भाष्यरत्नप्रभाव्याख्या
वियदधिकरणम्
अत्राकाशस्योत्पत्त्यनुत्पत्तिश्रुत्योर्मिथोविरिधोऽस्ति न वेति वाक्यभेदैकवाक्यत्वाभ्यां सन्देहे यद्युत्पत्तिस्तदा वाक्यभेदेन विरोधादप्रामाण्यमनयोः श्रुत्योरिति पूर्वपक्षयिष्यन्नादावनुत्पत्तिपक्षमेकदेशि गृह्णातीत्याह -
तत्र तावदिति ।
उत्पत्तिश्रुतिर्मुख्या नास्तीति गूढाभिसन्धिः ॥१॥
सम्प्रति पूर्वपक्षयति सूत्रकारः -
अस्ति त्विति ।
एकवाक्यत्वेन प्रामाण्यसम्भवे किमिति श्रुत्योरप्रामाण्यमिति शङ्कते -
नन्वेकवाक्यतेति ।
एकवाक्यत्वासम्भवादप्रामाण्यं युक्तमित्याह -
सत्यमित्यादिना ।
एकस्य युगपत्कार्यद्वयासम्बन्धेऽपि क्रमेण सम्बन्धसम्भवादेकवाक्यतेति मुख्यसिद्धान्ती शङ्कते -
ननु सकृदिति ।
अप्रामाण्यवादी दूषयति -
नैवमिति ।
क्रमो न युज्यते द्वयोः श्रुतप्राथम्यभङ्गापत्तेरित्यर्थः ।
एकस्माद्द्विदलबीजाद्दलद्वयवदस्तूभयं प्रथमजमित्यत आह -
न चेति ।
वायोरग्निरिति क्रमश्रुतिभङ्गादिति शेषः ।
छान्दोग्यश्रुतेस्तित्तिरिश्रुतिविरुद्धार्थत्वमुक्त्वा तित्तिरिश्रुतेस्तद्विरुद्धार्थत्वमाह -
एतेनेति ।
एतत्पदार्थमाह -
तस्मादिति ।
छान्दोग्येऽपि श्रुतं तेजसः प्राथम्यमत्र दुर्योज्यमित्यर्थः ।
किञ्च सत्पदार्थ आत्मा छान्दोग्ये तेजस उपादानं श्रूयते, अत्र तु वायुरिति नैकवाक्यतेत्याह -
वायोरिति ॥२॥
एवं श्रुत्योर्विरोधादप्रामाण्यमिति पूर्वपक्षे प्राप्ते स एव वियदनुत्पत्तिवादि स्वमतेन प्रामाण्यं ब्रूत इत्याह -
अस्मिन्निति ।
एवमाध्यायसमाप्तेरधिकरणेषु प्रथमं विरोधाच्छ्रुत्यप्रामाण्यमिति पूर्वपक्षफलं तत एकदेशिसिद्धान्तः, पश्चान्मुख्यसिद्धान्ते श्रुतीनामविरोधेनैक वाक्यतया ब्रह्मणि समन्वयसिद्धिरिति फलं क्रमश्चेत्यवगन्तव्यम् ।
तत्र श्रुत्योर्विरोधे सत्यध्ययनविध्युपात्तयोरप्रामाण्यायोगाद्वियदुत्पत्त्यसम्भवरूपतर्कानुगृहीतच्छान्दोग्यश्रुतिर्मुख्यार्था इतरा गौणीत्यविरोध इत्येकदेशिमतं विवृणोति -
नास्तीत्यादिना ।
आकाशो नोत्पद्यते सामग्रीशून्यत्वात् , आत्मवत् । न चाविद्याब्रह्मणोः सत्त्वाद्धेत्वसिद्धिः, विजातीयत्वेनानयोरारम्भकत्वायोगादसंयुक्तत्वाच्च । संयोग एव हि द्रव्यस्यासमवायिकारणमतः समवाय्यसमवायिनोरभावान्न हेत्वसिद्धिरित्यर्थः ।
प्रागभावशून्यत्वाच्चात्मवदाकाशो नोत्पद्यत इत्याह -
उत्पत्तिमतां चेति ।
प्रकाशश्चाक्षुषानुभवः । आदिपदात्तमोध्वंसपाकयोर्ग्रहणम् । मूर्तद्रव्याश्रयत्वं ह्यकाशस्य कार्यम् , तच्च प्रलयेऽप्यस्ति परमाण्वाश्रयत्वात् । अतो न प्रागभाव इत्यर्थः ।
प्रागभावसत्त्वं स्फुटयति -
किं हीति ।
स्थूलाश्रयोऽवकाशः सूक्ष्माश्रयच्छिद्रमण्वाश्रयः सुषिरमिति भेदः ।
किञ्चात्मवदाकाशो न जायते, विभुत्वात् , अस्पर्शद्रव्यत्वाच्चेत्याह -
पृथिव्यादीति ।
तस्मादुक्ततर्कबलाद्गौणी द्रष्टव्येत्यन्वयः ।
भेदोक्तेर्गौणत्वे वैदिकोदाहरणमाह -
वेदेऽप्यारण्यानिति ।
आकाशेष्विति भेदव्यपदेशो गौण इति सम्बन्धः ॥३॥
न केवलं तर्कादाकाशस्यानुत्पत्तिः, किन्तु श्रुतितोऽपीत्याहसूत्रकारः -
शब्दाच्चेति ।
नित्यभावस्यानादित्वादिति भावः । आत्मेति च शब्द इहोदाहरणमित्यन्वयः । आकाशः शरीरमस्येति बहुव्रीहिणात्यन्तसाम्यभानाद्ब्रह्मवदाकाशस्यानादित्वमित्यर्थः ॥४॥
पदोत्तरमिति ।
शङ्कोत्तरमिति यावत् ।
तान्येव शङ्कापदानि पठति -
स्यादेतदिति ।
अधिकारे प्रकरणे ।
यथैकस्मिन्ब्रह्मप्रकरणे 'अन्नं ब्रह्म', 'आनन्दो ब्रह्म' इति वाक्ययोर्ब्रह्मशब्दस्यान्ने गौणत्वमानन्दे मुख्यता तथैकवाक्यस्थस्यैकस्यापि सम्भूतशब्दस्य गुणमुख्यार्थभेदो योग्यताबलादित्याह -
स्याच्चेति ।
उदाहरणान्तरमाह -
यथा चेति ।
अभेदोपचारो भक्तिः ।
मुख्यसिद्धान्त्याक्षिपति -
कथं पुनरिति ।
स एवाक्षेपद्वयं स्पष्टयति -
नन्विति ।
अद्वितीयत्वश्रुतिबाधः सर्वविज्ञानप्रतिज्ञाबाधश्चेत्यर्थः ।
प्रथमाक्षेपं दृष्टान्तेन परिहरति -
एकमेवेति ।
कार्यरूपद्वितीयशून्यत्वं प्रागवस्थायामवधारणश्रुत्यर्थ इत्यर्थः । कुले गृहे । अमत्राणि घटादीनि पात्राणि ।
एकमेवेत्यवधारणव्यावर्त्यं कार्यमिति व्याख्यायाद्वितीयपदव्यावर्त्यमाह -
अद्वितीयश्रुतिरिति ।
आकाशस्य द्वितीयत्वमङ्गीकृत्याद्वितीयादिपदसङ्कोचः कृतः, तदपि नास्तीत्याह -
न च नभसापीति ।
धर्मसाम्ये ब्रह्मनभसोः कथं भेदः, तत्राह -
सर्गकाले त्विति ।
धर्मसाम्यादद्वितीयत्वोपचार इत्यर्थे श्रुतिमाह -
तथा चाकशेति ।
द्वितीयमाक्षेपं परिहरति -
अत एवेति ।
अभेदोपचारादेवेत्यर्थः ।
नभसो ब्रह्मतत्कार्याभ्यासभिन्नदेशकालत्वाच्च तज्ज्ञाने तज्ज्ञानमित्याह -
अपि चेति ॥५॥
एवमाकाशस्यानुत्पत्तौ सर्वश्रुतीनामविरोध इत्येकदेशिसिद्धान्तः प्राप्तस्तं मुख्यसिद्धान्ती दूषयति -
प्रतिज्ञेति ।
अहानिरबाधः । सामयजुरथर्वणशाखाभेदज्ञापनार्था इति शब्दाः ।
न काचनेति ।
आत्मभिन्नं ज्ञेयं नास्तीत्यर्थः ।
ननु सर्वस्य ब्रह्माव्यतिरेकात्प्रतिज्ञाया अहानिरित्यस्तु, तथापि जीवादिवदनुत्पन्नस्यापि नभसो ब्रह्मणि कल्पितत्वेनाव्यतिरेकात्प्रतिज्ञासिद्धिः किं न स्यात् , किमुत्पत्त्येत्यत आह -
शब्देभ्यश्चेति ।
अव्यतिरेक एव न्यायस्तेनेत्यर्थः ।अयं भावःजीवस्य तावदात्मत्वाद्ब्रह्माव्यतिरेकः । अज्ञानतत्सम्बन्धयोः कल्पितत्वेनाव्यतिरेकः । स्वतन्त्राज्ञानायोगादज्ञानान्यजडद्रव्यस्य तु कार्यत्वेनैवाव्यतिरेकसिद्धिः, तस्याकार्यत्वे प्रधानवत्स्वातन्त्र्यादव्यतिरेकायोगात् । तथाहुर्न्यायविदः 'नित्यद्रव्याणि स्वतन्त्राणि भिन्नान्यनाश्रितानि' इति ।
तस्मात्प्रतिज्ञासिद्धये आकाशस्य कार्यत्वेनैवाव्यतिरेको वाच्य इति दृष्टान्तसृष्टिसार्वात्म्यशब्दानाह -
तथा हीति ।
तेन तेन दृष्टान्तेनेति ।
यजुषि दुन्दुभ्यादिदृष्टान्तेनाथर्वणे ऊर्णनाभ्यादिदृष्टान्तेनेत्यर्थः । यजुषि प्रतिज्ञासाधका' इदं सर्वम्' इतिशब्दाः, आथर्वणे 'ब्रह्मैवेदम्' इति शब्दा इति भावः ।
एवमाकाशोत्पत्तिकथनादेकदेशिमते दूषिते श्रुत्यप्रामाण्यवादी स्वोक्तं स्मारयति -
सत्यं दर्शितमिति ।
मुख्यसिद्धान्त्याह -
न । एकेति ।
'तत्तेजोऽसृजत' इति सकृच्छ्रुतस्य स्रष्टुराकाशतेजोभ्यां युगपत्सम्बन्धे तित्तिरिक्रमबाधात् , क्रमेणाकाशं सृष्ट्वा तेजोऽसृजतेति सम्बन्धे तेजःप्राथम्यभङ्गप्रसङ्गात् , वस्तुनि विकल्पासम्भवेन तयोः शाखाभेदेन प्राथम्यव्यवस्थाया अयोगात् नैकवाक्यतेति प्राप्ते मुख्य एव दूषयति -
नैष दोष इति ।
अप्रामाण्यकल्पनाद्वरमपौरुषेयश्रुतीनामेकवाक्यत्वेन प्रामाण्यकल्पनम् , तच्चैकवाक्यत्वं बलवच्छ्रुत्या दुर्बलश्रुतेः कल्प्यम् , बलवती च तित्तिरिश्रुतिः, प्रकृतिपञ्चम्या पौर्वापर्याख्यक्रमस्य श्रुतत्वात् । छान्दोग्यश्रुतिस्तु दुर्बला, तेजःप्राथम्यश्रुत्यभावात् । तेजःसर्गमात्रं तु श्रुतं तृतीयत्वेन परिणेयमित्येकवाक्यतेत्यर्थः । यदुक्तमेकदेशिना छान्दोग्यश्रुत्याकाशोत्पत्तिर्वार्यत इति तन्निरस्तम् ।
किञ्च सा श्रुतिः किं तेजोजन्मपरा, उत तेजोजन्म वियदनुत्पत्तिश्चेत्युभयपरा । आद्ये न तद्वारणमित्याह -
न हीति ।
अविरोधादित्यर्थः ।
न द्वितीयः, श्रुत्यन्तरविरोधेनोभयपरत्वकल्पनायोगाद्वाक्यभेदापत्तेश्चेत्याह -
एकस्येति ।
नन्वेकस्य स्रष्टुरनेकार्थसम्बन्धवद्वाक्यस्याप्यनेकार्थता किं न स्यादित्यत आह -
स्रष्टा त्विति ।
एकस्य कर्तुरनेकार्थसम्बन्धो दृष्टः । न त्वेकस्य वाक्यस्य नानार्थत्वं दृष्टम् । नानार्थकप्रयोगे तु पय आनयेत्यादावावृत्त्या वाक्यभेद एव । आनयनस्य जलक्षीराभ्यां पृथक्सम्बन्धादित्यर्थः ।
फलितमाह -
इत्येकेति ।
एकस्य शब्दस्यावृत्तिं विनानेकार्थत्वं नास्ति चेदसृजतेति शब्दस्य छान्दोग्य उपसंहृताकाशादिसम्बन्धार्थमावृत्तिदोषः स्यादित्यत आह -
न चेति ।
छान्दोग्यस्थतेजोजन्म आकाशादिजन्मपूर्वकम् , तेजोजन्मत्वात् , तित्तिरिस्थतेजोजन्मवदित्याकाशादिजन्मोपसंहारे 'तदाकाशमसृजत' इति वाक्यान्तरस्यैव कल्पनान्नावृत्तिदोष इत्यर्थः ।
श्रुत्यन्तरस्थः क्रमः श्रुत्यन्तरे ग्राह्य इत्यत्र दृष्टान्तमाह -
यथा चेति ।
सृष्टौ तात्पर्यातात्पर्याभ्यां दृष्टान्तश्रुतिवैषम्यं शङ्कते -
नन्वित्यादिना ।
तेजःप्राथम्यस्वीकारे आकाशसर्गो धर्मि तद्धर्मः प्राथम्यं चेति द्वयं श्रुतं बाधनीयमिति गौरवम् , आकाशप्राथम्ये त्वार्थिकतेजः सर्गप्राथम्यमात्रबाध इति लाघवमिति मत्वाह -
नेत्युच्यत इति ।
किञ्च प्रधानधर्मित्यागाद्वरं गुणभूतस्य तेजःप्राथम्यस्य धर्मस्य त्याग इत्याह -
न हीति ।
किञ्च किं सृष्टिपरश्रुतिसिद्धत्वात्तेजःप्राथम्यं गृह्यत उत प्रथमस्थाने तेजसः सर्गश्रुत्यार्थात्प्राथम्यभानात् ।
नाद्य इत्याह -
अपि चेति ।
द्वितीयमनूद्य दूषयति -
अर्थात्त्विति ।
यदुक्तं वस्तुनि विकल्पासम्भवादुभयोः प्राथम्यं शाखाभेदेन व्यवस्थितं न भवति, नाप्युभयोर्द्विदलाङ्कुरवत्समुच्चित्योत्पत्त्या प्राथम्यं वायोरग्निरिति क्रमबाधापातादिति, तदिष्टमेवेत्याह -
विकल्पेति ।
न केवलं श्रुतिदेव्योरविरोधः सौहार्दं चास्तीत्याह -
अपि चेति ।
वियदुपसङ्ग्राह्यमित्यन्वयः ।
वियदनुत्पत्तिवादिनोक्तमनूद्य प्रतिज्ञाया अद्वितीयश्रुतेश्च मुख्यार्थतात्पर्यावगमान्न गौणार्थतेति दूषयति -
यच्चोक्तमित्यादिना ।
प्रकृतिविकारन्यायस्तदनन्यत्वन्यायः । उदकं क्षीरस्थमपि क्षीरज्ञानान्न गृह्यते भेदादिति भावः ।
मास्तु सम्यग्ज्ञानं श्रुतेर्भ्रान्तिमूलत्वसम्भवादित्याशङ्क्यापौरुषेयत्वान्मैवमित्याह -
न च वेदस्येति ।
माया भ्रान्तिस्तयालीकं मिथ्याभाषणं तेन वञ्चनमयथार्थबोधनम् । आदिपदाद्विप्रलिप्साप्रमादकरणापाटवानि गृह्यन्ते ।
प्रतिज्ञामुख्यत्वमभिधायाद्वितीयश्रुतिमुख्यतामाह -
सावधारणेति ।
सर्वद्वैतनिषेधपरेत्यर्थः ।
उभयगौणत्वेऽद्भुतवदुपन्यासो मृदादिदृष्टान्तैस्तत्साधनं च न स्यादिति दोषान्तरमाह -
न चेत्यादिना ॥६॥
कार्यमेव वस्त्वेकदेश आकाशो नोत्पद्यते सामग्रीशून्यत्वादित्यत्र आकाशो विकारः विभक्तत्वात् घटादिवदिति सत्प्रतिपक्षमाह -
यत्पुनरित्यादिना ।
यो विभक्तः स विकार इत्यन्वयमुक्त्वा यस्त्वविकारः स न विभक्तो यथात्मेति व्यतिरिकव्याप्तिमाह -
न त्वविकृतमिति ।
दिगादिषु व्यभिचारमाशङ्क्य पक्षसमत्वान्मैवमित्याह -
एतेनेति ।
विभक्तत्वेनेत्यर्थः ।
आत्मनि व्यभिचारं शङ्कते -
नन्विति ।
धर्मिसमानसत्ताकविभागस्य हेतुत्वात्परमार्थात्मनि विभागस्य कल्पितत्वेन भिन्नसत्ताकत्वान्न व्यभिचार इत्याह -
नेति ।
अत्र चाज्ञानान्यद्रव्यत्वं विशेषणम् , अतो नाज्ञानतत्सम्बन्धादौ व्यभिचारः ।
नन्वात्मा कार्यः, विभक्तत्वात् , वस्तुत्वाद्वा, घटवदित्याभासतुल्यमिदमनुमानमित्याशङ्क्यात्मनः परमकारणत्वेन श्रुतस्य कार्यत्वे शून्यताप्रसङ्ग इति बाधकसत्त्वात्तस्याभावत्वम् , नात्र किञ्चिद्बाधकमस्ति प्रत्युत आकाशस्याकार्यत्वे नित्यानेकद्रव्यकल्पना श्रौतप्रतिज्ञाहान्यादयो बाधकाः सन्तीति नाभासतुल्यतेत्याह -
आत्मन इति ।
इष्टप्रसङ्ग इति वदन्तं प्रत्याह -
आत्मत्वादिति ।
आत्माभावः केन चिज्ज्ञायते न वा । आद्ये यो ज्ञाता स परिशिष्यत इति न शून्यता । द्वितीयेऽपि न शून्यता मानाभावादित्यर्थः ।
किञ्च यद्धि कार्यं सत्तास्फूर्त्योरन्यापेक्षं तन्निराकार्यम् , आत्मा त्वकार्यो निरपेक्षत्वान्न बाधयोग्य इत्याह -
नह्यात्मेत्यादिना ।
कस्यचित्कारणस्यागन्तुकः कार्यो न हि । सत्तास्फूर्त्योः सिद्ध्योरनन्यायत्तत्वादित्यक्षरार्थः ।
तत्र स्फूर्तेरनन्यायत्तत्वं विवृणोति -
न हीति ।
यदुक्तं सुरेश्वराचार्यैः 'प्रमाता च प्रमाणं च प्रमेयं प्रमितिस्तथा । यस्य प्रसादात्सिध्यन्ति तत्सिद्धौ किमपेक्ष्यते ।' इति । यथा श्रुतिराह 'पुरुषः स्वयं ज्योतिः', 'तस्य भासा सर्वमिदं विभाति' इति च ।
नन्वात्मनः स्वतः सिद्धौ प्रमाणवैयर्थ्यम् , तत्राह -
तस्येति ।
ननु प्रमेयस्यापि स्वप्रकाशत्वं किं न स्यादित्यत आह -
न हीति ।
अतो न प्रमाणवैयर्थ्यमिति भावः ।
आत्मापि मानाधीनसिद्धिकः किं न स्यादित्यत आह -
आत्मा त्विति ।
अयमर्थः - निश्चितसत्ताकं हि ज्ञानं प्रमेयसत्तानिश्चायकम् , गेहे घटो दृष्टो न वेति ज्ञानसंशये न दृष्ट इति व्यतिरेकनिश्चये चार्थस्वरूपनिश्चयात् । ज्ञानसत्तानिश्चयश्च न स्वतः, कार्यस्य स्वप्रकाशत्वायोगात् । नापि ज्ञानान्तरात् , अनवस्थानात् । अतः साक्षिणैव ज्ञानसत्तानिश्चयो वाच्यः । तत्र साक्षिणश्चेज्ज्ञानाधीनसत्तानिश्चयः, अन्योन्याश्रयः स्यात् । अतः सर्वसाधकत्वादात्मा स्वतः सिद्ध इति ।
स्वप्रकाशस्यापि बाधः किं न स्यादित्यत आह -
न चेति ।
जडं हि परायत्तप्रकाशत्वादागन्तुकं बाधयोग्यं न प्रकाशात्मस्वरूपम् , तस्य सर्वबाधसाक्षिस्वरूपस्य निराकर्त्रन्तराभावात् , स्वस्य च स्वनिराकर्तृत्वायोगात् । न हि सुनिपुणेनापि स्वाभावो द्रष्टुं शक्यत इत्यर्थः ।
एवं स्वतः स्फूर्तित्वादात्मा न बाध्य इत्युक्त्वा स्वतः सत्ताकत्वाच्च न बाध्य इत्याह -
तथाहमेवेति ।
ज्ञानज्ञेययोः सत्ताव्यभिचारेऽपि ज्ञातुः सदैकरूपत्वान्न सत्ताव्यभिचार इत्यर्थः ।
मास्तु जीवतो ज्ञातुरन्यथास्वभावः, मृतस्य तु स्यादित्यत आह -
तथेति ।
उच्छेदो विनाशः । अन्यथास्वभावत्वं मिथ्यात्वं वा सम्भावयितुमपि न शक्यम् , अहमस्मीत्यनुभवसिद्धसत्स्वभावस्य बाधकाभावादित्यर्थः ।
एवमात्मनः शून्यत्वनिरासेन शून्यताप्रसङ्गस्यानिष्टत्वमुक्तम् , ततश्चात्मनः कार्यत्वनुमानमाभास इत्याह -
एवमिति ।
अकार्यात्मनः सिद्धौ तस्याविद्यासहितस्योपादानस्यादृष्टादिनिमित्तस्य च सत्त्वादाकाशानुत्पत्तिहेतोः सामग्रीशून्यत्वस्य स्वरूपासिद्धेरुक्तसत्प्रतिपक्षबाधाच्चाकाशस्य कार्यत्वं निरवद्यमित्याह -
कार्यत्वं चेति ।
आत्माविद्ययोर्विजातीयत्वान्नाकाशारम्भकत्वमित्युक्तमनूद्य निरस्यति -
यत्त्वित्यादिना ।
किं कारणमात्रस्य साजात्यनियम उत समवायिनः । तत्राद्यं निरस्य द्वितीयं शङ्कते -
स्यादेतदिति ।
किं समवायितावच्छेदकधर्मेण साजात्यमुत सत्त्वादिना । नाद्य इत्याह -
तदपीति ।
न च रज्जवादि न द्रव्यान्तरमिति वाच्यम् , पटादेरपि तथात्वापातात् ।
द्वितीयोऽस्मदिष्टः, आत्माविद्ययोर्वस्तुत्वेन साजात्यादित्याह -
सत्त्वेति ।
उपादानस्य साजात्यनियमं निरस्य संयुक्तानेकत्वनियममद्वितीयस्यासङ्गस्याप्यात्मन उपादानत्वसिद्धये निरस्यति -
नापीत्यादिना ।
किमारम्भकमात्रस्यायं नियम उत द्रव्यारम्भकस्य । नाद्य इत्याह -
अण्विति ।
द्ध्वयणुकस्य ज्ञानस्य चासमवायिकारणसंयोगजनकमाद्यं कर्म ।
यद्यप्यदृष्टवदात्मसंयुक्ते अणुमनसी आद्यकर्मारम्भके तथापि कर्मसमवायिन एकत्वादनेकत्वनियमभङ्ग इत्याह -
एकैको हीति ।
द्रव्यान्तरैः । समवायिभिरित्यर्थः ।
द्वितीयमुत्थाप्यारम्भवादानङ्गीकारेण दूषयति -
द्रव्येत्यादिना ।
न त्वभ्युपगम्यते तस्मान्नैष नियम इति शेषः । यत्तु क्षीरपरमाणुषु रसान्तरोत्पत्तौ तैरेव दध्यारम्भ इति । तन्न । क्षीरनाशे मानाभावात् , रसवद्दध्नोऽप्येकद्रव्यारभ्यत्वसम्भवाच्च, द्रव्यगुणसङ्केतस्य पौरुषेयस्य श्रुत्यर्थनिर्णयाहेततुत्वादिति भावः ।
लोके कर्तु सहायदर्शनादसहायाद्ब्रह्मणः कथं सर्ग इति, तत्राह -
तथा चोक्तमिति ।
प्रागभावशून्यत्वहेतुरप्यसिद्ध इत्याह -
यच्चोक्तमित्यादिना ।
शब्दाश्रयत्वं विशेषः । शब्दादिमानाकाशः प्रलये नास्ति, 'नासीद्रजो नो व्योम' इति श्रुतेः । नन्वाकाशाभावे काठिन्यं स्यादिति चेत् । सुशिक्षितोऽयं नैयायिकतनयः । न ह्याकाशाभावस्तद्धर्मो वा काठिन्यं किन्तु मूर्तद्रव्यविशेषस्तत्संयोगविशेषो वा काठिन्यम् , तच्च प्रलये नास्तीति भावः ।
'आकाशशरीरं ब्रह्म' इति श्रुतेरग्न्यौष्ण्यवद्ब्रह्मस्वभावस्याकाशस्य सति ब्रह्मणि कथमभावः, तत्राह -
यथा चेति ।
विभुत्वादाकाशसमं ब्रह्मेति श्रुत्यर्थः ।
विभुत्वात्स्पर्शद्रव्यत्वनिरवयवद्रव्यत्वलिङ्गानां विभक्तत्वादिलिङ्गसहितागमबाधमाह -
यदपीत्यादिना ।
धर्मिविकाराभावे गुणनाशो न स्यादिति तर्कार्थमनित्यपदम् । गुणाश्रयत्वमेव हेतुः । तच्च स्वसमानसत्ताकगुणवत्त्वम् , अतो निर्गुणात्मनि न व्यभिचारः । भूतत्वमादिशब्दार्थः ।
स्वरूपासिद्धिमप्याह -
विभुत्वादीनां चेति ।
सर्वमूर्तद्रव्यसंयोगः परिमाणविशेषो वा विभुत्वं निर्गुणात्मनि दृष्टान्ते नास्ति । संयोगस्य सावयवत्वनियतस्याजत्वसाध्यविरुद्धता च । स्वरूपोपचयरूपं तु विभुत्वमात्माकाशयोर्न समम् , 'ज्यायानाकाशात्' इति श्रुतेः । क्वचिदाकाशसाम्यं तु ब्रह्मणो यत्किञ्चिद्धर्मसम्बन्धेन व्यपदिश्यते । असक्तत्वेन वा । पञ्चीकरणादस्पर्शत्वमसिद्धम् , कार्यद्रव्यत्वान्निरवयवत्वमप्यसिद्धम् , द्रव्यत्वजातिश्चात्मन्यसिद्धेत्यर्थः । नित्य इत्यंशेन साम्यं न विवक्षितम् ।
ननु 'स यथानन्तोऽयमाकाश एवमनन्त आत्मा' इति श्रुतिर्नित्यत्वेनैव साम्यं ब्रूते, नेत्याह -
एतेनेति ।
आकाशस्य कार्यत्वेनानित्यत्वादित्यर्थः । श्रुतिस्त्वापेक्षिकानन्त्यद्वारा मुख्यानन्त्यं बोधयतीति भावः ।
न्यूनत्वाच्चाकाशस्य न मुख्योपमानत्वमित्याह -
ज्यायानिति ।
मुख्योपमानासत्त्वे श्रुतिः 'न तस्य' इति । तस्मादाकाशस्योपमानत्वमात्रेण नित्यत्वं नास्तीति भावः ।
अनित्यत्वेनासत्त्वे श्रुतिमाह -
अतोऽन्यदिति ।
यत्त्वेकस्यैव सम्भूतशब्दस्य गौणत्वं मुख्यत्वं चेति । तन्न । आकाशेऽपि तस्य मुख्यत्वसम्भवादित्याह -
तपसीति ।
बलवत्तित्तिरिश्रुत्या छान्दोग्यश्रुतेर्नयनादेकवाक्यतया स्रष्टरि ब्रह्मात्मनि समन्वय इत्युपसंहरति -
तस्मादिति ॥७॥