अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

तदधिगमाधिकरणम्

यथोपासकानां यावज्जीवं कर्तव्यमस्ति न तथात्मविदामिति कर्मक्षयलक्षणां जीवन्मुक्तिमाह -
तदधिगम इति ।

ज्ञानसाधनेषु फलाधिक्यार्थं फलाध्यायेऽपि साधनविचारः कृतः, सम्प्रति फलाध्यायस्था फलचिन्ता क्रियत इत्याह -
गत इति ।
कर्मणां फला­न्त­त्व­शा­स्त्रा­ज्ज्ञा­न­ना­श्य­त्व­शा­स्त्राच्च संशयः, पूर्वपक्षे ज्ञानिनोऽपि सञ्चि­त­पा­प­भो­गा­न­न्तरं मुक्तिः, सिद्धान्ते तु ज्ञानसमकालं पाप­ना­शा­ज्जी­व­न्मु­क्ति­रिति फलम् । न हिंस्या­दि­त्या­दि­नि­षे­ध­श्रुत्या दुरितादृष्टस्य दुःखदायिनी शक्तिरधिगता । 'नाभुक्तं क्षीयते कर्म' इति च स्मरन्ति । अतः फलान्तमेव पापं न मध्ये नश्यतीति पूर्वपक्षः । ननु तर्हि तन्नाशार्थं प्राय­श्चि­त्त­वि­धिर्न स्यादिति चेत् । न । यथा आहि­ता­ग्ने­र्गृ­ह­दाहे निमित्ते सति 'अग्नये क्षामवते पुरो­डा­श­म­ष्टा­क­पालं निर्वपेत्' इति इष्टि­वि­धि­स्त­द्व­द्दोषे निमित्तमात्रे सति प्राय­श्चि­त्त­वि­धे­र्दो­ष­ना­शा­र्थ­त्वा­सिद्धेः ।

ननु विषम उपन्यासः, युक्तं गृहदाहस्य सिद्ध­त्वा­द­यो­ग्य­त्वा­च्चा­फ­ल­तया निमि­त्त­मा­त्रत्वं दोष­वा­न्प्रा­य­श्चित्तं कुर्यादित्यत्र तु मलिनः स्नाया­दि­ति­व­द्दो­ष­प­दस्य निवृत्तिद्वारा फलपरत्वसम्भवात् 'तरति ब्रह्महत्यां योऽश्वमेधेन यजते' इति प्राय­श्चि­त्ता­त्पा­प­नि­वृ­त्ति­श्रु­ते­श्चा­युक्तं प्रायश्चित्तस्य नैमि­त्ति­क­त्व­मि­त्यत आह -
अपि चेति ।
ज्ञानस्य दोषनाशार्थतया विधानं नास्ति 'क्षीयन्ते चास्य कर्माणि' इत्या­दे­र्ज्ञा­न­स्ता­व­क­मा­त्र­त्वा­दि­त्यर्थः ।

कर्मभोगानन्तरं देशकालान्तरे मोक्षो भविष्यति शास्त्र­प्रा­मा­ण्या­दि­त्याह -
नेत्युच्यत इति ।

ज्ञाना­त्क­र्म­क्ष­य­स्या­पू­र्व­त्वा­न्मा­ना­न्त­र­वि­रु­द्ध­त्वाच्च तत्प­रा­ने­क­वा­क्यानां स्ताव­क­त्वा­यो­गा­त्त­स्या­स्ति­त्व­मिति सिद्धान्तयति -
एवमित्यादिना ।
पाप­क्रि­या­तोऽ­पू­र्वा­नु­त्प­त्ति­र­श्लेषः ।

सगु­ण­ब्र­ह्म­वि­द्यायां व्यपदेशमुक्त्वा निर्गुणायां तमाह -
अयमपर इति ।

परोक्तं दूषयति -
यदु­क्त­मि­त्या­दिना ।
विधि­नि­षे­ध­शास्त्रं 'नाभुक्तं क्षीयते' इत्यादि, स्मृतिश्च कर्मणः फलशक्तौ प्रमाणमतः शक्तस्यापि कुत­श्चि­न्ना­शा­ङ्गी­का­रेण शास्त्रविरोध इत्यर्थः ।

तत्त्व­ज्ञा­न­मा­त्म­न्य­शे­ष­दु­रि­त­ना­शकं तन्मू­ला­ध्या­स­बा­ध­क­त्वा­त्स्व­प्न­दु­रि­त­मू­ल­क­र्तृ­त्वा­ध्या­स­बा­ध­क­जा­ग्र­द्बो­ध­व­दि­त्याह -
तथा­प्य­क­र्त्रा­त्म­बो­धा­दिति ।

श्रुतार्थमेव युक्त्या द्रढयति -
अश्लेष इति चेति ।
मूला­ध्या­सा­नु­त्पत्तेः पापस्याश्लेषः, तन्ना­शा­त्त­द्वि­नाश इत्यर्थः ।

अध्यासाभावे विद्वदनुभवमाह -
पूर्वेति ।

मोक्ष­शा­स्त्र­ब­लाच्च ज्ञाना­त्क­र्म­क्ष­य­सि­द्धि­रि­त्याह -
एवमेवेति ।
ज्ञाना­त्क­र्म­क्षये सत्येवेत्यर्थः ।

मोक्षस्य कर्म­फ­ल­सा­म्य­मुक्तं निरस्यति -
न चेति ॥१३॥