त­त­श्चा­लनं विद्यया प्रति­ब­न्धा­च्च्युतिः सा लक्षणीया न हानि­र­मू­र्त­यो­र­न्यत्र संक्रा­न्त्य­यो­गा­द­न्य­सा­पे­क्ष­त्वा­च्चेति पूर्वपक्षार्थः ।

सिद्धान्तयति -
हानावेवेति ।
यदि च्युतिमात्रं लक्ष्यं तदो­प­य­न्ती­त्य­न­न्वितं स्यात् । न च यत्र धुनो­ते­रू­पा­य­न­श­ब्द­सां­निध्यं तत्र हानिर्लक्ष्यते न केव­ल­धु­नो­ते­र्हा­नि­श्चा­न्यत्र विदुषः सेवकादौ तुल्य­क­र्म­सं­क्रा­न्ति­रिति नासंभव इति वाच्यं, केवलधुनोतेरपि मुख्या­र्था­सं­भ­वे­ना­न्यत्र लक्ष्यतया बुद्धि­स्थ­हा­नि­ल­क्ष­णाया एव युक्तत्वादिति भावः ।

उपा­य­न­स्या­मु­ख्य­त्वान्न क्वापि हानि­ल­क्ष­णा­बी­ज­त्व­मिति शङ्कित्वा पुण्यपापयोः फलतः स्वीका­रा­त्म­क­मु­पा­यनं हानिं विनानुपपन्नं सल्ल­क्ष­णा­नि­र्णा­य­क­मिति परिहरति -
यद्यपीत्यादिना ।

यथा­न्य­त्र­श्रु­त­मौ­दु­म्ब­र­त्वा­दिकं कुशादिनिर्णायकं तथेदमुपायनं विधूननस्य हानत्वे निश्चायकमित्याह -
क्वचिदपीति ।

विधूननं मुख्यं किमिति नोच्यते, तत्राह -
न चेति ।

तथापि हानं कथं लक्ष्यत इत्याशङ्क्य मुख्य­सं­ब­न्धा­दि­त्याह -
अश्वश्चेति ।

अनु­प­प­त्ति­सं­बन्धौ लक्ष­णा­बी­ज­रू­पा­मुक्त्वा लक्षकं पदं निर्दिशति -
अश्व इवेति ।
विधूयेति पदं दृष्टान्ते हानपर्यन्तं सद्दा­र्ष्टा­न्ति­केऽपि हान­ल­क्ष­क­मि­त्यर्थः ।

यद्वा हानवाचकमेवास्तु नच धूञ्कम्पन इति धातु­पा­ठ­वि­रो­ध­स्त­स्यो­प­ल­क्ष­णा­र्थ­त्वा­दि­त्याह -
अनेकेति ।
शाखा­न्त­र­स्थ­मु­पा­यनं विधूननस्य हान­त्व­नि­श्चा­य­क­मि­त्यत्र जैमिनिसूत्रं तदुक्तमिति गृहीतपूर्वं व्याख्या­त­मि­त्यर्थः । एवं विधूननस्य हानित्वसिद्धेः केव­ल­हा­ना­वु­पा­य­नो­प­सं­हार इति सिद्धम् ॥२६॥