अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

तडिदधिकरणम्

एवं कौषी­त­कि­भि­र­ग्न्य­न­न्तरं पठितस्य वायोः स्थानमुक्त्वा वाय्वनन्तरं पठितस्य वरु­ण­स्या­र्चि­रा­दि­मार्गे स्थानमाह -
तडितोऽधि वरुणः सम्बन्धात् ।

पठितो वरु­णा­दि­र्मा­र्ग­प­र्व­त्वेन सम्बध्यते न वेति सन्दे­हेऽ­र्चि­षोऽ­ह­रि­त्यादि पञ्च­म्या­र्चि­रा­दीनां क्रमेण मार्गपर्वतया बद्ध­त्वा­द्वा­यो­रिव स्थान­वि­शे­ष­श्रु­त्य­भा­वा­द­ल­ब्ध­स्थानो वरुणादिर्न सम्बध्यत इति प्राप्ते सिद्धान्तमाह -
आदित्यादिति ।

अपां विद्यु­त्का­र्य­त्वेन सम्बन्धे मानमाह -
विद्योतत इति ।
वरु­ण­स्या­ब्द्वारा विद्यु­त्स­म्ब­न्धात् 'आग­न्तु­का­ना­मन्ते निवेशः' इति न्यायाच्च विद्यु­दा­न­न्तर्ये सति यथा­पा­ठ­मि­न्द्र­प्र­जा­पत्योः क्रम इत्यर्थः ॥३॥