अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

पारिप्लवाधिकरणम्

पारिप्लवार्थाः ।

अश्वमेधे पुत्रा­दि­प­रि­वृ­ताय राज्ञे पारि­प्ल­व­मा­च­क्षी­तेति नाना­वि­धा­ख्या­न­क­थ­ना­त्मकः पारिप्लवप्रयोगो विहितः । तथा च वेदा­न्त­स्थ­क­था­ना­मा­ख्या­न­त्व­सा­मा­न्या­द्वि­द्या­सं­नि­धा­नाच्च संशयमाह -
किमिति ।
पूर्वं स्तुत्यपेक्षया विझि­र्ज्या­या­न­नु­ष्ठा­न­ला­भा­दि­त्यु­क्तम् । तथैव कथानां न विद्या­स्ता­व­कत्वं पारि­प्ल­वा­नु­ष्ठा­न­ला­भा­दिति पूर्वपक्षः ।

तत्र फलमाह -
ततश्चेति ।
यथा देवस्य त्वा सवि­तु­रि­त्या­दि­मन्त्रे कस्यचित्पदस्य प्रयो­ग­स­म­वे­ता­र्थ­तया शेषस्य प्रयोगाङ्गत्वं तथा वेदा­न्त­स्थ­क­थानां प्रयोगशेषत्वम् । तदेकवाक्यतया सर्ववेदान्तानां कर्मशेषत्वान्न विद्या­प्रा­धा­न्य­मि­त्यर्थः ।

कथानां गुरु­शि­ष्य­स­मा­चा­र­प्र­द­र्श­नेन बुद्धि­सौ­क­र्य­द्वारा संनि­हि­त­वि­द्या­शे­षत्वं साम­र्ध्य­लि­ङ्गा­दतो विद्या­प्रा­धा­न्य­मिति फलं मत्वा सिद्धान्तयति -
तन्नेत्यादिना ।
अश्वमेधे प्रथमऽहनि मनुर्वैवस्वत इति कथां ब्रूया­द्द्वि­ती­येऽ­हनि यमो वैवस्वत इति तृतीयेऽहनि वरुण आदित्य इति वाक्यशेषे कथानां विशि­ष्यो­क्त­त्वा­दु­प­क्र­मस्य संकोचो युक्त इति भावः ॥२३॥

क्व तर्हि कथानांविनियोग इत्याशङ्क्य संनि­धा­ना­द्वि­द्या­स्वि­त्याह -
तथा चेति ।
प्ररोचनं प्रीतिजननं स प्रजा­प­ति­र्व­पा­मु­द­खि­द­थो­मा­यो­द्धृ­त­वा­नि­त्यस्य प्राजापत्यमजं तूपरमालभेतेति विधिशेषत्वे एवमन्येषां तत्त­द्वि­धि­शे­षत्वं द्रष्टव्यम् ॥२४॥