भाष्यरत्नप्रभाव्याख्या
आदित्यादिमत्यधिकरणम्
आदित्यादि ।
पृथिव्यग्न्यन्तरीक्षादित्यद्युसंज्ञेषु लोकेषु हिङ्कारप्रस्तावोद्गीथप्रतीहारनिधनैरंशैः पञ्चांशम् , साम, तैरेवादिरिति उपद्रव इति च भक्तिद्वयाधिकैः सप्तांशं सामेति भेदः । अत विशेषाज्ञानात्संशयः ।
पूर्ववदुत्कर्षानवधारणादनियम इति प्रत्युदाहरणेन पूर्वपक्षमाह -
तत्रेति ।
सिद्धरूपादित्यादिभ्यः कर्मरूपोद्गीथादीनां फलसन्निकर्षेणोत्कर्षाद्ब्रह्मवद्विशेषणत्वे नियम इति दृष्टान्तेन मुख्यं पूर्वपक्षमाह -
अथवेति ।
तत्तत्पक्षसिद्धिरेव पूर्वोत्तरपक्षफलं मन्तव्यम् ।
किञ्चानङ्गेष्वेवाङ्गदृष्टिरित्यत्र तेष्वङ्गवाचिपदप्रयोगं लिङ्गमाह -
तथा चेयमेवेति ।
तदेतदग्न्याख्यं साम एतस्यां पृथिवीरूपायामृच्यध्यूढमुपरिस्थितमित्यर्थः ।
ऋचि सामवत्पृथिव्यामग्निर्दृश्यते, अतः साम्यात्पृथिव्येवर्गग्निः सामेति ध्यानं विहितम् , तत्र यदि ऋक्सामात्मकयोः कर्माङ्गयोः पृथिव्यग्निदृष्ठिः स्यात्, तदा पृथिव्यग्न्योरृक्सामपदप्रयोगो न स्यादित्यत्र दृष्टान्तमाह -
क्षत्तरीति ।
अतः प्रयोगान्यथानुपपत्त्या पृथिव्यग्न्योरृक्सामदृष्टिरित्यर्थः ।
विषयसप्तम्या चैवमेवेत्याह -
अपि चेति ।
गायत्रसंज्ञं साम ।
किञ्च पूर्वाधिकरणसिद्धान्तन्यायेनाप्येवमित्याह -
प्रथमेति ।
अनङ्गबुद्ध्याङ्गान्युपास्यानीति सिद्धान्तयति -
एवमिति ।
उपास्तीनां हि कर्मसमृद्धिः फलं श्रूयते, सा च ताभिरङ्गेषु संस्क्रियमाणेषूपपद्यते, अङ्गानां समृद्ध्यनुकूलप्रकृतकर्मापूर्वजनकत्वादित्यर्थः ।
ननु यत्रोपास्तीनां प्रकृतकर्मापूर्वसन्निकृष्टाङ्गद्वारापेक्षं फलं श्रुतं तत्र फलोपपत्तयेऽङ्गानामुपास्यत्वं भवतु तदनपेक्षलोकादिफलेषु तूपासनेषु कथमुपास्यविवेक इति शङ्कते -
भवत्विति ।
यथा स्वतन्त्रपशुफलस्यापि गोदोहनस्य अङ्गद्वारापेक्षयैव फलमिष्टं तद्वल्लोकादिफलेषूपासनेष्वपि कर्मापूर्वाङ्गद्वारैव फलकल्पना युक्ता, कर्माधिकृतस्यैवाङ्गाश्रितोपासनेष्वधिकारात्, अतोऽङ्गानामेवोपास्यत्वमिति समाधत्ते -
तेष्वपीति ।
उत्कर्षानवधारणादनियम इत्युक्तं निरस्यति -
फलात्मेति ।
उपक्रमबलाच्चाङ्गमुपास्यमित्याह -
अपि चेति ।
रसतमत्वादिगुणाद्युपसङ्ख्यानमित्यर्थः ।
द्वितीयं पूर्वपक्षं दूषयति -
यत्तूक्तमित्यादिना ।
कर्मभूयं कर्मात्मकत्वं प्राप्येत्यर्थः ।
सिद्धादित्याद्यात्मना कर्मणां दृष्टौ कर्मत्वहानिः स्यादित्यत आह -
आदित्यादिभावेनेति ।
माणवकेऽग्निदृष्टिवदुद्गीथादिष्वादित्यादिधियां गौणत्वान्न कर्मत्वाभिभावकत्वमित्यङ्गेष्वनङ्गत्वधीरविरुद्धेत्याशयः ।
प्रयोगानुपपत्तिमुक्तां निरस्यति -
तदेतदिति ।
लक्षणाबीजं सम्बन्धमाह -
लक्षणा चेति ।
गङ्गायां घोष इत्यत्र सन्निकृष्टसंयोगसम्बन्धेन तीरलक्षणा, अग्निर्माणवक इत्यत्राग्निनिष्ठशुचित्वादिगुणवत्त्वरूपपरम्परासम्बन्धेन लक्षणा दृष्टा, तथा चात्र ऋक्सामयोः पृथिव्याग्निदृष्टिपक्षेऽपि ऋक्सामपदाभ्यां स्ववाच्यार्थे द्रष्टव्यताख्यपरम्परासम्बन्धेन पृथिव्यग्निलक्षणा युक्तेत्यर्थः ।
ननु प्रतीकवाचिपदस्य ध्येये अर्थे लक्षणा न युक्ता, क्षतृपदस्य राजन्यप्रयोगादिति शङ्कते -
तत्र यद्यपीति ।
तथापि ऋक्सामसम्बन्धात्पृथिव्यग्न्योरेवैतस्यामृच्यध्यूढं सामेति एष ऋक्सामपदप्रयोगः इत्यन्वयः ।
ननु मुख्यार्थ एव न कुतो गृह्यते, तत्राह -
प्रसिद्धयोरिति ।
तस्मात् ऋच्यध्यूढं सामेति मुख्ययोः पृथगुक्तेस्तदेतस्यामित्यत्रापि तयोर्ग्रहे पुनरुक्तिः स्यात्, अतः प्रतीकाभेददृष्ट्या पृथिव्यग्न्योः प्रतीकसन्निधानात्तयोरेव प्रतीकपदप्रयोगः कृतस्तदभेददार्ढ्यायेत्यर्थः ।
तर्हि क्षत्तृशब्दोऽपि राजनि स्यादित्यत आह -
क्षत्रिति ।
स्थितप्रयोगस्य निमित्तं किमपि वाच्यं न तु निमित्तमस्तीति प्रयोग आपाद्य इति भावः । क्षत्ता सूतः, तस्य कार्यं रथचर्यादि यदा राजेव करोति तदा क्षत्तृशब्दो राजन्यप्यस्तीत्यक्षरार्थः ।
ऋगादावेव पृथिव्यादिदृष्टिरित्यत्र हेत्वन्तरमाह -
इयमिति ।
सप्तम्या लोकानामुपास्यत्वमुक्तं निरस्यति -
तथा लोकेष्विति ।
सामात्मना लोकानुपासीतेति द्वितीयासप्तम्योर्भङ्गस्त्वया कार्यस्ततो वरं लोकात्मना सामोपासीतेति सप्तमीमात्रभङ्ग इत्यर्थः । एतेनेति एकविभक्तिभङ्गलाघवेन प्राणात्मना गायत्रं सामोपास्यमिति व्याख्यातमित्यर्थः ।
ननु विभक्तिसाम्ये कथं निर्णयस्तत्राह -
यत्रापीति ।
'साम्न उपासनं साधु' इत्युपक्रम्य पृथिवी हिङ्गार इत्यादिना हिङ्गारादिपञ्चावयवस्य साम्न उपासनमुक्त्वा 'इति तु पञ्चविधस्योपासनम्' इत्युपसंहृत्य, अथेति सप्तविधस्य साम्न उपासनं प्रक्रम्य प्रपञ्चितमतः साम्न एवोपास्यत्वमित्यर्थः ।
यदुक्तं प्राथम्यात्पृथिव्यादेरूपास्यत्वमिति, तत्राह -
एतस्मादेवेति ।
यद्यपि हिङ्कारोद्देशेन पृथिवीत्वविधेरुद्देश्यस्य प्रथमनिर्देशो वाच्यस्तथाप्युक्तन्यायबलाद्व्यत्ययो ग्राह्य इत्यर्थः ॥६॥