अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

अन्याधिष्ठिताधिकरणम्

अन्याभिलापात् ।
श्रुतिक्रमात् अर्थ­क्र­मा­च्चा­धि­क­र­णानां क्रमो बोध्यः । इह भूमौ वर्षधाराद्वारा पति­ता­स्तेऽ­नु­श­यिनो व्रीह्या­दि­सा­म्येन जायन्त इति श्रुत्यर्थः ।

अत्र जायन्त इति श्रुतेः पूर्व­त्रा­का­शा­दि­व­र्षा­न्त­सा­दृ­श्यो­क्तेश्च संशयमाह -
तत्रेति ।
अस्मिन्नवधौ वर्ष­सा­दृ­श्या­न­न्त­र­मि­त्यर्थः ।

दुर्नि­ष्प्र­प­त­र­श­ब्देन चिर­नि­र्ग­ल­न­ल­क्ष­णोक्ता न युक्ता, दुःखेन निर्गमनमिति मुख्य­सं­भ­वा­दि­त्या­क्षे­प­स­ङ्गत्या पूर्वपक्षयति -
किं तावदित्यादिना ।
अत्र पूर्वपक्षे स्थाव­र­त्व­नि­वृ­त्त­येऽ­धि­का­रिणां यत्नगौरवं, सिद्धान्ते व्रीह्या­दि­सं­श्ले­ष­मात्रं परिहर्तुं यत्नलाघवं वैराग्यदार्ढ्यं चेति विवेकः ।

ननु देहोत्पत्त्या जीवानां जन्म स्यान्न स्वतः, व्रीह्यादेस्तु न देहत्वमित्यत आह -
स्थावरभावस्येति ।
'स्थाणु­म­न्येऽ­नु­सं­यन्ति' इत्याद्या श्रुतिः । 'शरीरजैः कर्मदोषैर्याति स्थावरतां नरः' इत्याद्या स्मृतिः ।

ननु स्वर्गिणां पापाभावात्कथं स्थावरत्वं, तत्राह -
पश्विति ।
सोमा­द्यु­च्छि­ष्ट­भ­क्ष­ण­सु­रा­ग्र­हा­वा­दि­श­ब्दार्थः । क्रत्व­र्थ­हिं­सा­दे­रपि हिंसा­त्वा­दि­सा­मा­न्येन प्रवृत्तेर्न हिंस्या­दि­त्या­दि­शा­स्त्र­नि­षि­द्ध­त्वा­का­रेण दुरि­ता­पू­र्व­का­रि­त्व­म­वि­रु­द्ध­मिति साङ्ख्या आहुः ।

श्रुतोऽत्र व्रीह्या­दि­भा­वोऽ­नु­श­यिनां न जन्यरूपः कर्म­वि­शे­ष­प­रा­मर्शं विना­त्रो­क्त­त्वात्, पूर्वो­क्ता­का­शा­दि­भा­व­व­दिति सिद्धान्तयति -
एवं प्राप्त इत्यादिना ।

पूर्ववदिति पदं दृष्टान्तत्वेन हेत्वंशत्वेन च व्याख्यातं यदत्र प्रकरणे कर्म­वि­शे­ष­प­रा­म­र्श­पू­र्व­क­मु­च्यते तज्जन्मेति व्यति­रे­क­दृ­ष्टा­न्त­म­प्याह -
यत्र त्विति ।

अपिच 'यो यो ह्यन्नमत्ति यो रेतः स्त्रियां सिञ्चति तद्भूय एव भवति' इति वाक्यशेषे व्रीह्यादिषु प्रवि­ष्ट­स्या­नु­श­यि­सं­घ­स्या­न्न­द्वारा रेतः­सि­क्पु­रु­ष­योगः श्रुत­स्त­द­न्य­था­नु­प­प­त्त्यापि जन्मश्रुतिर्न मुख्येत्याह -
अपिचेत्यादिना ।
व्रीह्या­दि­रू­प­दे­ह­नाशे देहि­ना­मु­क्ता­न्ते­र­व­श्यं­भा­वा­द्रेतः सिग्योगो न स्यादित्यर्थः ।

एतेनेति ।
उक्ता­नु­मा­ना­र्था­प­त्ति­भ्याम् । जायत इति श्रुते­र्मु­ख्या­र्थ­त्व­म­नु­श­यि­भो­गा­य­त­नत्वं च व्रीह्यादेः प्रति­ब्रू­या­दि­त्यर्थः ।

ननु व्रीह्या­दे­र्भो­गा­य­त­न­त्वा­न­ङ्गी­कारे पूर्वो­क्त­श्रु­ति­स्मृ­ति­प्र­सि­द्धि­बाध इत्यत आह -
न चेति ॥२४॥

वैदिकं कर्माशुद्धं न भवति शास्त्र­वि­हि­त­त्वा­दिति सूत्रार्थं प्रपञ्चयति -
अयं धर्म इत्यादिना ।
शुचौ देशे प्रातः सायङ्काले जीवनादिनिमित्ते कृतमग्निहोत्रं धर्मो भवति स एवाशुचिदेशे मध्यरात्रे मरणादिनिमित्ते कृतः सन्नधर्मो भवतीति निर्णयः शास्त्रैकसाध्य इत्यर्थः ।

ततः किं तत्राह -
शास्त्राच्चेति ।

ननु या हिंसा सोऽधर्म इत्युत्सर्गस्य विशेषविधिना बाधोऽत्र न युक्तः । नाभिचरेदिति निषिद्धश्येनस्य पुरुषार्थत्ववत् निषि­द्ध­हिं­सा­दे­रपि क्रतू­प­का­र­क­त्वा­वि­रो­धा­दिति, तत्राह -
उत्स­र्गा­प­वा­द­यो­रिति ।
अयमर्थः काम्ये कर्मणि सर्वत्र करणांशे रागतः प्रवृत्तिः, अङ्गेषु विधित इति स्थितिः । तथाच श्येनाख्ये कर्मणि निषेधेऽपि राग­प्रा­ब­ल्या­त्प्र­वृत्तिः स्यात्क्र­त्व­ङ्ग­हिं­सादौ तु विधित एव प्रवृ­त्ति­र्वाच्या । स च विधि­र्य­द्यु­त्स­र्ग­प्रा­प्त­म­न­र्थ­हे­तुत्वं न बाधेत तर्हि प्रवर्तको न स्यात्, प्रवर्तकत्वे वा विधिरनर्थाय स्यात्, अतो निरवकाशो विधिः साव­का­श­मु­त्स­र्ग­म­वि­हि­त­हिं­सा­दिषु स्थापयतीति । इदं च निषेधशास्त्रस्य हिंसा­त्वा­दि­सा­मा­न्येन प्रवृ­त्ति­म­ङ्गी­कृ­त्यो­क्तम् । वस्तुतस्तस्य राग­प्रा­प्त­हिं­सा­वि­ष­य­त्वा­द्वै­ध­हिं­सा­या­म­प्र­वृ­त्ते­र्ना­शु­द्ध­त्व­श­ङ्का­व­सर इति द्रष्टव्यम् । प्रतिरूपं दुःखरूपं तस्य फलं नेति योजना । इह व्रीह्यादिभावे कश्चिदधिकारः कर्मपरामर्शो नास्तीत्युक्तम् ॥२५॥

अथ व्रीह्या­दि­भा­वा­न­न्तरं रेतः सिग्भावः श्रुतः । तत्रा­न्न­स्था­नु­श­यिनो रेतः सेक­क­र्तृ­त्वा­यो­गा­द्यो­ग­मात्रं वाच्यं तद्वदुपक्रमेऽपि योग एवास्थेयः, अन्य­थो­प­क्र­मो­प­सं­हा­र­यो­र्वि­रोधः स्यादिति मत्वोक्तम् -
इत्यविरोध इति ॥२६॥

योनेः शरीरश्रुतेर्न व्रीह्या­दि­श­री­र­त्व­म­नु­श­यि­ना­मिति सूत्रार्थः । एवं कर्मिणां गत्यागतिसंसारो दुर्वार इत्य­नु­स­न्धा­ना­त्क­र्म­फ­ला­द्वै­राग्यं तत्त्व­ज्ञा­न­सा­धनं सिद्धमिति पादा­र्थ­मु­प­सं­ह­रति -
इति सिद्धमिति ॥२७॥
इति श्रीम­द्प­र­म­हं­स­प­रि­व्रा­ज­का­चार्य श्रीम­द्गो­वि­न्द­भ­ग­व­त्पा­द­कृतौ शारी­र­क­मी­मां­सा­ख्यायां भाष्य­र­त्न­प्र­भायां तृतीयाध्यायस्य प्रथमः पादः ॥