अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

तृतीयाध्याये तृतीयः पादः

तृतीयाऽध्याये तृतीयः पादः ।
मार्तण्डं ध्वान्तनाशाय तिलकस्वामिनं मुदे ।
विघ्नेशं विघ्न­वि­ध्वस्त्यै प्रणमामि मुहुर्मुहुः ॥
ब्रह्मस्वरूपं निर्धार्य तज्ज्ञा­न­सा­ध­नो­पा­स­ना­स्व­रू­प­माह -
सर्व­वे­दा­न्त­प्र­त्ययं चोद­ना­द्य­वि­शे­षा­दिति ।

पादसंगतिमाह -
व्याख्यातमिति ।
पूर्वपादे तत्त्वं­प­दा­र्थ­वि­वेकः कृतः । इह तत्फलं वाक्या­र्थ­ज्ञा­न­मा­न­न्दा­दयः प्रधानस्येति सूत्रे­णा­पु­न­रु­क्ता­पे­क्षि­त­त­त्प­द­त­द्वा­च्या­र्थो­प­सं­हा­रेण निर्धार्यत इति फलफलिभावः संगतिः । सगु­ण­वा­क्या­र्थ­वि­द्या­चिन्ता तु तद्विद्यानां चित्तै­का­ग्र्य­द्वारा निर्गु­ण­ज्ञा­न­सा­ध­न­त्वा­त्क्रि­यत इति मन्तव्यम् ।

संप्रति निर्गुणज्ञानं भेदा­भे­द­वि­चा­र­वि­ष­य­त्वे­नो­क्त­मिति मन्वान आक्षिपति -
नन्विति ।
वेद्यभेदे विद्याभेदचिन्ता स्यात् ब्रह्मणस्तु वेद्य­स्यै­क्यान्न चिन्तावसर इत्यर्थः ।

ब्रह्मैक्येऽपि धर्म­भे­दा­च्चि­न्ते­त्यत आह -
एकरूपत्वाच्चेति ।
निर्ध­र्म­त्वा­दि­त्यर्थः ।

एकरूपेऽपि ब्रह्म­ण्य­ने­क­प्र­का­र­सं­भ­वा­द्भे­द­शङ्का इत्यत आह -
न चेत्यादिना ।

पूर्वपक्षे ज्ञान­भे­द­श­ङ्का­नु­प­प­त्ति­मुक्त्वा चोद­ना­द्य­भे­दा­ज्ज्ञा­ना­भेद इति सिद्धा­न्तोऽ­प्य­युक्त इत्याह -
नाप्यस्येति ।

एवं पादा­र­म्भ­मा­क्षिप्य समाधत्ते -
तदुच्यत इति ।
सगुणविद्यास्वेव भेदाभेदचिन्ता क्रियते निर्गु­ण­वि­द्यायां त्वैक्यं सिद्धमिति वाच्या­र्थ­रू­प­गु­णो­प­सं­हा­र­मात्रं क्रियते वाक्या­र्थ­नि­र्ण­या­येति भावः । पञ्चा­ग्नि­प्रा­ण­द­ह­र­शा­ण्डि­ल्य­वै­श्वा­न­रा­दि­विद्या मिथोभिन्ना इति 'नाना­श­ब्दा­दि­भे­दात्' इत्यत्र वक्ष्यते । अत्र तु मिथोभिन्नास्ताः किं प्रतिशाखं भिद्यान्ते न वेति नामा­दि­भे­दा­च्चो­द­ना­द्य­वि­शे­षाच्च संशयः । पूर्वपक्षे विद्या­भे­दा­द्गु­णा­नु­प­सं­हारः सिद्धान्ते त्वभेदादुपसंहार इति फलभेदः । पूर्वतन्त्रे शाखा­न्त­रा­धि­क­र­ण­पू­र्व­प­क्ष­सूत्रं नाम­रू­प­ध­र्म­वि­शे­ष­पु­न­रु­क्ति­नि­न्दा­श­क्ति­स­मा­प्ति­व­च­न­प्रा­य­श्चि­त्ता­न्या­र्थ­द­र्श­ना­च्छा­खा­न्तरे कर्मभेदः स्यादिति । तत्रोक्ता हेतवो नामादयो विद्या­भे­दा­र्थ­मि­हो­च्यन्ते 'अथैष ज्योतिरथैष सर्वज्योतिरेतेन सहस्रदक्षिणेन यजेत' इत्यत्र प्रकृ­त­ज्यो­ति­ष्टो­मा­नु­वा­देन सह­स्र­द­क्षि­णा­ख्य­गु­ण­वि­धि­मा­शङ्क्य ज्योतिरितिपदस्य कर्मा­न्त­र­ना­म­त्व­सं­भवे ज्योति­ष्टो­म­ल­क्ष­क­त्वा­यो­गा­द­थेति प्रक­र­ण­वि­च्छे­दाच्च ज्योति­ष्टो­मा­त्क­र्मा­न्तरं विशि­ष्ट­द­क्षि­णाकं विधीयत इति नाम्नः कर्म­भे­द­क­त्व­मु­क्तम् । ज्योति­रा­दि­ष्वि­त्या­दि­प­दे­ना­ध्व­र्यवं हौत्रमिति संज्ञा­भे­दा­त्क­र्म­भेदो ग्राह्यः । तप्तं क्षीरं दध्ना कठिनमामिक्षा, तत्र द्रवं जलरूपं वाजिनमिति भेदः,'तप्ते पयसि दध्यानयति सा वैश्व­दे­व्या­मिक्षा वाजिभ्यो वाजिनम्' इत्यत्र वैश्व­दे­व्या­मि­क्षा­यागे वाजि­ना­ख्य­गु­ण­विधिः वाजिभ्य इति विश्वे­दे­वा­नु­वा­दा­दि­त्या­श­ङ्क्या­मिक्षां प्रत्यु­प­स­र्ज­न­त्वे­नो­क्त­वि­श्वे­दे­वानां वाजिभ्य इत्य­नु­वा­दा­यो­गा­दु­त्प­त्ति­शि­ष्टा­मि­क्षा­व­रुद्धे कर्मणि वाजि­न­द्र­व्य­स्या­ना­का­ङ्क्षि­तस्य विध्य­यो­गा­द्वा­जि­दे­व­ताको वाजिनयागः कर्मान्तरमिति द्रव्य­दे­व­ता­ख्य­रू­प­भे­दा­त्क­र्म­भेदः सिद्धान्तितः । आदिपदात् 'ऐन्द्रं दध्यैन्द्रं पयः' इति द्रव्य­भे­दा­द्या­ग­भेदो ग्राह्यः । एवमिहापि पञ्चा­ग्नि­ष­ड­ग्नि­रू­प­भे­दा­द्वि­द्या­भेदो वाजिच्छन्दोगयोः । तथा रेतोन्यूना वागा­द­य­श्छा­न्दोग्ये तत्सहिता वाजिनामिति प्राण­वि­द्या­भेदः, कारी­रि­वा­क्या­ध्य­यने तैत्तिरीयकाणां भूमौ भोजनं धर्मविशेषो नान्येषां, अग्न्यध्ययने केषा­ञ्चि­दु­पा­ध्या­या­र्थ­मु­द­का­ह­रणं धर्मो नान्येषां, अश्व­मे­धा­ध्य­य­नेऽ­श्व­घा­सा­न­यनं केषाञ्चिदेव नान्येषां, नच तान्येव कारीर्यादीनि कर्माणि धर्म­वि­शे­ष­म­पे­क्षन्ते नापेक्षन्ते चेति युक्तं, अतो धर्म­वि­शे­षा­च्छा­खा­न्तरे कर्मभेदः शङ्कि­त­स्त­था­त्रापि मुण्डकाध्ययनेन केषाञ्चिदेव शिर­स्य­ङ्गा­र­पा­त्र­धा­र­ण­रूपं व्रतं नान्येषामिति विद्याभेदः स्यात् पुन­रु­क्ति­र­भ्यासः । यथा 'समिधो यजति तनूनपातं यजति' इति यज­त्य­भ्या­सा­त्प्र­या­जानां भेद उक्तस्तथा शाखा­न्त­रेऽ­भ्या­सा­द्वि­द्या­भेदः । आदि­प­दा­न्नि­न्दा­दि­ग्र­हः,'प्रातः प्रातरनृतं ते वदन्ति पुरो­द­या­ज्जु­ह्वति येऽग्नि­हो­त्रम्' इत्यनुदितहोमस्य 'यदुदिते सूर्ये प्रात­र्जु­हु­या­द्य­था­ति­थये प्रद्रुताय शून्या­या­व­सा­था­या­हार्यं हरन्ति तादृगेव तत्' इत्युदितहोमस्य च निन्दा­श्रु­ते­र्भेदः, एक­स्यै­वो­दि­तेऽ­नु­दिते चानु­ष्ठा­ना­यो­गात्, तथो­दि­ता­नु­दि­त­हो­मा­ति­क्र­म­कृ­त­प्रा­य­श्चि­त्ता­द­प्य­ग्नि­हो­त्र­भेदः शङ्कितः । एते निन्दा­प्र­य­श्चित्ते वेदान्तविद्यासु न विद्येते इति नोदाह्रियेते । यथा सर्व­शा­खा­वि­हि­तस्य कर्मणो ज्ञातुं कर्तुं चाऽश­क्ते­र्भे­द­स्तथा सर्व­वे­दा­न्ता­ध्य­य­न­ज्ञा­ना­द्य­श­क्ते­स्त­त्त­द्वे­दा­न्त­वि­द्या­भेदः स्यात्, तथा शाखानां सर्वासामेकरूपा समा­प्ति­र्नो­च्यते किन्तु कस्या­श्चि­त्क्व­चि­त्क­र्मणि समाप्तिरतः समा­प्ति­व­च­न­भे­दा­त्प्र­ति­शाखं कर्मभेदः शङ्कितः, तथा कस्य­चि­द्वे­दा­न्त­स्यो­ङ्का­र­सा­र्वात्म्ये समाप्तिः कस्य­चि­द­न्य­त्रेति विद्याभेदः, अन्या­र्थ­द­र्श­न­म­र्थ­वा­द­स्त­द्भे­दा­त्क­र्म­भे­द­व­द्वि­द्या­भेद इति पूर्व­प­क्ष­सू­त्रोक्ता हेतवो दर्शितास्ते केचि­त्सि­द्धान्ते पूर्वपक्षे चात्रोपयुञ्जन्त इति । तथा शब्दा­न्त­रा­भ्या­स­सं­ख्या­गु­ण­प्र­क्रि­या­ना­म­धे­यानि कर्मभेदकानि, तत्र नामधेयं गुणो रूपमभ्यासश्चेति त्रयं व्याख्यातं, यजे­द्द­द्या­ज्जु­हु­या­दिति प्रकृ­ति­श­ब्द­भे­देन धात्व­र्थ­भे­दा­त्त­द­व­च्छि­न्न­भा­व­ना­ख्य­क­र्म­भेद उक्तस्तथात्र वेदोपास्त इत्या­दि­श­ब्द­भे­दा­द्वि­द्या­भेदः, 'तिस्र आहु­ती­र्जु­होति' इति संख्यया कर्मभेदवत् 'वायु­प्राणौ' इति द्वित्वसंख्यया संव­र्ग­वि­द्या­भेदः स्यात् । नित्या­ग्नि­हो­त्र­प्र­क­र­णा­त्प्र­क­र­णा­न्तरे कुण्डपायिनामयने 'मास­म­ग्नि­होत्रं जुह्वति' इति श्रुत­म­ग्नि­होत्रं प्रक­र­णा­न्त­र­स्थ­त्वा­त्क­र्मा­न्त­र­मिति सिद्धान्तितम् । तथात्र वेदान्तभेदे प्रक­र­ण­भे­दा­दु­पा­स्ति­भेद इति पूर्वपक्षः ।

सिद्धान्तयति -
एवमिति ।
सर्वै­र्वे­दान्तैः प्रतीयन्त इति सर्व­वे­दा­न्त­प्र­त्य­यानि तैर्वि­हि­ता­नी­त्यर्थः ।