अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

इन्द्रियाधिकरणम्

सत्स्वि­न्द्रि­येषु तद­धि­ष्ठा­तृ­दे­व­ता­चिन्ता, तान्येव प्राण­वृ­त्ति­व्य­ति­रे­केण न सन्तीत्याक्षेपं प्रत्याह -
त इन्द्रियाणि तद्व्य­प­दे­शा­द­न्यत्र श्रेष्ठात् ।

प्राणा­दि­न्द्रि­याणां भेदा­भे­द­श्रु­तिभ्यां संशयं वदन् पूर्वपक्षयति -
मुख्य­श्चे­त्या­दिना ।
हन्त इदानीमस्यैव मुख्यप्राणस्य सर्वे वयं स्वरूपं भवामेति सङ्कल्प्य ते वागा­द­य­स्त­था­भ­व­न्नि­त्य­भे­द­श्रु­त्यर्थः ।

ते प्राणादभिन्नाः, प्राण­प­द­वा­च्य­त्वात् , प्राणवदित्याह -
प्राणेति ।

ते प्राणाः श्रेष्ठादन्यत्र अन्ये इति प्रति­ज्ञा­र्थ­त्वेन पदत्रयं व्याचष्टे -
तत्त्वा­न्त­रा­ण्ये­वेति ।
तद्व्य­प­दे­शा­दि­त्यत्र तच्चब्दः प्रति­ज्ञा­ता­न्यत्वं परामृशति ।

प्राणा इन्द्रि­या­णी­त्य­प­र्या­य­श­ब्दा­भ्या­म­न्य­त्वो­क्ते­रिति हेतू­प­पा­द­ना­र्थ­त्वेन पुनस्तानि सूत्रपदानि योजयति -
क इत्यादिना ।
सूत्रस्य विश्व­तो­मु­ख­त्वा­दु­भ­या­र्थ­त्व­म­ल­ङ्कार एव न दूषणम् । एतेन प्रति­ज्ञा­ध्या­हारः तच्छ­ब्द­स्या­प्र­कृ­त­भे­द­प­रा­म­र्शित्वं चेति दोषद्वयमपास्तम् ।

शब्द­भे­दा­द्व­स्तु­भे­द­सा­ध­नेऽ­ति­प्र­सङ्गं शङ्कते -
नन्विति ।
प्राणवन्मनसोऽपि इन्द्रियेभ्यो भेदः स्यादित्यर्थः ।

अप­र्या­य­सं­ज्ञा­भे­दा­त्स्व­त­न्त्र­सं­ज्ञि­व­स्तु­भेद इत्युत्सर्गः । स च 'मनः षष्ठा­नी­न्द्रि­याणि' इत्या­दि­स्मृ­ति­बा­धा­न्म­न­स्य­पो­द्यते, प्राणे तु बाध­का­भा­वा­दु­त्स­र्ग­सि­द्धि­रिति समाधत्ते -
सत्यमित्यादिना ।
मन इन्द्रियाणि चेति भेदो­क्ति­र्गो­ब­ली­व­र्द­न्या­येन नेया । सिद्धान्ते मनसः प्रमो­पा­दा­न­त्वा­दा­त्म­व­द­नि­न्द्रि­य­त्व­मिष्टं ततो नोत्सर्गबाध इति केचित् ।

किञ्च 'एत­स्मा­ज्जा­यते प्राणो मनः सर्वेन्द्रियाणि च' इति पृथ­ग्ज­न्म­व्य­प­दे­शा­त्स्व­त­न्त्र­व­स्तु­भेद इत्याह -
व्यप­दे­श­भे­द­श्चा­य­मिति ।
एकस्मिन् वाक्ये प्राण इन्द्रि­य­श­ब्द­मै­क्या­ल्ल­भते पुनरुक्तिभयान्न लभते चेति व्याघात इत्यर्थः ॥१७॥

एवं भेदे­ना­प­र्या­य­सं­ज्ञा­भ्या­मुक्तेः पृथ­ग्ज­नो­क्ते­श्चेति तद्व्यपदेशादिति हेतु­र्व्या­ख्यातः । भेदश्रुतेरिति सूत्रेण प्रकरणभेदो हेतुरुक्त इति न पौनरुक्त्यम् । ते ह देवाः शास्त्री­ये­न्द्रि­य­म­नो­वृ­त्ति­रूपा असुराणां पाप­वृ­त्ति­रू­पाणां जया­र्थ­मु­द्गी­थ­क­र्मणि प्रथमं व्यापृतां वाचमूचुस्तन्न उद्गा­या­सु­र­ना­शा­र्थ­मिति तथा­स्त्वि­त्य­ङ्गी­कृ­त्यो­द्गा­यन्तीं वाचमनृतादिदोषेण विध्वं­सि­त­व­न्तोऽ­सुरा इत्येवं क्रमेण सर्वे­ष्वि­न्द्रि­येषु पापग्रस्तेषु पश्चादथेति प्रकरणं विच्छिद्य प्रसिद्धमास्ये भवमासन्यं मुख्यं प्राणमूचुस्तन्न तद्गायेति तेन प्राणे­नो­द्गात्रा निर्विषयतया सङ्ग­दो­ष­शू­न्ये­ना­सुरा नष्टा इत्यसुराणां विध्वंसिनो मुख्य­प्रा­ण­स्यो­क्ते­र्भे­द­सि­द्धि­रि­त्याह -
ते हेति ।
तानि त्रीण्य­न्या­न्या­त्मने स्वार्थं प्रजापतिः कृतवानित्यर्थः ॥१८॥

विरु­द्ध­ध­र्म­व­त्त्वाच्च भेद इत्याह -
वैल­क्ष­ण्या­च्चेति ।
मृत्यु­रा­स­ङ्ग­दोषः । वाग्दध्रे व्रतं धृतवतीत्यर्थः । बहु­भि­र्भे­द­लि­ङ्गै­र्वि­रो­धा­द्वा­गा­दीनां प्राणरूपभवनं प्राणा­धी­न­स्थि­ति­क­त्व­रूपं व्याख्येयम् । एतदेव प्राण­श­ब्द­स्ये­न्द्रि­येषु लक्षणाबीजं श्रुतौ 'तस्मादेत एते­ना­ख्या­यन्त' इति परामृष्टम् , इति न भेदा­भे­द­श्रु­त्यो­र्वि­रोध इति सिद्धम् ॥१९॥