अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

वियदधिकरणम्

अत्रा­का­श­स्यो­त्प­त्त्य­नु­त्प­त्ति­श्रु­त्यो­र्मि­थो­वि­रि­धोऽस्ति न वेति वाक्य­भे­दै­क­वा­क्य­त्वाभ्यां सन्देहे यद्यु­त्प­त्ति­स्तदा वाक्यभेदेन विरो­धा­द­प्रा­मा­ण्य­म­नयोः श्रुत्योरिति पूर्व­प­क्ष­यि­ष्य­न्ना­दा­व­नु­त्प­त्ति­प­क्ष­मे­क­देशि गृह्णातीत्याह -
तत्र तावदिति ।
उत्प­त्ति­श्रु­ति­र्मुख्या नास्तीति गूढाभिसन्धिः ॥१॥

सम्प्रति पूर्वपक्षयति सूत्रकारः -
अस्ति त्विति ।

एकवाक्यत्वेन प्रामाण्यसम्भवे किमिति श्रुत्यो­र­प्रा­मा­ण्य­मिति शङ्कते -
नन्वेकवाक्यतेति ।

एक­वा­क्य­त्वा­स­म्भ­वा­द­प्रा­माण्यं युक्तमित्याह -
सत्यमित्यादिना ।

एकस्य युग­प­त्का­र्य­द्व­या­स­म्ब­न्धेऽपि क्रमेण सम्ब­न्ध­स­म्भ­वा­दे­क­वा­क्य­तेति मुख्यसिद्धान्ती शङ्कते -
ननु सकृदिति ।

अप्रामाण्यवादी दूषयति -
नैवमिति ।
क्रमो न युज्यते द्वयोः श्रुत­प्रा­थ­म्य­भ­ङ्गा­प­त्ते­रि­त्यर्थः ।

एक­स्मा­द्द्वि­द­ल­बी­जा­द्द­ल­द्व­य­व­द­स्तू­भयं प्रथमजमित्यत आह -
न चेति ।
वायोरग्निरिति क्रम­श्रु­ति­भ­ङ्गा­दिति शेषः ।

छान्दो­ग्य­श्रु­ते­स्ति­त्ति­रि­श्रु­ति­वि­रु­द्धा­र्थ­त्व­मुक्त्वा तित्ति­रि­श्रु­ते­स्त­द्वि­रु­द्धा­र्थ­त्व­माह -
एतेनेति ।

एतत्पदार्थमाह -
तस्मादिति ।
छान्दोग्येऽपि श्रुतं तेजसः प्राथम्यमत्र दुर्यो­ज्य­मि­त्यर्थः ।

किञ्च सत्पदार्थ आत्मा छान्दोग्ये तेजस उपादानं श्रूयते, अत्र तु वायुरिति नैकवाक्यतेत्याह -
वायोरिति ॥२॥

एवं श्रुत्यो­र्वि­रो­धा­द­प्रा­मा­ण्य­मिति पूर्वपक्षे प्राप्ते स एव विय­द­नु­त्प­त्ति­वादि स्वमतेन प्रामाण्यं ब्रूत इत्याह -
अस्मिन्निति ।
एव­मा­ध्या­य­स­मा­प्ते­र­धि­क­र­णेषु प्रथमं विरो­धा­च्छ्रु­त्य­प्रा­मा­ण्य­मिति पूर्वपक्षफलं तत एक­दे­शि­सि­द्धान्तः, पश्चा­न्मु­ख्य­सि­द्धान्ते श्रुती­ना­म­वि­रो­धे­नैक वाक्यतया ब्रह्मणि सम­न्व­य­सि­द्धि­रिति फलं क्रम­श्चे­त्य­व­ग­न्त­व्यम् ।

तत्र श्रुत्यो­र्वि­रोधे सत्य­ध्य­य­न­वि­ध्यु­पा­त्त­यो­र­प्रा­मा­ण्या­यो­गा­द्वि­य­दु­त्प­त्त्य­स­म्भ­व­रू­प­त­र्का­नु­गृ­ही­त­च्छा­न्दो­ग्य­श्रु­ति­र्मु­ख्यार्था इतरा गौणीत्यविरोध इत्येकदेशिमतं विवृणोति -
नास्तीत्यादिना ।
आकाशो नोत्पद्यते साम­ग्री­शू­न्य­त्वात् , आत्मवत् । न चावि­द्या­ब्र­ह्मणोः सत्त्वा­द्धे­त्व­सिद्धिः, विजा­ती­य­त्वे­ना­न­यो­रा­र­म्भ­क­त्वा­यो­गा­द­सं­यु­क्त­त्वाच्च । संयोग एव हि द्रव्य­स्या­स­म­वा­यि­का­र­ण­मतः सम­वा­य्य­स­म­वा­यि­नो­र­भा­वान्न हेत्व­सि­द्धि­रि­त्यर्थः ।

प्राग­भा­व­शू­न्य­त्वा­च्चा­त्म­व­दा­काशो नोत्पद्यत इत्याह -
उत्पत्तिमतां चेति ।
प्रका­श­श्चा­क्षु­षा­नु­भवः । आदि­प­दा­त्त­मो­ध्वं­स­पा­क­यो­र्ग्र­ह­णम् । मूर्त­द्र­व्या­श्र­यत्वं ह्यकाशस्य कार्यम् , तच्च प्रलयेऽप्यस्ति पर­मा­ण्वा­श्र­य­त्वात् । अतो न प्रागभाव इत्यर्थः ।

प्रागभावसत्त्वं स्फुटयति -
किं हीति ।
स्थूला­श्र­योऽ­व­काशः सूक्ष्मा­श्र­य­च्छि­द्र­म­ण्वा­श्रयः सुषिरमिति भेदः ।

किञ्चा­त्म­व­दा­काशो न जायते, विभुत्वात् , अस्प­र्श­द्र­व्य­त्वा­च्चे­त्याह -
पृथिव्यादीति ।
तस्मा­दु­क्त­त­र्क­ब­ला­द्गौणी द्रष्ट­व्ये­त्य­न्वयः ।

भेदो­क्ते­र्गौ­णत्वे वैदिकोदाहरणमाह -
वेदेऽ­प्या­र­ण्या­निति ।
आकाशेष्विति भेदव्यपदेशो गौण इति सम्बन्धः ॥३॥

न केवलं तर्का­दा­का­श­स्या­नु­त्पत्तिः, किन्तु श्रुति­तोऽ­पी­त्या­ह­सू­त्र­कारः -
शब्दाच्चेति ।
नित्य­भा­व­स्या­ना­दि­त्वा­दिति भावः । आत्मेति च शब्द इहो­दा­ह­र­ण­मि­त्य­न्वयः । आकाशः शरीरमस्येति बहु­व्री­हि­णा­त्य­न्त­सा­म्य­भा­ना­द्ब्र­ह्म­व­दा­का­श­स्या­ना­दि­त्व­मि­त्यर्थः ॥४॥

पदोत्तरमिति ।
शङ्कोत्तरमिति यावत् ।

तान्येव शङ्कापदानि पठति -
स्यादेतदिति ।
अधिकारे प्रकरणे ।

यथै­क­स्मि­न्ब्र­ह्म­प्र­क­रणे 'अन्नं ब्रह्म', 'आनन्दो ब्रह्म' इति वाक्य­यो­र्ब्र­ह्म­श­ब्द­स्यान्ने गौणत्वमानन्दे मुख्यता तथै­क­वा­क्य­स्थ­स्यै­क­स्यापि सम्भूतशब्दस्य गुण­मु­ख्या­र्थ­भेदो योग्य­ता­ब­ला­दि­त्याह -
स्याच्चेति ।

उदाहरणान्तरमाह -
यथा चेति ।
अभेदोपचारो भक्तिः ।

मुख्य­सि­द्धा­न्त्या­क्षि­पति -
कथं पुनरिति ।

स एवाक्षेपद्वयं स्पष्टयति -
नन्विति ।
अद्वि­ती­य­त्व­श्रु­ति­बाधः सर्व­वि­ज्ञा­न­प्र­ति­ज्ञा­बा­ध­श्चे­त्यर्थः ।

प्रथमाक्षेपं दृष्टान्तेन परिहरति -
एकमेवेति ।
कार्य­रू­प­द्वि­ती­य­शू­न्यत्वं प्राग­व­स्था­या­म­व­धा­र­ण­श्रु­त्यर्थ इत्यर्थः । कुले गृहे । अमत्राणि घटादीनि पात्राणि ।

एक­मे­वे­त्य­व­धा­र­ण­व्या­वर्त्यं कार्यमिति व्याख्या­या­द्वि­ती­य­प­द­व्या­व­र्त्य­माह -
अद्वि­ती­य­श्रु­ति­रिति ।

आकाशस्य द्विती­य­त्व­म­ङ्गी­कृ­त्या­द्वि­ती­या­दि­प­द­स­ङ्कोचः कृतः, तदपि नास्तीत्याह -
न च नभसापीति ।

धर्मसाम्ये ब्रह्मनभसोः कथं भेदः, तत्राह -
सर्गकाले त्विति ।

धर्म­सा­म्या­द­द्वि­ती­य­त्वो­प­चार इत्यर्थे श्रुतिमाह -
तथा चाकशेति ।

द्वितीयमाक्षेपं परिहरति -
अत एवेति ।
अभे­दो­प­चा­रा­दे­वे­त्यर्थः ।

नभसो ब्रह्म­त­त्का­र्या­भ्या­स­भि­न्न­दे­श­का­ल­त्वाच्च तज्ज्ञाने तज्ज्ञानमित्याह -
अपि चेति ॥५॥

एव­मा­का­श­स्या­नु­त्पत्तौ सर्व­श्रु­ती­ना­म­वि­रोध इत्ये­क­दे­शि­सि­द्धान्तः प्राप्तस्तं मुख्यसिद्धान्ती दूषयति -
प्रतिज्ञेति ।
अहानिरबाधः । साम­य­जु­र­थ­र्व­ण­शा­खा­भे­द­ज्ञा­प­नार्था इति शब्दाः ।

न काचनेति ।
आत्मभिन्नं ज्ञेयं नास्तीत्यर्थः ।

ननु सर्वस्य ब्रह्मा­व्य­ति­रे­का­त्प्र­ति­ज्ञाया अहानिरित्यस्तु, तथापि जीवा­दि­व­द­नु­त्प­न्न­स्यापि नभसो ब्रह्मणि कल्पि­त­त्वे­ना­व्य­ति­रे­का­त्प्र­ति­ज्ञा­सिद्धिः किं न स्यात् , किमु­त्प­त्त्ये­त्यत आह -
शब्देभ्यश्चेति ।
अव्यतिरेक एव न्याय­स्ते­ने­त्यर्थः ।अयं भावःजीवस्य ताव­दा­त्म­त्वा­द्ब्र­ह्मा­व्य­ति­रेकः । अज्ञा­न­त­त्स­म्ब­न्धयोः कल्पि­त­त्वे­ना­व्य­ति­रेकः । स्वत­न्त्रा­ज्ञा­ना­यो­गा­द­ज्ञा­ना­न्य­ज­ड­द्र­व्यस्य तु कार्य­त्वे­नै­वा­व्य­ति­रे­क­सिद्धिः, तस्याकार्यत्वे प्रधा­न­व­त्स्वा­त­न्त्र्या­द­व्य­ति­रे­का­यो­गात् । तथा­हु­र्न्या­य­विदः 'नित्य­द्र­व्याणि स्वतन्त्राणि भिन्ना­न्य­ना­श्रि­तानि' इति ।

तस्मा­त्प्र­ति­ज्ञा­सि­द्धये आकाशस्य कार्य­त्वे­नै­वा­व्य­ति­रेको वाच्य इति दृष्टा­न्त­सृ­ष्टि­सा­र्वा­त्म्य­श­ब्दा­नाह -
तथा हीति ।

तेन तेन दृष्टान्तेनेति ।
यजुषि दुन्दु­भ्या­दि­दृ­ष्टा­न्ते­ना­थ­र्वणे ऊर्ण­ना­भ्या­दि­दृ­ष्टा­न्ते­ने­त्यर्थः । यजुषि प्रति­ज्ञा­सा­धका' इदं सर्वम्' इतिशब्दाः, आथर्वणे 'ब्रह्मै­वे­दम्' इति शब्दा इति भावः ।

एव­मा­का­शो­त्प­त्ति­क­थ­ना­दे­क­दे­शि­मते दूषिते श्रुत्य­प्रा­मा­ण्य­वादी स्वोक्तं स्मारयति -
सत्यं दर्शितमिति ।

मुख्य­सि­द्धा­न्त्याह -
न । एकेति ।

'तत्ते­जोऽ­सृ­जत' इति सकृच्छ्रुतस्य स्रष्टु­रा­का­श­ते­जोभ्यां युगपत्सम्बन्धे तित्ति­रि­क्र­म­बा­धात् , क्रमेणाकाशं सृष्ट्वा तेजोऽसृजतेति सम्बन्धे तेजः­प्रा­थ­म्य­भ­ङ्ग­प्र­स­ङ्गात् , वस्तुनि विकल्पासम्भवेन तयोः शाखाभेदेन प्राथ­म्य­व्य­व­स्थाया अयोगात् नैकवाक्यतेति प्राप्ते मुख्य एव दूषयति -
नैष दोष इति ।
अप्रा­मा­ण्य­क­ल्प­ना­द्व­र­म­पौ­रु­षे­य­श्रु­ती­ना­मे­क­वा­क्य­त्वेन प्रामा­ण्य­क­ल्प­नम् , तच्चैकवाक्यत्वं बलवच्छ्रुत्या दुर्बलश्रुतेः कल्प्यम् , बलवती च तित्ति­रि­श्रुतिः, प्रकृतिपञ्चम्या पौर्वा­प­र्या­ख्य­क्र­मस्य श्रुतत्वात् । छान्दो­ग्य­श्रु­तिस्तु दुर्बला, तेजः­प्रा­थ­म्य­श्रु­त्य­भा­वात् । तेजःसर्गमात्रं तु श्रुतं तृतीयत्वेन परि­णे­य­मि­त्ये­क­वा­क्य­ते­त्यर्थः । यदुक्तमेकदेशिना छान्दो­ग्य­श्रु­त्या­का­शो­त्प­त्ति­र्वा­र्यत इति तन्निरस्तम् ।

किञ्च सा श्रुतिः किं तेजोजन्मपरा, उत तेजोजन्म विय­द­नु­त्प­त्ति­श्चे­त्यु­भ­य­परा । आद्ये न तद्वारणमित्याह -
न हीति ।
अवि­रो­धा­दि­त्यर्थः ।

न द्वितीयः, श्रुत्य­न्त­र­वि­रो­धे­नो­भ­य­प­र­त्व­क­ल्प­ना­यो­गा­द्वा­क्य­भे­दा­प­त्ते­श्चे­त्याह -
एकस्येति ।

नन्वेकस्य स्रष्टु­र­ने­का­र्थ­स­म्ब­न्ध­व­द्वा­क्य­स्या­प्य­ने­का­र्थता किं न स्यादित्यत आह -
स्रष्टा त्विति ।
एकस्य कर्तु­र­ने­का­र्थ­स­म्बन्धो दृष्टः । न त्वेकस्य वाक्यस्य नानार्थत्वं दृष्टम् । नानार्थकप्रयोगे तु पय आन­ये­त्या­दा­वा­वृत्त्या वाक्यभेद एव । आनयनस्य जलक्षीराभ्यां पृथ­क्स­म्ब­न्धा­दि­त्यर्थः ।

फलितमाह -
इत्येकेति ।

एकस्य शब्दस्यावृत्तिं विनानेकार्थत्वं नास्ति चेदसृजतेति शब्दस्य छान्दोग्य उप­सं­हृ­ता­का­शा­दि­स­म्ब­न्धा­र्थ­मा­वृ­त्ति­दोषः स्यादित्यत आह -
न चेति ।
छान्दो­ग्य­स्थ­ते­जो­जन्म आका­शा­दि­ज­न्म­पू­र्व­कम् , तेजोजन्मत्वात् , तित्ति­रि­स्थ­ते­जो­ज­न्म­व­दि­त्या­का­शा­दि­ज­न्मो­प­सं­हारे 'तदा­का­श­म­सृ­जत' इति वाक्यान्तरस्यैव कल्प­ना­न्ना­वृ­त्ति­दोष इत्यर्थः ।

श्रुत्यन्तरस्थः क्रमः श्रुत्यन्तरे ग्राह्य इत्यत्र दृष्टान्तमाह -
यथा चेति ।

सृष्टौ तात्प­र्या­ता­त्प­र्याभ्यां दृष्टा­न्त­श्रु­ति­वै­षम्यं शङ्कते -
नन्वित्यादिना ।

तेजः­प्रा­थ­म्य­स्वी­कारे आकाशसर्गो धर्मि तद्धर्मः प्राथम्यं चेति द्वयं श्रुतं बाधनीयमिति गौरवम् , आकाशप्राथम्ये त्वार्थिकतेजः सर्ग­प्रा­थ­म्य­मा­त्र­बाध इति लाघवमिति मत्वाह -
नेत्युच्यत इति ।

किञ्च प्रधा­न­ध­र्मि­त्या­गा­द्वरं गुणभूतस्य तेजःप्राथम्यस्य धर्मस्य त्याग इत्याह -
न हीति ।
किञ्च किं सृष्टि­प­र­श्रु­ति­सि­द्ध­त्वा­त्ते­जः­प्रा­थम्यं गृह्यत उत प्रथमस्थाने तेजसः सर्ग­श्रु­त्या­र्था­त्प्रा­थ­म्य­भा­नात् ।

नाद्य इत्याह -
अपि चेति ।

द्वितीयमनूद्य दूषयति -
अर्थात्त्विति ।

यदुक्तं वस्तुनि विक­ल्पा­स­म्भ­वा­दु­भयोः प्राथम्यं शाखाभेदेन व्यवस्थितं न भवति, नाप्यु­भ­यो­र्द्वि­द­ला­ङ्कु­र­व­त्स­मु­च्चि­त्यो­त्पत्त्या प्राथम्यं वायोरग्निरिति क्रम­बा­धा­पा­ता­दिति, तदिष्टमेवेत्याह -
विकल्पेति ।

न केवलं श्रुति­दे­व्यो­र­वि­रोधः सौहार्दं चास्तीत्याह -
अपि चेति ।
विय­दु­प­स­ङ्ग्रा­ह्य­मि­त्य­न्वयः ।

विय­द­नु­त्प­त्ति­वा­दि­नो­क्त­म­नूद्य प्रतिज्ञाया अद्वि­ती­य­श्रु­तेश्च मुख्या­र्थ­ता­त्प­र्या­व­ग­मान्न गौणार्थतेति दूषयति -
यच्चो­क्त­मि­त्या­दिना ।
प्रकृ­ति­वि­का­र­न्या­य­स्त­द­न­न्य­त्व­न्यायः । उदकं क्षीरस्थमपि क्षीरज्ञानान्न गृह्यते भेदादिति भावः ।

मास्तु सम्यग्ज्ञानं श्रुते­र्भ्रा­न्ति­मू­ल­त्व­स­म्भ­वा­दि­त्या­श­ङ्क्या­पौ­रु­षे­य­त्वा­न्मै­व­मि­त्याह -
न च वेदस्येति ।
माया भ्रान्ति­स्त­या­लीकं मिथ्याभाषणं तेन वञ्च­न­म­य­था­र्थ­बो­ध­नम् । आदि­प­दा­द्वि­प्र­लि­प्सा­प्र­मा­द­क­र­णा­पा­ट­वानि गृह्यन्ते ।

प्रति­ज्ञा­मु­ख्य­त्व­म­भि­धा­या­द्वि­ती­य­श्रु­ति­मु­ख्य­ता­माह -
सावधारणेति ।
सर्व­द्वै­त­नि­षे­ध­प­रे­त्यर्थः ।

उभ­य­गौ­ण­त्वेऽ­द्भु­त­व­दु­प­न्यासो मृदा­दि­दृ­ष्टा­न्तै­स्त­त्सा­धनं च न स्यादिति दोषान्तरमाह -
न चेत्यादिना ॥६॥

कार्यमेव वस्त्वेकदेश आकाशो नोत्पद्यते साम­ग्री­शू­न्य­त्वा­दि­त्यत्र आकाशो विकारः विभक्तत्वात् घटादिवदिति सत्प्रतिपक्षमाह -
यत्पु­न­रि­त्या­दिना ।

यो विभक्तः स विकार इत्य­न्व­य­मुक्त्वा यस्त्वविकारः स न विभक्तो यथात्मेति व्यति­रि­क­व्या­प्ति­माह -
न त्वविकृतमिति ।

दिगादिषु व्यभि­चा­र­मा­शङ्क्य पक्ष­स­म­त्वा­न्मै­व­मि­त्याह -
एतेनेति ।
विभ­क्त­त्वे­ने­त्यर्थः ।

आत्मनि व्यभिचारं शङ्कते -
नन्विति ।

धर्मि­स­मा­न­स­त्ता­क­वि­भा­गस्य हेतु­त्वा­त्प­र­मा­र्था­त्मनि विभागस्य कल्पितत्वेन भिन्न­स­त्ता­क­त्वान्न व्यभिचार इत्याह -
नेति ।
अत्र चाज्ञा­ना­न्य­द्र­व्यत्वं विशेषणम् , अतो नाज्ञा­न­त­त्स­म्ब­न्धादौ व्यभिचारः ।

नन्वात्मा कार्यः, विभक्तत्वात् , वस्तुत्वाद्वा, घट­व­दि­त्या­भा­स­तु­ल्य­मि­द­म­नु­मा­न­मि­त्या­श­ङ्क्या­त्मनः परमकारणत्वेन श्रुतस्य कार्यत्वे शून्यताप्रसङ्ग इति बाध­क­स­त्त्वा­त्त­स्या­भा­व­त्वम् , नात्र किञ्चि­द्बा­ध­क­मस्ति प्रत्युत आका­श­स्या­का­र्यत्वे नित्या­ने­क­द्र­व्य­क­ल्पना श्रौत­प्र­ति­ज्ञा­हा­न्या­दयो बाधकाः सन्तीति नाभा­स­तु­ल्य­ते­त्याह -
आत्मन इति ।

इष्टप्रसङ्ग इति वदन्तं प्रत्याह -
आत्मत्वादिति ।
आत्माभावः केन चिज्ज्ञायते न वा । आद्ये यो ज्ञाता स परिशिष्यत इति न शून्यता । द्वितीयेऽपि न शून्यता माना­भा­वा­दि­त्यर्थः ।

किञ्च यद्धि कार्यं सत्ता­स्फू­र्त्यो­र­न्या­पेक्षं तन्निराकार्यम् , आत्मा त्वकार्यो निरपेक्षत्वान्न बाधयोग्य इत्याह -
नह्या­त्मे­त्या­दिना ।
कस्य­चि­त्का­र­ण­स्या­ग­न्तुकः कार्यो न हि । सत्ता­स्फूर्त्योः सिद्ध्यो­र­न­न्या­य­त्त­त्वा­दि­त्य­क्ष­रार्थः ।

तत्र स्फूर्ते­र­न­न्या­य­त्तत्वं विवृणोति -
न हीति ।
यदुक्तं सुरे­श्व­रा­चार्यैः 'प्रमाता च प्रमाणं च प्रमेयं प्रमितिस्तथा । यस्य प्रसा­दा­त्सि­ध्यन्ति तत्सिद्धौ किमपेक्ष्यते ।' इति । यथा श्रुतिराह 'पुरुषः स्वयं ज्योतिः', 'तस्य भासा सर्वमिदं विभाति' इति च ।

नन्वात्मनः स्वतः सिद्धौ प्रमा­ण­वै­य­र्थ्यम् , तत्राह -
तस्येति ।

ननु प्रमेयस्यापि स्वप्रकाशत्वं किं न स्यादित्यत आह -
न हीति ।
अतो न प्रमा­ण­वै­य­र्थ्य­मिति भावः ।

आत्मापि मानाधीनसिद्धिकः किं न स्यादित्यत आह -
आत्मा त्विति ।
अयमर्थः - निश्चितसत्ताकं हि ज्ञानं प्रमे­य­स­त्ता­नि­श्चा­य­कम् , गेहे घटो दृष्टो न वेति ज्ञानसंशये न दृष्ट इति व्यतिरेकनिश्चये चार्थ­स्व­रू­प­नि­श्च­यात् । ज्ञान­स­त्ता­नि­श्च­यश्च न स्वतः, कार्यस्य स्वप्र­का­श­त्वा­यो­गात् । नापि ज्ञानान्तरात् , अनवस्थानात् । अतः साक्षिणैव ज्ञान­स­त्ता­नि­श्चयो वाच्यः । तत्र साक्षि­ण­श्चे­ज्ज्ञा­ना­धी­न­स­त्ता­नि­श्चयः, अन्योन्याश्रयः स्यात् । अतः सर्व­सा­ध­क­त्वा­दात्मा स्वतः सिद्ध इति ।

स्वप्रकाशस्यापि बाधः किं न स्यादित्यत आह -
न चेति ।
जडं हि परा­य­त्त­प्र­का­श­त्वा­दा­ग­न्तुकं बाधयोग्यं न प्रका­शा­त्म­स्व­रू­पम् , तस्य सर्व­बा­ध­सा­क्षि­स्व­रू­पस्य निरा­क­र्त्र­न्त­रा­भा­वात् , स्वस्य च स्वनि­रा­क­र्तृ­त्वा­यो­गात् । न हि सुनिपुणेनापि स्वाभावो द्रष्टुं शक्यत इत्यर्थः ।

एवं स्वतः स्फूर्ति­त्वा­दात्मा न बाध्य इत्युक्त्वा स्वतः सत्ताकत्वाच्च न बाध्य इत्याह -
तथाहमेवेति ।
ज्ञानज्ञेययोः सत्ता­व्य­भि­चा­रेऽपि ज्ञातुः सदैकरूपत्वान्न सत्ताव्यभिचार इत्यर्थः ।

मास्तु जीवतो ज्ञातु­र­न्य­था­स्व­भावः, मृतस्य तु स्यादित्यत आह -
तथेति ।
उच्छेदो विनाशः । अन्य­था­स्व­भा­वत्वं मिथ्यात्वं वा सम्भावयितुमपि न शक्यम् , अह­म­स्मी­त्य­नु­भ­व­सि­द्ध­स­त्स्व­भा­वस्य बाध­का­भा­वा­दि­त्यर्थः ।

एवमात्मनः शून्यत्वनिरासेन शून्य­ता­प्र­स­ङ्ग­स्या­नि­ष्ट­त्व­मु­क्तम् , ततश्चात्मनः कार्य­त्व­नु­मा­न­मा­भास इत्याह -
एवमिति ।

अकार्यात्मनः सिद्धौ तस्या­वि­द्या­स­हि­त­स्यो­पा­दा­न­स्या­दृ­ष्टा­दि­नि­मि­त्तस्य च सत्त्वा­दा­का­शा­नु­त्प­त्ति­हेतोः साम­ग्री­शू­न्य­त्वस्य स्वरू­पा­सि­द्धे­रु­क्त­स­त्प्र­ति­प­क्ष­बा­धा­च्चा­का­शस्य कार्यत्वं निरवद्यमित्याह -
कार्यत्वं चेति ।

आत्मा­वि­द्य­यो­र्वि­जा­ती­य­त्वा­न्ना­का­शा­र­म्भ­क­त्व­मि­त्यु­क्त­म­नूद्य निरस्यति -
यत्त्वित्यादिना ।

किं कारणमात्रस्य साजात्यनियम उत समवायिनः । तत्राद्यं निरस्य द्वितीयं शङ्कते -
स्यादेतदिति ।

किं सम­वा­यि­ता­व­च्छे­द­क­ध­र्मेण साजात्यमुत सत्त्वादिना । नाद्य इत्याह -
तदपीति ।
न च रज्जवादि न द्रव्यान्तरमिति वाच्यम् , पटादेरपि तथात्वापातात् ।

द्विती­योऽ­स्म­दिष्टः, आत्मा­वि­द्य­यो­र्व­स्तु­त्वेन साजात्यादित्याह -
सत्त्वेति ।

उपादानस्य साजात्यनियमं निरस्य संयु­क्ता­ने­क­त्व­नि­य­म­म­द्वि­ती­य­स्या­स­ङ्ग­स्या­प्या­त्मन उपा­दा­न­त्व­सि­द्धये निरस्यति -
नापीत्यादिना ।

किमा­र­म्भ­क­मा­त्र­स्यायं नियम उत द्रव्यारम्भकस्य । नाद्य इत्याह -
अण्विति ।
द्ध्वयणुकस्य ज्ञानस्य चास­म­वा­यि­का­र­ण­सं­यो­ग­ज­न­क­माद्यं कर्म ।

यद्य­प्य­दृ­ष्ट­व­दा­त्म­सं­युक्ते अणुमनसी आद्यकर्मारम्भके तथापि कर्मसमवायिन एक­त्वा­द­ने­क­त्व­नि­य­म­भङ्ग इत्याह -
एकैको हीति ।
द्रव्यान्तरैः । सम­वा­यि­भि­रि­त्यर्थः ।

द्विती­य­मु­त्था­प्या­र­म्भ­वा­दा­न­ङ्गी­का­रेण दूषयति -
द्रव्येत्यादिना ।
न त्वभ्युपगम्यते तस्मान्नैष नियम इति शेषः । यत्तु क्षीरपरमाणुषु रसान्तरोत्पत्तौ तैरेव दध्यारम्भ इति । तन्न । क्षीरनाशे मानाभावात् , रस­व­द्द­ध्नोऽ­प्ये­क­द्र­व्या­र­भ्य­त्व­स­म्भ­वाच्च, द्रव्य­गु­ण­स­ङ्के­तस्य पौरुषेयस्य श्रुत्य­र्थ­नि­र्ण­या­हे­त­तु­त्वा­दिति भावः ।

लोके कर्तु सहा­य­द­र्श­ना­द­स­हा­या­द्ब्र­ह्मणः कथं सर्ग इति, तत्राह -
तथा चोक्तमिति ।

प्राग­भा­व­शू­न्य­त्व­हे­तु­र­प्य­सिद्ध इत्याह -
यच्चो­क्त­मि­त्या­दिना ।
शब्दाश्रयत्वं विशेषः । शब्दादिमानाकाशः प्रलये नास्ति, 'नासीद्रजो नो व्योम' इति श्रुतेः । नन्वाकाशाभावे काठिन्यं स्यादिति चेत् । सुशिक्षितोऽयं नैयायिकतनयः । न ह्याका­शा­भा­व­स्त­द्धर्मो वा काठिन्यं किन्तु मूर्त­द्र­व्य­वि­शे­ष­स्त­त्सं­यो­ग­वि­शेषो वा काठिन्यम् , तच्च प्रलये नास्तीति भावः ।

'आकाशशरीरं ब्रह्म' इति श्रुते­र­ग्न्यौ­ष्ण्य­व­द्ब्र­ह्म­स्व­भा­व­स्या­का­शस्य सति ब्रह्मणि कथमभावः, तत्राह -
यथा चेति ।
विभु­त्वा­दा­का­श­समं ब्रह्मेति श्रुत्यर्थः ।

विभु­त्वा­त्स्प­र्श­द्र­व्य­त्व­नि­र­व­य­व­द्र­व्य­त्व­लि­ङ्गानां विभ­क्त­त्वा­दि­लि­ङ्ग­स­हि­ता­ग­म­बा­ध­माह -
यदपीत्यादिना ।
धर्मिविकाराभावे गुणनाशो न स्यादिति तर्का­र्थ­म­नि­त्य­प­दम् । गुणाश्रयत्वमेव हेतुः । तच्च स्वस­मा­न­स­त्ता­क­गु­ण­व­त्त्वम् , अतो निर्गुणात्मनि न व्यभिचारः । भूत­त्व­मा­दि­श­ब्दार्थः ।

स्वरू­पा­सि­द्धि­म­प्याह -
विभुत्वादीनां चेति ।
सर्व­मू­र्त­द्र­व्य­सं­योगः परिमाणविशेषो वा विभुत्वं निर्गुणात्मनि दृष्टान्ते नास्ति । संयोगस्य साव­य­व­त्व­नि­य­त­स्या­ज­त्व­सा­ध्य­वि­रु­द्धता च । स्वरूपोपचयरूपं तु विभु­त्व­मा­त्मा­का­श­योर्न समम् , 'ज्याया­ना­का­शात्' इति श्रुतेः । क्वचि­दा­का­श­साम्यं तु ब्रह्मणो यत्कि­ञ्चि­द्ध­र्म­स­म्ब­न्धेन व्यपदिश्यते । असक्तत्वेन वा । पञ्ची­क­र­णा­द­स्प­र्श­त्व­म­सि­द्धम् , कार्य­द्र­व्य­त्वा­न्नि­र­व­य­व­त्व­म­प्य­सि­द्धम् , द्रव्य­त्व­जा­ति­श्चा­त्म­न्य­सि­द्धे­त्यर्थः । नित्य इत्यंशेन साम्यं न विवक्षितम् ।

ननु 'स यथानन्तोऽयमाकाश एवमनन्त आत्मा' इति श्रुति­र्नि­त्य­त्वे­नैव साम्यं ब्रूते, नेत्याह -
एतेनेति ।
आकाशस्य कार्य­त्वे­ना­नि­त्य­त्वा­दि­त्यर्थः । श्रुति­स्त्वा­पे­क्षि­का­न­न्त्य­द्वारा मुख्यानन्त्यं बोधयतीति भावः ।

न्यून­त्वा­च्चा­का­शस्य न मुख्यो­प­मा­न­त्व­मि­त्याह -
ज्यायानिति ।
मुख्यो­प­मा­ना­सत्त्वे श्रुतिः 'न तस्य' इति । तस्मा­दा­का­श­स्यो­प­मा­न­त्व­मा­त्रेण नित्यत्वं नास्तीति भावः ।

अनि­त्य­त्वे­ना­सत्त्वे श्रुतिमाह -
अतोऽन्यदिति ।

यत्त्वेकस्यैव सम्भूतशब्दस्य गौणत्वं मुख्यत्वं चेति । तन्न । आकाशेऽपि तस्य मुख्य­त्व­स­म्भ­वा­दि­त्याह -
तपसीति ।

बल­व­त्ति­त्ति­रि­श्रुत्या छान्दो­ग्य­श्रु­ते­र्न­य­ना­दे­क­वा­क्य­तया स्रष्टरि ब्रह्मात्मनि समन्वय इत्युपसंहरति -
तस्मादिति ॥७॥