अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

प्रतिषेधाधिकरणम्

प्रतिषेधादिति चेन्न शारीरात् ।

पूर्व­म­नु­पो­ष्येति पदेन दग्धा­शे­ष­क्ले­शस्य निर्गुणज्ञानिन उत्क्रा­न्त्या­द्य­भावः सूचि­त­स्त­स्या­त्रा­क्षिप्य समा­धा­ना­द्व्य­व­हि­ते­नास्य सङ्गतिरित्याह -
अमृतत्वं चेति ।
सकामस्य संसा­रो­क्त्य­न­न्तरं निष्कामस्य मुक्ति­प्र­क­र­णा­र्थोऽ­थ­शब्दः आत्म­का­म­त्वा­त्पू­र्णा­न­न्दा­त्म­वि­त्त्वा­दा­प्त­कामः प्राप्त­प­र­मा­नन्दः, अतो निष्कामः अन­भि­व्य­क्ता­न्त­र­वा­स­ना­त्म­क­का­म­शून्यः, तस्मादकामः व्यक्त­ब­हि­ष्का­म­र­हितः, ईदृशो योऽका­म­य­मा­न­स्त­स्ये­त्य­न्वयः ।

ज्ञानिन उत्क्रा­न्ति­रस्ति न वेति पञ्च­मी­ष­ष्ठी­श्रु­तिभ्यां सन्देहे सिद्धा­न्ति­श­ङ्का­नि­रा­स­पू­र्वकं पूर्वपक्षयति -
नेत्यादिना ॥१२॥

काण्वश्रुतौ तावत्तस्येति सर्वनाम्ना प्रकृतं ज्ञानिनं परामृश्य सम्ब­न्ध­सा­मा­न्य­मुक्तं तत्र माध्य­न्दि­न­शा­खायां तस्मा­दि­त्य­पा­दा­न­त्व­रू­प­वि­शेष उक्तो ग्राह्यस्तथा च जीवा­त्प्रा­णो­त्क्रा­न्ति­प्र­ति­षेधो भाति न देहात्तच्छब्देन देह­स्या­नु­क्ते­स्त­स्मा­ज्ज्ञा­नि­नोऽ­प्यु­त्क्रा­न्ति­र­स्तीति ज्ञान­वै­य­र्थ्य­मिति पूर्वपक्षफलम् । सिद्धान्ते तत्सार्थक्यमाह -
स्पष्टो हीति ।
अत्र पुरुषशब्दवाच्यो देह एव­स्मा­दि­त्यु­त्क्रा­न्त्य­व­धि­रु­च्यते । सश­ब्द­प­रा­मृ­ष्टस्य प्रकृतस्य पुरु­ष­स्यो­च्छ्व­य­ना­दि­ध­र्म­कस्य जीव­त्वा­यो­गा­दि­त्यर्थः । उच्छ्वयति बाह्य­वा­यु­पू­र­णा­द्व­र्धते, आध्मायति आर्द्र­भे­री­व­च्छब्दं करोतीत्यर्थः । येषां पञ्च­मी­पा­ठ­स्तेषां यद्यपि देहिनः प्राधान्यं तथापि देह­दे­हि­नो­र­भे­दा­त्त­स्मा­दिति देहं परामृश्य तदापादन एवो­त्क्रा­न्ति­प्र­ति­षेध इति व्याख्येयम् । तत्सा­मा­न्या­दु­क्त­श्रु­त्यास्य पाठ­स्यै­का­र्थ­त्वा­दिति योजना ।

इदानीं काण्व­पा­ठ­स्या­नु­गु­ण्य­माह -
येषां तु षष्ठीपाठ इति ।
सम्ब­न्ध­वि­शे­षा­का­ङ्क्षायां भोक्ता प्राणानां भोगो­प­क­र­ण­त्व­वि­शे­षोऽ­त्रैव प्राणमयो मनोमयः इति पूर्व­श्रु­त्युक्तो ग्राह्यः । न शाखा­न्त­र­स्थ­म­पा­दा­नत्वं ग्राह्यं जीवा­दु­त्क्रा­न्ते­र­प्रा­प्तायाः प्रतिषेधायोगात् । अतो विद्व­त्स­म्ब­न्धि­प्रा­णा­ना­मु­त्क्रा­न्त्य­पा­दा­ना­पे­क्षायां चक्षुष्टो वा मूर्ध्नो वेत्यु­क्त­दे­ह­प्र­देशा एव ग्राह्याः । तथा चायमर्थः - तस्य विदुषो भोगोपकरणात्मकाः प्राणाः देहप्रदेशेभ्यो नोत्क्रामन्तीति । एवं च प्राप्तो­त्क्रा­न्ति­नि­षे­धा­र्थत्वं वाक्यस्येति सर्वं चतुरस्रम् । अपि चेति स्पष्टार्थम् । सम्यगात्मभावेन भूतानि पश्यतः अपदस्य प्राप्य­प­द­र­हि­तस्य पदैषिणो देवा अपि मार्गे मुह्यन्ति मार्गं न जानन्ति तदभावादिति स्मृतियोजना ।

समृ­त्य­न्त­र­वि­रोधं शङ्कते -
ननु गतिरपीति ।

सगु­ण­वि­द्या­ब­ले­नैषा गतिरिति परिहरति -
सशरीरस्येति ।

ननु तर्हि 'तयो­र्ध्व­मा­य­न्न­मृ­त­त्व­मेति', 'स एवैतान्ब्रह्म गमयति' इत्या­दि­श्रु­तीनां का गतिः, तत्राह -
गतीति ॥१३ ॥ ॥१४॥