अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

ऐहिकाधिकरणम्

ऐहिकमपि संन्या­सा­दि­बा­ल्यान्तं साधनजातमुक्त्वा तत्सा­ध्य­वि­द्या­जन्म विचार्यत इति संगतिं वदन् साधनस्य द्विधा फल­सं­भ­वा­त्सं­श­य­माह -
सर्वेत्यादिना ।

कारी­री­ष्टि­व­दै­हि­क­फ­ल­त्व­नि­यमः श्रवणादीनामिति पूर्वपक्षमाह -
किन्तावदिति ।

नन्वा­मु­ष्मि­क­फ­ल­क­य­ज्ञा­दि­सा­ध्य­वि­द्यायाः कथमैहिकत्वनियम इत्यत आह -
यज्ञादीन्यपीति ।
शुद्धिद्वारा यज्ञादिभिः श्रवणादिषु साक्षा­द्वि­द्या­हे­तुषु घटितेषु विद्याविलम्बो न युक्तः । दृश्यते च विलम्बः अतः श्रव­णा­दे­र्वि­द्या­हे­तु­त्व­म­सि­द्ध­मिति पूर्वपक्षे फलम् ।

प्रति­ब­न्ध­क­व­शा­द्वि­ल­म्बेऽपि हेतु­त्व­सि­द्धि­रिति सिद्धान्ते फलं मत्वा चित्रा­दि­व­द­नि­य­त­फलं श्रवणादिकमिति सिद्धान्तयति -
एवमिति ।

ननु प्रार­ब्ध­क­र्म­वि­शे­षेण श्रव­णा­दि­फ­ल­प्र­ति­बन्धः किमिति क्रियते श्रवणादिनैव कर्म­वि­पा­क­प्र­ति­बन्धः किं न स्यादित्यत आह -
उप­स्थि­त­वि­पा­कत्वं चेति ।
देशादिमहिम्ना कर्माणि विपच्यन्त इत्यर्थः ।

तेन श्रवणादिकमेव किमिति न विपच्यन्ते, तत्राह -
यानि चेति ।
विपाचकत्वं पलौ­न्मु­ख्य­हे­तु­त्वम् ।

ननु तर्हि श्रव­णा­दि­वि­पा­च­क­दे­शा­दिकं कीदृशमित्यत आह -
शास्त्रमपीति ।
फल­ब­ला­द्दे­शा­दि­ज्ञा­न­मिति भावः ।

तथापि कर्मणैव श्रव­णा­दि­प्र­ति­बन्धो न वैप­री­त्य­मि­त्यत्र को हेतुस्तमाह -
साधनेति ।
प्रति­ब­न्ध­क­त्व­श­क्ति­रपि फल­ब­ला­ज्ज्ञा­त­व्येति भावः ।

प्रति­ब­न्ध­क­स­द्भावे श्रौतं स्मार्तं च लिङ्गमाह -
तथा चेत्यादिना ।
शृण्वन्तोऽपि न विद्यु­रि­त्युक्तेः प्रति­ब­न्ध­सिद्धिः । आत्मनो यथा­व­द्व­क्ता­प्या­श्चर्यः अद्भु­त­व­त्क­श्चि­देव भवति । तिष्ठतु लब्धा साक्षा­त्का­र­वान्, परोक्षतो ज्ञाता­प्या­श्चर्यः । कुश­ले­ना­चा­र्ये­णा­नु­शि­ष्टोऽ­पी­त्यर्थः ॥५१॥