अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

सर्वाभेदाधिकरणम्

सर्वा­भे­दा­द­न्य­त्रेमे ।

विषयं वक्तुं संमतमर्थमाह -
वाजिनामिति ।
वाचो वसिष्ठत्वं गुणो वाग्मिनः सुखवासदर्शनात् । चक्षुषः प्रतिष्ठा गुणः चक्षुष्मतः पाद­प्र­ति­ष्ठा­द­र्श­नात् । श्रोत्रं संपद्गुणकं श्रव­णा­त्स­र्वा­र्थ­सं­पत्तेः । मन आयतनत्वगुणं तस्य वृत्तिद्वारा सर्व­भो­ग्या­श्र­य­त्वात् । ते च गुणाः प्राणस्य श्रैष्ठ्यं निश्चित्य वागा­दि­भि­स्त­स्मि­न्न­र्पिता इति शाखा­द्व­य­सं­म­तोऽर्थः ।

विषयमाह -
अन्ये­षा­मि­त्या­दिना ।
निश्रेयसस्य श्रैष्ठ्य­स्या­दानं निर्धारणं प्रस्तूयत इत्यर्थः । देवता वागा­द­योऽ­हं­श्रे­यसे स्वश्रै­ष्ठ्या­ये­त्यर्थः ।

एवं­श­ब्दा­च्छ्रै­ष्ठ्य­गु­ण­क­प्रा­ण­प्र­त्य­भि­ज्ञा­नाच्च संशयमाह -
तत्रेति ।
गुणा­ना­म­नु­प­सं­हा­रो­प­सं­हा­रा­वेव पूर्वो­त्त­र­प­क्षयोः फलम् ।

उद्गी­थ­त्व­वि­शे­ष­णा­दो­ङ्का­रस्य सर्व­वे­द­व्या­प्ति­व्या­वृ­त्ति­व­त्प्र­कृ­त­गु­ण­मा­त्र­ग्रा­ह­कै­वं­श­ब्दा­च्छा­खा­न्त­र­गु­ण­व्या­वृ­त्त­रिति दृष्टान्तेन पूर्वपक्षयति -
तत्र प्राप्तमिति ।
यथा वागादिभ्यः प्राणश्रैष्ठ्यं सिद्धमथो तथा य एवं श्रैष्ठ्यगुणं विद्वानुपास्ते स प्राणे श्रैष्ठ्यं विदित्वा श्रेष्ठो भवतीति श्रुत्यर्थः ।

एवं जाती­य­क­वि­द्यै­क्या­त्प्रा­प्त­मा­र्थिकं वसि­ष्ठ­त्वा­दि­गु­ण­जा­त­मे­वं­शब्दो न गृह्णाति श्रुता­व­ल­म्बि­त्वा­दिति प्राप्ते सिद्धान्तयति -
अस्येरन्निति ।

वाज­स­ने­यि­ब्रा­ह्मणे तावदेवंशब्देन वसि­ष्ठ­त्वा­दि­गु­ण­जा­तस्य प्राण­वि­द्या­सं­बन्धः सिद्धः सैव विद्या कौषीतकिश्रुतौ प्रत्य­भि­ज्ञा­यते, तथाच गुणानां गुण्य­वि­ना­भा­वे­ना­र्थतः प्राप्तानामपि श्रुत­गु­णै­र­वि­रो­धा­त्स­हैव श्रुतमार्थं च गुणजातं श्रुत्य­र्थाभ्यां संनि­हि­त­त्वा­वि­शे­षा­त्कौ­षी­त­कि­ग­ते­नै­वं­श­ब्देन परामृश्यत इत्याह -
तथापीति ।

कौषी­त­कि­श्रु­तिस्थः प्राणो वसि­ष्ठ­त्वा­दि­गु­णकः, श्रेष्ठ­प्रा­ण­त्वात्, वाजि­श्रु­ति­स्थ­प्रा­ण­व­दि­त्य­श्रु­त­गु­णा­नु­माने सति श्रुत­हा­नि­र्नास्ति, अवि­रो­धा­दि­त्युक्तं स्पष्टयति -
न चैवं सतीति ।

अपरिगणिता अपि गुणाः श्रुता एवेत्यत्र दृष्टान्तमाह -
न हीति ।

फलितमाह -
तस्मादिति ॥१०॥