अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

तक्षाधिकरणम्

यथा च तक्षोभयथा ।

उक्तमात्मनः कर्तृ­त्व­मु­प­जीव्य संश­य­पू­र्व­प­क्षा­वाह -
एवं तावदित्यादिना ।

साङ्ख्य­नि­रा­से­ना­त्मनः कर्तृत्वे साधिते बाध­का­भा­वा­त्त­त्स­त्य­मिति मीमांसकादिपक्षः प्राप्तः । न चासङ्गत्वागमेन बाधः, अहं कर्ते­त्य­नु­भ­व­स­हि­त­क­र्तृ­त्व­श्रु­ति­ब­लेन तस्यागमस्य स्तावकत्वादिति प्राप्त उत्सूत्रमेव सिद्धान्तयति -
न स्वाभाविकमिति ।

यदुक्तं बाधकाभावादिति तदसिद्धमित्याह -
अनिर्मोक्षेति ।

ननु कर्तृत्वं नाम क्रिया­श­क्ति­र्मु­क्ता­व­प्यस्ति तथापि शक्तिकार्यस्य क्रिया­रू­प­श­क्य­स्या­भा­वा­न्मुक्तेः पुरु­षा­र्थ­त्व­सि­द्धि­रिति शङ्कते -
ननु स्थितायामिति ।

सत्यां शक्तौ कथं कार्यपरिहारः, तत्राह -
तत्परिहारश्चेति ।
मुक्तौ शक्तिसत्त्वे कार्यमपि स्यात् , शक्याभावे शक्त्ययोगात् ।

अस्ति हि प्रलयेऽपि कार्यं पुनरुद्भवयोग्यं सूक्ष्मं शक्यम् , तथा च शक्त्या धर्मा­दि­नि­मित्तैः सहि­त­का­र्या­क्षे­पा­न्मु­क्ति­लोप इति परिहरति -
न निमित्तानामपीति ।
सनिमित्तस्य कार्यस्य शक्यत्वेन शक्त्या सम्ब­न्धा­न्न­मि­त्ता­ना­मपि परम्परया शक्ति­स­म्ब­न्धि­त्व­मुक्तं मन्तव्यम् । सम्बन्धेन सम्ब­न्धि­ने­त्यर्थः । यद्वा शक्ति­र्ल­क्ष­ण­मा­क्षे­पकं यस्य कार्यस्य तेन कार्येण यः सम्बन्धस्तेनेति व्यधिकरणे तृतीये ।

ननु नरस्य कर्मणा देव­त्व­व­च्छा­स्त्र­ब­ला­त्क­र्तु­रे­वा­क­र्तृ­ता­सि­द्धि­रिति शङ्कते -
नन्विति ।
ज्ञाना­द­क­र्तृ­त्वा­ख्य­मो­क्ष­श्चे­त्क­र्तृ­त्व­मा­वि­द्यकं स्याद्यतो ज्ञान­म­ज्ञा­न­स्यैव निवर्तकम् ।

यदि कर्मणा मोक्षः तत्राह -
नेति ।

आत्मनः स्वाभाविकं कर्तृ­त्व­म­भ्यु­प­ग­म्या­नि­र्मोक्ष उक्तः । सम्प्र­त्य­स­ङ्ग­नि­र्वि­का­र­त्वा­ने­क­श्रु­ति­व्या­को­पा­त्तन्न स्वाभा­वि­क­मि­त्याह -
अपि चेति ।
न चाभ्य­स्ता­ने­क­श्रु­तीनां स्तावकत्वकल्पनं युक्तम् , न चाहं कर्तेत्यनुभवो विरुध्यते, तस्य सत्य­मि­थ्यो­दा­सी­न­क­र्तृ­त्वा­व­गा­हि­नोऽ­ध्या­स­त्वे­ना­प्यु­प­प­त्ते­रि­त्यर्थः ।

कर्तृ­त्व­स्या­ध्य­स्तत्वे श्रुतिमाह -
तथा चेति ।

विद्व­द­नु­भ­व­बा­धितं च कर्तृत्वमित्याह -
न हीति ।

बुद्ध्या­दि­स­ङ्घा­ता­द्व्य­ति­रिक्तो यदि पर­स्मा­द­न्य­श्चे­तनो न स्यात्तदा पर एव संसारी प्रसज्येत, तच्चानिष्टम् , परस्य नित्य­मु­क्त­त्व­व्या­घा­ता­दिति शङ्कते -
पर एवेति ।
न वयं शुद्धस्य चिद्धातोः परस्य बन्धं वदामः, किन्तु तस्यै­वा­वि­द्या­बु­द्ध्या­दि­प्र­ति­बि­म्बि­त­स्या­वि­द्यया भिन्नस्य जीवत्वं प्राप्तस्य बन्धमोक्षाविति ब्रूमः ।

कल्पितभेदोऽपि लोके बिम्ब­प्र­ति­बि­म्ब­यो­र्ध­र्म­व्य­व­स्था­पको दृष्ट इति परिहरति -
नाविद्येति ।

अविद्योपहिते बन्धो न शूद्धा­त्म­नी­त्यत्र श्रुतिमाह -
तथा चेति ।

कर्तृत्वस्य बुद्ध्यु­पा­ध्य­न्व­य­व्य­ति­रे­का­नु­वि­धा­यि­त्वा­च्छ्रु­तेश्च न स्वाभा­वि­क­त्व­मि­त्याह -
तथा स्वप्नेति ।

आत्मैव काम्यते आन­न्द­त्वा­दि­त्या­त्म­कामं स्वरूपं स्वाति­रि­क्त­का­म्या­स­त्त्वा­द­का­मम् , आत्म­का­म­त्वा­द­का­म­त्वा­च्चा­प्त­कामं विशो­क­त्वा­च्चे­त्याह -
शोकेति ।
शोकान्तरं दुःखा­स्पृ­ष्ट­मि­त्यर्थः ।

तस्यैव सुषु­प्ता­त्म­रू­पस्य पर­म­पु­रु­षा­र्थ­ता­माह -
एष इति ।
गतिः प्राप्यम् , सम्पदैश्वर्यं लोको बोग्यं सुखम् , चैत­स्मा­द­न्य­त्रा­स्ती­त्यर्थः ।

आत्मा स्वतोऽकर्ता बुद्ध्या­द्यु­पा­धिना तु कर्ते­त्यु­भ­य­था­भाव उक्तः । तत्रार्थे सूत्रं योजयति -
तदे­त­दा­हे­त्या­दिना ।
सम्प्रसादः सुषुप्तिः । यथा स्फटिकस्य लौहित्यं कुसु­मा­द्यु­पा­धिकं तथात्मनः कर्तृत्वं बुद्ध्या­द्यु­पा­धि­क­म­न्व­य­व्य­ति­रे­काभ्यां सिद्धम् । न च तौ बुद्धे­रा­त्म­क­र्तृत्वे करणत्वविषयौ नोपा­दा­न­त्व­वि­ष­या­विति युक्तम् , कर­ण­त्वा­त्का­र्या­न्व­य्यु­पा­दा­न­त्व­स्या­न्त­र­ङ्ग­तया चित्सं­व­लि­त­बु­द्धे­स्ता­भ्या­मु­पा­दा­न­त्व­स्यैव सिद्धेः, एवं चिद­भे­दे­ना­ध्य­स्त­बु­द्ध्या­ख्या­ह­ङ्का­रस्य कर्तृ­त्वो­पा­दा­न­त्वेन महा­वा­क्य­स­म्म­ति­श्चेति भावः ।

ननु तक्षा स्वहस्तादिना वास्या­दि­प्रे­र­ण­श­क्त­त्वा­त्स्वतः कर्ता आत्मा तु निरवयवत्वादशक्त इति दृष्टा­न्त­वै­ष­म्य­मा­श­ङ्क्यौ­पा­धि­क­क­र्तृ­त्वां­शेन विवक्षितेन साम्यमाह -
तक्ष­दृ­ष्टा­न्त­श्चेति ।

शास्त्रे­णा­नू­द्य­मानं कर्तृत्वं स्वाभाविकमेव किं न स्यादित्यत आह -
न च स्वाभाविकमिति ।

उपाध्यभावकाले श्रुतं कर्तृत्वं स्वाभाविकमेवेति शङ्कते -
ननु सन्ध्य इति ।

किञ्च कर­णै­र्वि­शि­ष्टस्य कर्तृत्वे तेषां कर्त्र­न्त­र्भा­वा­त्ते­ष्वपि कर्तृविभक्तिः स्यात् । न चैवमस्ति ततः केवलात्मनः कर्तृत्वमित्याह -
तथेति ।

स्वप्नविहारे ताव­दु­पा­ध्य­भा­वोऽ­सिद्ध इत्याह -
न तावत्सन्ध्य इति ।

विहारस्य मिथ्या­त्वा­त्त­त्क­र्तृ­त्व­मपि मिथ्येत्याह -
विहारोऽपीति ।
जक्षत्भुञ्जान इव ।

कर­ण­त्व­वि­शि­ष्टस्य कर्तृत्वे करणेषु कर्तृविभक्तिः स्यात् , न कर­ण­वि­भ­क्ति­रि­त्युक्तं प्रत्याह -
भवति च लोक इति ।
कर्तृष्वपि करणविभक्तिर्न विरुध्यते दृष्टत्वात् । अस्ति च कर्तृ­त्व­प्र­योगः, 'विज्ञानं यज्ञं तनुते' इत्यादाविति भावः ।

उपादानस्य सक­र्तृ­क­त्व­म­ङ्गी­कृत्य केवलात्मनः कर्तृत्वं निरस्तम् । इदानीं तस्या­क्रि­य­त्वान्न कर्त्र­पे­क्षे­त्याह -
अपि चेति ।

पूर्वं विज्ञानं जीव इत्यङ्गीकृत्य जीवस्य कर्तृत्वे तनुत इति श्रुतिरुक्ता, सम्प्रति तया श्रुत्या­नु­प­हि­ता­त्मनः कर्तृत्वमिति प्राप्तौ विज्ञानं बुद्धिरेव तस्या एवात्र कर्तृत्वमुच्यते । तदुपहितात्मनः कर्तृत्वसिद्धय इत्यभिप्रेत्याह -
यस्त्विति ।
'योऽयं विज्ञा­न­मयः' इत्यादिश्रुतिषु विज्ञानब्दस्य बुद्धौ प्रसि­द्ध­त्वा­दत्र च मनोमयकोशानन्तरं पठि­त­त्वा­च्छ्र­द्धा­दि­लि­ङ्गाच्च बुद्धिरेव विज्ञा­न­मि­त्यर्थः ।

तत्रैव लिङ्गान्तरमाह -
विज्ञानं देवा इति ।
'महद्यक्षं प्रथमजम्' इत्यादिश्रुतौ हिर­ण्य­ग­र्भ­ब्र­ह्मा­त्म­क­बु­द्धे­र्ज्ये­ष्ठ­त्वो­क्ते­रत्र देवै­रि­न्द्रि­यै­रू­पा­स्य­मानं ज्येष्ठं ब्रह्म विज्ञानं बुद्धि­रे­वे­त्यर्थः । यक्षं पूज्यम् ।

किञ्च श्रुत्यन्तरे यज्ञस्य बुद्धि­का­र्य­त्वो­क्ते­र­त्रापि यज्ञ­क­र्तृ­वि­ज्ञानं बुद्धिरित्याह -
स एष इति ।
चित्तेन ध्यात्वा वाचा मन्त्रोक्त्या यज्ञो जायते ततश्चित्तस्य वाचः पूर्वोत्तरभावो यज्ञ इत्यर्थः ।

यच्चोक्तं बुद्धेः कर्तृत्वे शक्ति­वै­प­री­त्य­प्र­सङ्ग इति । तन्न विक्लिद्यन्ते तण्डुलाः, ज्वलन्ति काष्ठानि, बिभर्ति स्थालीति स्वस्व­व्या­पा­रेषु सर्वकारकाणां कर्तृ­त्व­स्वी­का­रा­दि­त्याह -
न चेति ।

तर्हि बुद्ध्यादीनां कर्तृत्वे करणत्ववार्ता तेषु न स्यादित्यत आह -
उपलब्धीति ।
यथा काष्ठानां स्वव्यापारे कर्तृत्वेऽपि पाकापेक्षया करणत्वं तथा बुद्ध्या­दी­ना­म­ध्य­व­सा­य­स­ङ्क­ल्पा­दि­क्रि­या­क­र्तृ­त्वेऽ­प्यु­प­ल­ब्ध्य­पे­क्षया करणत्वमित्यर्थः ।

ननु तर्ह्युपलब्धिः कस्य व्यापार इत्याह -
सा चेति ।

तर्हि तस्यामात्मा केवलः कर्ता स्यात् , यस्य यो व्यापारः स तस्य कर्तेति स्थितेरित्यत आह -
न चेति ।
उप­ल­ब्धे­र्नि­त्यत्वे बुद्ध्यादीनां कथं करणत्वमुक्तमिति चेदुच्यते - अख­ण्ड­सा­क्षि­चै­तन्यं बुद्धि­वृ­त्ति­भि­र्भिन्नं सद्वि­ष­या­वा­च्छि­न्न­त्वेन जायते, तथा च विषयावच्छिन्न चैत­न्या­ख्यो­प­लब्धौ बुद्ध्यादीनां करणत्वं बुद्ध्या­द्यु­प­हि­ता­त्मनः कर्तृत्वं न केवलस्य, न च बुद्धेरेव तत्कर्तृत्वं चैतन्यस्य जड­व्या­पा­र­त्वा­यो­गा­दिति भावः ।

यच्चोक्तं बुद्धेः कर्तृत्वे स एवाहन्धीगम्यो जीव इति तस्य करणान्तरं कल्पनीयम् , तथा च नाममात्रे विवाद इति तत्र केवलात्मनः कर्तृ­त्व­मु­क्त­मिति भ्रान्तिं निरस्यति -
अहङ्कारेति ।
साङ्ख्य­नि­रा­सार्थं बुद्ध्य­भे­दे­ना­ध्य­स्त­चि­दा­त्म­का­ह­ङ्का­र­गतं कर्तृत्वं यदुक्तं तदहन्धीगम्यस्य बुद्धि­वि­शि­ष्टा­त्मन एव न केवलस्य साक्षिणो भवितुमर्हति, दृश्यधर्मस्य साक्षि­स्व­भा­व­त्वा­यो­गात् । एवं विशिष्टात्मनः कर्तृत्वे विशेषणीभूताया जडबुद्धेरेव कर­ण­त्वो­प­प­त्तेर्न कर­णा­न्त­र­क­ल्प­ना­प्र­सङ्गः । अध्यासं विना केव­ल­बु­द्धि­क­र्तृ­त्व­वा­दि­नस्तु कर­णा­न्त­र­प्र­सङ्गो दुर्वार इत्यर्थः । एवं शास्त्रा­र्थ­व­त्त्वा­दि­हे­तू­ना­मा­त्मनः कर्तृ­त्व­मा­त्र­सा­ध­क­त्वेऽपि स्वाभा­वि­क­क­र्तृ­त्व­सा­ध­न­सा­म­र्थ्या­भा­वा­द­ध्य­स्त­मेव कर्तृत्वं विध्या­दि­क­र्तृ­त्व­श्रु­ती­ना­मु­प­जी­व्यम् । तस्मा­द­स­ङ्ग­त्व­वि­ध्या­दि­क­र्तृ­त्व­श्रु­ती­ना­म­वि­रोध इति सिद्धम् ॥४०॥