भाष्यरत्नप्रभाव्याख्या
तृतीयाध्याये तृतीयः पादः
तृतीयाऽध्याये तृतीयः पादः ।
मार्तण्डं ध्वान्तनाशाय तिलकस्वामिनं मुदे ।
विघ्नेशं विघ्नविध्वस्त्यै प्रणमामि मुहुर्मुहुः ॥
ब्रह्मस्वरूपं निर्धार्य तज्ज्ञानसाधनोपासनास्वरूपमाह -
सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषादिति ।
पादसंगतिमाह -
व्याख्यातमिति ।
पूर्वपादे तत्त्वंपदार्थविवेकः कृतः । इह तत्फलं वाक्यार्थज्ञानमानन्दादयः प्रधानस्येति सूत्रेणापुनरुक्तापेक्षिततत्पदतद्वाच्यार्थोपसंहारेण निर्धार्यत इति फलफलिभावः संगतिः । सगुणवाक्यार्थविद्याचिन्ता तु तद्विद्यानां चित्तैकाग्र्यद्वारा निर्गुणज्ञानसाधनत्वात्क्रियत इति मन्तव्यम् ।
संप्रति निर्गुणज्ञानं भेदाभेदविचारविषयत्वेनोक्तमिति मन्वान आक्षिपति -
नन्विति ।
वेद्यभेदे विद्याभेदचिन्ता स्यात् ब्रह्मणस्तु वेद्यस्यैक्यान्न चिन्तावसर इत्यर्थः ।
ब्रह्मैक्येऽपि धर्मभेदाच्चिन्तेत्यत आह -
एकरूपत्वाच्चेति ।
निर्धर्मत्वादित्यर्थः ।
एकरूपेऽपि ब्रह्मण्यनेकप्रकारसंभवाद्भेदशङ्का इत्यत आह -
न चेत्यादिना ।
पूर्वपक्षे ज्ञानभेदशङ्कानुपपत्तिमुक्त्वा चोदनाद्यभेदाज्ज्ञानाभेद इति सिद्धान्तोऽप्ययुक्त इत्याह -
नाप्यस्येति ।
एवं पादारम्भमाक्षिप्य समाधत्ते -
तदुच्यत इति ।
सगुणविद्यास्वेव भेदाभेदचिन्ता क्रियते निर्गुणविद्यायां त्वैक्यं सिद्धमिति वाच्यार्थरूपगुणोपसंहारमात्रं क्रियते वाक्यार्थनिर्णयायेति भावः । पञ्चाग्निप्राणदहरशाण्डिल्यवैश्वानरादिविद्या मिथोभिन्ना इति 'नानाशब्दादिभेदात्' इत्यत्र वक्ष्यते । अत्र तु मिथोभिन्नास्ताः किं प्रतिशाखं भिद्यान्ते न वेति नामादिभेदाच्चोदनाद्यविशेषाच्च संशयः । पूर्वपक्षे विद्याभेदाद्गुणानुपसंहारः सिद्धान्ते त्वभेदादुपसंहार इति फलभेदः । पूर्वतन्त्रे शाखान्तराधिकरणपूर्वपक्षसूत्रं नामरूपधर्मविशेषपुनरुक्तिनिन्दाशक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनाच्छाखान्तरे कर्मभेदः स्यादिति । तत्रोक्ता हेतवो नामादयो विद्याभेदार्थमिहोच्यन्ते 'अथैष ज्योतिरथैष सर्वज्योतिरेतेन सहस्रदक्षिणेन यजेत' इत्यत्र प्रकृतज्योतिष्टोमानुवादेन सहस्रदक्षिणाख्यगुणविधिमाशङ्क्य ज्योतिरितिपदस्य कर्मान्तरनामत्वसंभवे ज्योतिष्टोमलक्षकत्वायोगादथेति प्रकरणविच्छेदाच्च ज्योतिष्टोमात्कर्मान्तरं विशिष्टदक्षिणाकं विधीयत इति नाम्नः कर्मभेदकत्वमुक्तम् । ज्योतिरादिष्वित्यादिपदेनाध्वर्यवं हौत्रमिति संज्ञाभेदात्कर्मभेदो ग्राह्यः । तप्तं क्षीरं दध्ना कठिनमामिक्षा, तत्र द्रवं जलरूपं वाजिनमिति भेदः,'तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्' इत्यत्र वैश्वदेव्यामिक्षायागे वाजिनाख्यगुणविधिः वाजिभ्य इति विश्वेदेवानुवादादित्याशङ्क्यामिक्षां प्रत्युपसर्जनत्वेनोक्तविश्वेदेवानां वाजिभ्य इत्यनुवादायोगादुत्पत्तिशिष्टामिक्षावरुद्धे कर्मणि वाजिनद्रव्यस्यानाकाङ्क्षितस्य विध्ययोगाद्वाजिदेवताको वाजिनयागः कर्मान्तरमिति द्रव्यदेवताख्यरूपभेदात्कर्मभेदः सिद्धान्तितः । आदिपदात् 'ऐन्द्रं दध्यैन्द्रं पयः' इति द्रव्यभेदाद्यागभेदो ग्राह्यः । एवमिहापि पञ्चाग्निषडग्निरूपभेदाद्विद्याभेदो वाजिच्छन्दोगयोः । तथा रेतोन्यूना वागादयश्छान्दोग्ये तत्सहिता वाजिनामिति प्राणविद्याभेदः, कारीरिवाक्याध्ययने तैत्तिरीयकाणां भूमौ भोजनं धर्मविशेषो नान्येषां, अग्न्यध्ययने केषाञ्चिदुपाध्यायार्थमुदकाहरणं धर्मो नान्येषां, अश्वमेधाध्ययनेऽश्वघासानयनं केषाञ्चिदेव नान्येषां, नच तान्येव कारीर्यादीनि कर्माणि धर्मविशेषमपेक्षन्ते नापेक्षन्ते चेति युक्तं, अतो धर्मविशेषाच्छाखान्तरे कर्मभेदः शङ्कितस्तथात्रापि मुण्डकाध्ययनेन केषाञ्चिदेव शिरस्यङ्गारपात्रधारणरूपं व्रतं नान्येषामिति विद्याभेदः स्यात् पुनरुक्तिरभ्यासः । यथा 'समिधो यजति तनूनपातं यजति' इति यजत्यभ्यासात्प्रयाजानां भेद उक्तस्तथा शाखान्तरेऽभ्यासाद्विद्याभेदः । आदिपदान्निन्दादिग्रहः,'प्रातः प्रातरनृतं ते वदन्ति पुरोदयाज्जुह्वति येऽग्निहोत्रम्' इत्यनुदितहोमस्य 'यदुदिते सूर्ये प्रातर्जुहुयाद्यथातिथये प्रद्रुताय शून्यायावसाथायाहार्यं हरन्ति तादृगेव तत्' इत्युदितहोमस्य च निन्दाश्रुतेर्भेदः, एकस्यैवोदितेऽनुदिते चानुष्ठानायोगात्, तथोदितानुदितहोमातिक्रमकृतप्रायश्चित्तादप्यग्निहोत्रभेदः शङ्कितः । एते निन्दाप्रयश्चित्ते वेदान्तविद्यासु न विद्येते इति नोदाह्रियेते । यथा सर्वशाखाविहितस्य कर्मणो ज्ञातुं कर्तुं चाऽशक्तेर्भेदस्तथा सर्ववेदान्ताध्ययनज्ञानाद्यशक्तेस्तत्तद्वेदान्तविद्याभेदः स्यात्, तथा शाखानां सर्वासामेकरूपा समाप्तिर्नोच्यते किन्तु कस्याश्चित्क्वचित्कर्मणि समाप्तिरतः समाप्तिवचनभेदात्प्रतिशाखं कर्मभेदः शङ्कितः, तथा कस्यचिद्वेदान्तस्योङ्कारसार्वात्म्ये समाप्तिः कस्यचिदन्यत्रेति विद्याभेदः, अन्यार्थदर्शनमर्थवादस्तद्भेदात्कर्मभेदवद्विद्याभेद इति पूर्वपक्षसूत्रोक्ता हेतवो दर्शितास्ते केचित्सिद्धान्ते पूर्वपक्षे चात्रोपयुञ्जन्त इति । तथा शब्दान्तराभ्याससंख्यागुणप्रक्रियानामधेयानि कर्मभेदकानि, तत्र नामधेयं गुणो रूपमभ्यासश्चेति त्रयं व्याख्यातं, यजेद्दद्याज्जुहुयादिति प्रकृतिशब्दभेदेन धात्वर्थभेदात्तदवच्छिन्नभावनाख्यकर्मभेद उक्तस्तथात्र वेदोपास्त इत्यादिशब्दभेदाद्विद्याभेदः, 'तिस्र आहुतीर्जुहोति' इति संख्यया कर्मभेदवत् 'वायुप्राणौ' इति द्वित्वसंख्यया संवर्गविद्याभेदः स्यात् । नित्याग्निहोत्रप्रकरणात्प्रकरणान्तरे कुण्डपायिनामयने 'मासमग्निहोत्रं जुह्वति' इति श्रुतमग्निहोत्रं प्रकरणान्तरस्थत्वात्कर्मान्तरमिति सिद्धान्तितम् । तथात्र वेदान्तभेदे प्रकरणभेदादुपास्तिभेद इति पूर्वपक्षः ।
सिद्धान्तयति -
एवमिति ।
सर्वैर्वेदान्तैः प्रतीयन्त इति सर्ववेदान्तप्रत्ययानि तैर्विहितानीत्यर्थः ।