भाष्यरत्नप्रभाव्याख्या
प्रतिषेधाधिकरणम्
प्रतिषेधादिति चेन्न शारीरात् ।
पूर्वमनुपोष्येति पदेन दग्धाशेषक्लेशस्य निर्गुणज्ञानिन उत्क्रान्त्याद्यभावः सूचितस्तस्यात्राक्षिप्य समाधानाद्व्यवहितेनास्य सङ्गतिरित्याह -
अमृतत्वं चेति ।
सकामस्य संसारोक्त्यनन्तरं निष्कामस्य मुक्तिप्रकरणार्थोऽथशब्दः आत्मकामत्वात्पूर्णानन्दात्मवित्त्वादाप्तकामः प्राप्तपरमानन्दः, अतो निष्कामः अनभिव्यक्तान्तरवासनात्मककामशून्यः, तस्मादकामः व्यक्तबहिष्कामरहितः, ईदृशो योऽकामयमानस्तस्येत्यन्वयः ।
ज्ञानिन उत्क्रान्तिरस्ति न वेति पञ्चमीषष्ठीश्रुतिभ्यां सन्देहे सिद्धान्तिशङ्कानिरासपूर्वकं पूर्वपक्षयति -
नेत्यादिना ॥१२॥
काण्वश्रुतौ तावत्तस्येति सर्वनाम्ना प्रकृतं ज्ञानिनं परामृश्य सम्बन्धसामान्यमुक्तं तत्र माध्यन्दिनशाखायां तस्मादित्यपादानत्वरूपविशेष उक्तो ग्राह्यस्तथा च जीवात्प्राणोत्क्रान्तिप्रतिषेधो भाति न देहात्तच्छब्देन देहस्यानुक्तेस्तस्माज्ज्ञानिनोऽप्युत्क्रान्तिरस्तीति ज्ञानवैयर्थ्यमिति पूर्वपक्षफलम् । सिद्धान्ते तत्सार्थक्यमाह -
स्पष्टो हीति ।
अत्र पुरुषशब्दवाच्यो देह एवस्मादित्युत्क्रान्त्यवधिरुच्यते । सशब्दपरामृष्टस्य प्रकृतस्य पुरुषस्योच्छ्वयनादिधर्मकस्य जीवत्वायोगादित्यर्थः । उच्छ्वयति बाह्यवायुपूरणाद्वर्धते, आध्मायति आर्द्रभेरीवच्छब्दं करोतीत्यर्थः । येषां पञ्चमीपाठस्तेषां यद्यपि देहिनः प्राधान्यं तथापि देहदेहिनोरभेदात्तस्मादिति देहं परामृश्य तदापादन एवोत्क्रान्तिप्रतिषेध इति व्याख्येयम् । तत्सामान्यादुक्तश्रुत्यास्य पाठस्यैकार्थत्वादिति योजना ।
इदानीं काण्वपाठस्यानुगुण्यमाह -
येषां तु षष्ठीपाठ इति ।
सम्बन्धविशेषाकाङ्क्षायां भोक्ता प्राणानां भोगोपकरणत्वविशेषोऽत्रैव प्राणमयो मनोमयः इति पूर्वश्रुत्युक्तो ग्राह्यः । न शाखान्तरस्थमपादानत्वं ग्राह्यं जीवादुत्क्रान्तेरप्राप्तायाः प्रतिषेधायोगात् । अतो विद्वत्सम्बन्धिप्राणानामुत्क्रान्त्यपादानापेक्षायां चक्षुष्टो वा मूर्ध्नो वेत्युक्तदेहप्रदेशा एव ग्राह्याः । तथा चायमर्थः - तस्य विदुषो भोगोपकरणात्मकाः प्राणाः देहप्रदेशेभ्यो नोत्क्रामन्तीति । एवं च प्राप्तोत्क्रान्तिनिषेधार्थत्वं वाक्यस्येति सर्वं चतुरस्रम् । अपि चेति स्पष्टार्थम् । सम्यगात्मभावेन भूतानि पश्यतः अपदस्य प्राप्यपदरहितस्य पदैषिणो देवा अपि मार्गे मुह्यन्ति मार्गं न जानन्ति तदभावादिति स्मृतियोजना ।
समृत्यन्तरविरोधं शङ्कते -
ननु गतिरपीति ।
सगुणविद्याबलेनैषा गतिरिति परिहरति -
सशरीरस्येति ।
ननु तर्हि 'तयोर्ध्वमायन्नमृतत्वमेति', 'स एवैतान्ब्रह्म गमयति' इत्यादिश्रुतीनां का गतिः, तत्राह -
गतीति ॥१३ ॥ ॥१४॥