अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

आनन्दमयाधिकरणम्

वृत्ता­नु­वा­दे­नो­त्त­र­सू­त्र­स­न्द­र्भ­मा­क्षि­पति
जन्मादिति ।
प्रथमसूत्रस्य शास्त्रो­पो­द्घा­त­त्वा­ज्ज­न्मा­दि­सू­त्र­मा­र­भ्ये­त्यु­क्तम् । सर्ववेदान्तानां कार्ये प्रधानाद्यचेतने च समन्वयनिरासेन ब्रह्मपरत्वं व्याख्यातम् । अतः प्रथ­मा­ध्या­या­र्थ­स्य­स­मा­प्त­त्वा­दु­त्त­र­ग्र­न्था­रम्भे किं कारणमित्यर्थः ।

वेदान्तेषु सगु­ण­नि­र्गु­ण­ब्र­ह्म­वा­क्यानां बहुलमुपलब्धेः, तत्र कस्य वाक्यस्य सगु­णो­पा­स­ना­वि­धि­द्वारा निर्गुणे समन्वयः कस्य वा गुणविवक्षां विना साक्षादेव ब्रह्मणि समन्वय इत्याकाङ्क्षैव कारणमित्याह
उच्यत इति ।

सङ्क्षिप्य सगु­ण­नि­र्गु­ण­वा­क्या­र्थ­माह
द्विरूपं हीति ।
नामरूपात्मको विकारः सर्वं जगत् , तद्भेदो हिर­ण्य­श्म­श्रु­त्वा­दि­वि­शेष इति वाक्यार्थः ।

वाक्या­न्यु­दा­ह­रति
यत्र हीत्यादिना ।
यस्यां खल्व­ज्ञा­ना­व­स्थायां द्वैतमिव कल्पितं भवति तत्तदेतरः सन्नितरं पश्यतीति दृश्योपाधिकं वस्तु भाति । यत्र ज्ञानकाले विदुषः सर्वं जग­दा­त्म­मा­त्र­म­भू­त्त­त्तदा तु केन कं पश्ये­दि­त्या­क्षे­पा­न्नि­रु­पा­धिकं तत्त्वं भाति । यत्र भूम्नि निश्चितो विद्वान् द्वितीयं किमपि न वेत्ति सोऽद्वितीयो भूमा परमात्मा निर्गुणः । अथ निर्गु­णो­क्त्य­न­न्तरं सगुणमुच्यते । यत्र सगुणे स्थितो द्वितीयं वेत्ति तदल्पं परिच्छिन्नम् , यस्तु भूमा तदमृतं नित्यम् ।

अथेति ।
पूर्व­व­द्व्या­ख्ये­यम् । धीरः परमात्मैव सर्वाणि रूपाणि विचित्य सृष्ट्वा नामानि च कृत्वा बुद्ध्यादौ प्रविश्य जीवसंज्ञो व्यवहरन्यो वर्तते स सगुणस्तं निर्गुणत्वेन विद्वानप्यमृतो भवति । निर्गताः कला अंशा यस्मा­त्त­न्नि­ष्क­लम् । अतो निरं­श­त्वा­न्नि­ष्क्रि­यम् । अतः शान्तमपरिणामि । निरवद्यं रागा­दि­दो­ष­शू­न्यम् । अञ्जनं मूलतमःसम्बन्धो धर्मादिकं वा तच्छून्यं निरञ्जनम् । किञ्चामृतस्य मोक्षस्य स्वयमेव वाक्यो­त्थ­वृ­त्ति­स्थ­त्वेन परमुत्कृष्टं सेतुं लौकि­क­से­तु­व­त्प्रा­प­कम् । यथा दग्धेन्धनोऽनलः शाम्यति तमिवाविद्यां तज्जं च दग्ध्वा प्रशान्तं निर्गुणमात्मानं विद्यादित्यर्थः ।

नेति नेतीति ।
व्याख्यातम् । स्थूला­दि­द्वै­त­शू­न्यम् ।

रूपद्वये श्रुतिमाह -
न्यूनमिति ।
द्वैतस्थानं न्यूनमल्पं सगुणरूपं निर्गुणादन्यत् , तथा सम्पूर्णं निर्गुणं सगु­णा­द­न्य­दि­त्यर्थः ।

एकस्य द्विरूपत्वं विरुद्धमित्यत आह
विद्येति ।
विद्याविषयो ज्ञेयं निर्गुणत्वं सत्यम् अविद्याविषय उपास्यं सगुणत्वं कल्पि­त­मि­त्य­वि­रोधः ।

तत्रा­वि­द्या­वि­षयं विवृणोति
तत्रेति ।
निर्गु­ण­ज्ञा­ना­र्थ­मा­रो­पि­त­प्र­प­ञ्च­मा­श्रि­त्य­बा­धा­त्प्रा­क्काले गुड­जि­ह्वि­का­न्या­येन तत्त­त्फ­ला­र्था­न्यु­पा­स­नानि विधीयन्ते, तेषां चित्तै­का­ग्र्य­द्वारा ज्ञानं मुख्यं फलमिति तद्वाक्यानामपि महातात्पर्यं ब्रह्मणीति मन्तव्यम् । 'नाम ब्रह्म' इत्या­द्यु­पा­स्तीनां काम­चा­रा­दि­र­भ्यु­दयः फलम् , दह­रा­द्यु­पा­स्तीनां कामा­चा­रा­दि­र­भ्यु­दयः फलम् , दह­रा­द्यु­पा­स्तीनां क्रममुक्तिः, उद्भी­था­दि­ध्या­नस्य कर्मसमृद्धिः फलमिति भेदः । ध्यानानां मानसत्वात् , ज्ञाना­न्त­र­ङ्ग­त्वाच्च, ज्ञानकाण्डे विधानमिति भावः ।

ननूपास्यब्रह्मण एक­त्वा­त्क­थ­मु­पा­स­नानां भेदः, तत्राह
तेषामिति ।

गुणविशेषाः सत्यकामत्वादयः । हृदयादिरुपाधिः । अत्र स्वयमेवाशङ्क्य परिहरति
एक इति ।
पर­मा­त्म­स्व­रू­पा­भे­देऽ­प्यु­पा­धि­भे­दे­नो­प­हि­तो­पा­स्य­रू­प­भे­दा­दु­पा­स­ननां भेदे सति फलभेद इति भावः ।

तं परमात्मानं यद्यद्गुणत्वेन लोका राजानमिवोपासते तत्त­द्गु­ण­व­त्व­मेव तेषां फलं भवति । क्रतुः सङ्कल्पो ध्यानम् । इह यादृशध्यानवान् भवति मृत्वा तादृशोपास्यरूपो भवति । अत्रैव भगवद्वाक्यमाह
स्मृतेश्चेति ।

ननु सर्वभूतेषु निरतिशयात्मन एक­त्वा­दु­पा­स्यो­पा­स­क­यो­स्ता­र­त­म्य­श्रु­तयः कथमित्याशङ्क्य परिहरति
यद्यप्येक इति ।
उक्ता­ना­मु­पा­धीनां शुद्धि­ता­र­त­म्या­दै­श्व­र्य­ज्ञा­न­सु­ख­रू­प­श­क्तीनां तारतम्यरूपा विशेषा भवन्ति तैरे­क­रू­प­स्या­त्मन उत्तरोत्तरं मनु­ष्या­दि­हि­र­ण्य­ग­र्भा­न्ते­प­ष्वा­वि­र्भा­व­व­ता­र­तम्यं श्रूयते । तस्यात्मन आत्मानं स्वरू­प­मा­वि­स्तरां प्रकटतरं यो वेद उपास्ते सोऽश्नुते तदिति तर­प्प्र­त्य­या­दि­त्यर्थः । तथाच निकृ­ष्टो­पा­धि­रा­त्मै­वो­पा­सकः, उत्कृ­ष्टो­पा­धि­री­श्वर उपास्य इत्यौपाधिकं तार­त­म्य­म­वि­रु­द्ध­मिति भावः ।

अत्रार्थे भग­व­द्गी­ता­मु­दा­ह­रति
स्मृताविति ।

अत्र सूर्यादेरपि न जीव­त्वे­नो­पा­स्यता किन्त्वी­श्व­र­त्वे­ने­त्युक्तं भवति । तत्र सूत्र­का­र­सं­म­ति­माह
एवमिति ।

उदयः असम्बन्धः । एवं यस्मिन्वाक्ये उपा­धि­र्वि­व­क्षितः तद्वा­क्य­मु­पा­स­न­प­र­मिति वक्तु­मु­त्त­र­सू­त्र­स­न्द­र्भ­स्या­रम्भ इत्युक्त्वा यत्र न विवक्षितः तद्वाक्यं ज्ञेय­ब्र­ह्म­प­र­मिति निर्ण­या­र्थ­मा­रम्भ इत्याह
एवं सद्य इति ।
अन्नमयादिकोशा उपाधिविशेषाः । वाक्य­ग­ति­स्ता­त्प­र्यम् ।

आर­म्भ­स­म­र्थ­न­मु­प­सं­ह­रति
एवमेकमपीति ।

सिद्ध­व­दु­क्त­ग­ति­सा­मा­न्यस्य साध­ना­र्थ­म­प्यु­त्त­रा­रम्भ इत्याह
यच्चेति ।
अन्नं प्रसिद्धम् , प्राण­म­नो­बुद्ध्यः हिरण्यगर्भरूपाः बिम्ब­चै­त­न्य­मी­श्वर आनन्दः । तेषां पञ्चानां विकारा आध्यात्मिका देह­प्रा­ण­म­नो­बु­द्धि­जीवा अन्नमयादयः पञ्चकोशाः इति श्रुतेः परमार्थः ।

पूर्वाधिकरणे गौण­मु­ख्ये­क्ष­ण­यो­र­तु­ल्य­त्वेन संश­या­भा­वा­द्गौ­ण­प्रा­य­पाठो न निश्चायक इत्युक्तं तर्हि मयटो विकारे प्राचुर्ये च मुख्य­त्वा­त्सं­शये विका­र­प्रा­य­पा­ठा­दा­न­न्दा­धि­कारो जीव आनन्दमय इति निश्चयोऽस्तीति प्रत्यु­दा­ह­र­ण­स­ङ्गत्या पूर्वपक्षमाह किं ताव­दि­त्या­का­ङ्क्षा­पू­र्व­कम्
किमिति ।

आन­न्द­म­य­प­द­स्या­मु­ख्या­र्थ­ग्रहे हेतुं पृच्छति
कस्मादिति ।

विका­र­प्रा­य­पा­ठ­हे­तु­माह
अन्नमयादीति ।
श्रुत्या­दि­स­ङ्ग­तयः स्फुटा एव । पूर्वपक्षे वृत्ति­का­र­म­ते­जी­वो­पास्त्या प्रिया­दि­प्राप्तिः फलम् , सिद्धान्ते तु ब्रह्मो­पा­स्त्येति भेदः ।

शङ्कते
अथापीति ।

परिहरति
न स्यादिति ।

सङ्गृहीतं विवृणोति
मुख्य इति ।
परमात्मेत्यर्थः ।

शारी­र­त्वेऽ­पी­श्व­रत्वं किं न स्यादित्यत आह
नचेति ।
जीवत्वं दुर्वा­र­मि­त्यर्थः ।

नन्वा­न­न्द­प­दा­भ्या­सेऽ­प्या­न­न्द­म­यस्य ब्रह्मत्वं कथमित्याशङ्क्य ज्योति­ष्टो­मा­धि­कारे ज्योतिष्पदस्य ज्योति­ष्टो­म­प­र­त्व­व­दा­न­न्द­म­य­प्र­क­र­ण­स्था­न­न्द­म­य­प­द­स्या­न­न्द­म­य­प­र­त्वा­त्त­द­भ्या­स­स्तस्य ब्रह्मत्वसाधक इत्यभिप्रेत्याह
आनन्दमयं प्रस्तुत्येति ।
रसः सारः । आनन्द इत्यर्थः । अयं लोकः । यद्यपि एष आकाशः पूर्णः आनन्दः साक्षिप्रेरको न स्यात्तदा को वान्याच्चलेत् , को वा विशिष्या प्राण्या­ज्जी­वेत् , तस्मादेष एवानन्दयाति, आनन्दयतीत्यर्थः । 'युवा स्यात्सा­धु­युवा' इत्यादिना वक्ष्यमाणा मनु­ष्य­यु­वा­न­न्द­मा­रभ्य ब्रह्मा­न­न्दा­व­साना एषा संनिहिता आनन्दस्य तारतम्यमीमांसा भवति । उपसङ्क्रामति विद्वा­न्प्रा­प्नोति इत्ये­क­दे­शि­ना­मर्थः । मुख्यसिद्धान्ते तूपसङ्क्रमणं विदुषः कोशानां प्रत्य­ङ्मा­त्र­त्वेन विलापनमिति ज्ञेयम् । शिष्ट­मु­क्ता­र्थम् ।

आन­न्द­श­ब्दा­द्ब्र­ह्मा­व­गतिः सर्वत्र समानेति गति­सा­मा­न्या­र्थ­माह
श्रुत्यन्तरे चेति ।

लिङ्गा­द­मु­ख्या­त्म­सं­नि­धे­र्बाध इति मत्वाह
नासाविति ।

सर्वान्तरत्वं न श्रुत­मि­त्या­शङ्क्य ततोऽ­न्य­स्या­नु­क्ते­स्तस्य सर्वा­न्त­र­त्व­मिति विवृणोति
मुख्यमिति ।

लोकबुद्धिमिति ।
तस्याः स्थूल­ग्रा­हि­ता­म­नु­स­र­दि­त्यर्थः ।

ताम्रस्य मूषा­का­र­त्व­व­त्प्रा­णस्य देहाकारत्वं देहेन सामान्यम् , तथा मनः प्राणाकारं तेन सममित्याह
पूर्वेणेति ।
अतीतो योऽनन्तर उपा­धि­र्वि­ज्ञा­न­को­श­स्त­त्कृता सावयवत्वकल्पना, शरीरेण ज्ञेय­त्वा­च्छा­री­र­त्व­मिति लिङ्गद्वयं दुर्बलम् । अतः सहा­या­भा­वा­द­भ्या­स­स­र्वा­न्त­र­त्वाभ्यां विका­र­सं­नि­धे­र्बाध इति भावः ॥ १२ ॥

विका­रा­र्थ­क­म­य­ट्श्रु­ति­स­हाय इत्याशङ्क्य मयटः प्राचुर्येऽपि विधा­ना­न्मै­व­मि­त्याह
विकारेत्यादिना ।

तत्प्रकृतवचने मयडिति ।
तदि­ति­प्र­थ­मा­स­म­र्था­च्छ­ब्दा­त्प्रा­चु­र्य­वि­शि­ष्टस्य प्रस्तुतस्य वचनेऽभिधाने गम्यमाने मयट्प्रत्ययो भवतीति सूत्रार्थः । अत्र वच­न­ग्र­ह­णा­त्प्र­कृ­तस्य प्राचु­र्य­वै­शि­ष्ट्य­सिद्धिः, तादृशस्य लोके मयटोऽभिधानात् , यथा 'अन्नमयो यज्ञः' इति । अत्र ह्यन्नं प्रचु­र­म­स्मि­न्नि­त्य­न्न­शब्दः प्रथ­मा­वि­भ­क्ति­श­क्त­स्त­स्मा­न्म­य­ट्य­ज्ञस्य प्रकृ­त्य­र्था­न्न­प्रा­चु­र्य­वाची दृश्यते न शुद्धप्रकृतवचन इति ध्येयम् ॥ १३ ॥

सूत्र­स्थ­च­श­ब्दोऽ­नु­क्त­स­मु­च्च­यार्थ इति मत्वा व्याचष्टे
इतश्चेति ।
तच्चानुक्तं ब्रह्मानन्दस्य निर­ति­श­य­त्वा­व­धा­रणं पूर्वमुक्तम् ॥ १४ ॥

आनन्दमयस्य ब्रह्मत्वे लिङ्गमुक्त्वा प्रकरणमाह
मान्त्रेति ।
यस्मादेवं प्रकृतं तस्मा­त्त­न्मा­न्त्रा­व­र्णि­क­मेव ब्रह्मानन्दमय इति वाक्ये गीयत इति योजना ।

ननु मन्त्रो­क्त­मे­वात्र ग्राह्ममिति को निर्बन्धः, तत्राह
मन्त्रेति ।

ब्राह्मणस्य मन्त्र­व्या­ख्या­न­त्वा­दु­पा­य­त्व­मस्ति, मन्त्रस्तूपेयः, तदिदमुक्तम्
अविरोधादिति ।
तयो­रु­पा­यो­पे­य­भा­वा­दि­त्यर्थः ।

तर्ह्य­न्न­म­या­दी­ना­मपि मान्त्र­व­र्णि­क­ब्र­ह्मत्वं स्यादित्यत आह
न चेति ।

किञ्च भृगवे प्रोक्ता, वरुणेनोपदिष्टा भृगुवल्ली पञ्च­म­प­र्या­य­स्था­नन्दे प्रतिष्ठिता । तत्र स्थानन्यायेन तदे­का­र्थ­ब्र­ह्म­वल्ल्या आनन्दमये निष्ठेत्याह
एतन्निष्ठैवेति ॥ १५ ॥

स ईश्वरः तपः सृष्ट्या­लो­च­न­म­त­प्यत कृतवानित्यर्थः । अभिध्यानं कामना । 'बहु स्याम्' इत्यव्यतिरेकः ॥ १६ ॥

अधिकारे प्रकरणे । स आननदमयो रसः । ननु लब्धृ­ल­ब्ध­व्य­भा­वेऽ­प्य­भेदः किं न स्यादत आह
नहि लब्धैवेति ।

ननु­ल­ब्धृ­ल­ब्ध­व्य­यो­र्भे­द­स्या­व­श्य­कत्वे श्रुति­स्मृ­त्यो­र्बाधः स्यादि­त्या­श­ङ्कते
कथमिति ।
यावता यत­स्त्व­ये­त्यु­क्त­मतः श्रुतिस्मृती कथमित्यन्वयः ।

उक्तां शङ्कामङ्गीकरोति
बाढमिति ।

तर्ह्यात्मन एवात्मना लभ्य­त्वो­क्ति­बाधः अभे­दा­दि­त्या­शङ्क्य कल्पितभेदान्न बाध इत्याह
तथापीति ।
अभेदेऽपीत्यर्थः । लौकिकः भ्रमः । आत्मनः स्वाज्ञा­न­ज­भ्र­मेण देहाद्यभिन्नस्य भेदभ्रान्त्या परमात्मनो ज्ञेय­त्वा­द्यु­क्ति­रि­त्यर्थः । अन्वेष्टव्यो देहा­दि­वि­वि­क्त­तया ज्ञेयः, विवेकज्ञानेन लब्धव्यः साक्षा­त्क­र्तव्यः, तदर्थं श्रोतव्यः, विज्ञानं निदिध्यानं साक्षात्कारो वा श्रुत्य­न्त­र­स्या­र्था­नु­वा­दा­द­पौ­न­रु­क्त्यम् ।

ननु भेदः सत्य एवास्तु, तत्राह
प्रतिषिध्यत इति ।

अत ईश्वराद्द्रष्टा जीवोऽन्यो नास्तीति चेज्जी­वा­भे­दा­दी­श्व­र­स्यापि मिथ्यात्वं स्यादत आह
परमेश्वर इति ।

अवि­द्या­प्र­ति­बि­म्ब­त्वेन कल्पि­ता­ज्जी­वा­च्चि­न्मात्र ईश्वरः पृथगस्तीति न मिथ्यात्वम् । कल्पि­त­स्या­धि­ष्ठा­ना­भे­देऽ­प्य­धि­ष्ठा­नस्य ततो भेद इत्यत्र दृष्टान्तमाह
यथेति ।

सूत्रारूढः स्वतोऽपि मिथ्या, न जीव इत्य­रु­च्या­भे­द­मा­त्र­मि­थ्यात्वे दृष्टा­न्ता­न्त­र­माह
यथावेति ।

ननु सूत्रबलाद्भेदः सत्य इत्यत आह
ईदृशं चेति ।
कल्पि­त­मे­वे­त्यर्थः । सूत्रे भेदः सत्य इति पदाभावात् , 'तद­न­न्यत्व' आदि­सू­त्रा­णा­च्छ्रु­त्य­नु­सा­रा­च्चेति भावः ॥ १७ ॥

नन्वा­न­न्दा­त्म­क­स­त्त्व­प्र­चुरं प्रधा­न­मा­न­न्द­म­य­मस्तु, तत्राह
कामाच्चेति ।
अनु­मा­न­ग­म्य­मा­नु­मा­नि­कम् ।

पुन­रु­क्ति­मा­श­ङ्क्याह
ईक्षतेरिति ॥ १८ ॥

अस्मिन्निति
विषयसप्तमी आन­न्द­म­य­वि­ष­य­क­प्र­बो­ध­वतो जीवस्य तद्योगं यस्माच्छास्ति तस्मान्न प्रधानमिति योजना ।

जीवस्य प्रधा­न­यो­गोऽ­प्य­स्ती­त्यत आह
तदात्मनेति ।

जीवस्य जीवा­भे­दोऽ­स्ती­त्यत आह
मुक्तिरिति ।
अदृश्ये स्थूल­प्र­प­ञ्च­शून्ये, आत्म­स­म्ब­न्ध­मात्म्यं लिङ्गशरीरं तद्रहिते, निरुक्तं शब्दशक्यं तद्भिन्ने, निःशेषलयस्थानं निलयनं माया तच्छून्ये ब्रह्मणि, अभयं यथा स्यात्तथा यदैव प्रतिष्ठां मनसः प्रकृष्टां वृत्तिमेष विद्वांल्लभते अथ तदैवाभयं ब्रह्म प्राप्नो­ती­त्यर्थः । उतपि अरमल्पमप्यन्तरं भेदं यदैवैष नरः पश्यति अथ तदा तस्य भयमिति योजना इति ।

वृत्तिकारमतं दूषयति
इदं त्विति ।
इह परव्याख्यायां विकारार्थके मयटिबुद्धिस्थे सत्य­क­स्मा­त्का­रणं विना एकप्रकरणस्थस्य मयटः पूर्वं विकारार्थकत्वम् , अन्ते प्राचु­र्या­र्थ­क­त्व­मि­त्य­र्ध­ज­र­तीयं कथमिव केन दृष्टा­न्ते­ना­श्री­यत इतीदं वक्त­व्य­मि­त्य­न्वयः ।

प्रश्नं मत्वाशङ्क्यते
मान्त्रेति ।
स्पुटमुत्तरम् ।

किमान्तर इति न श्रूयते, किंवा वस्तु­तोऽ­प्या­न्तरं ब्रह्म न श्रूयत इति विकल्प्य आद्यमङ्गीकरोति
अत्रो­च्य­ते­य­द्य­पीति ।

विका­र­प्रा­य­पा­ठा­नु­ग्र­ही­त­म­य­ट्श्रुतेः साव­य­व­त्व­लि­ङ्गा­च्चे­त्याह
तथापीति ।
इष्टार्थस्य दृष्ट्या जातं सुखं प्रियम् , स्मृत्या मोदः, स चाभ्या­सा­त्प्र­कृष्टः प्रमोदः, आनन्दस्तु कारणम् , बिम्ब­चै­त­न्य­मात्मा, शिरः­पु­च्छ­यो­र्म­ध्य­कायः ब्रह्म शुद्धमिति श्रुत्यर्थः ।

द्वितीयं प्रत्याह
तत्र यदिति ।
यन्मन्त्रे प्रकृतं गुहानिहितत्वेन सर्वान्तरं ब्रह्म, तदिह पुच्छवाक्ये ब्रह्म­श­ब्दा­त्प्र­त्य­भि­ज्ञा­यते । तस्यैव विज्ञापनेच्छया पञ्चकोशरूपा गुहा प्रपञ्चिता । तत्र तात्पर्यं नास्तीति वक्तुं कल्प्यन्त इत्युक्तम् । एवं पुच्छवाक्ये प्रकृ­त­स्व­प्र­धा­न­ब्र­ह्म­परे सति न प्रकृ­त­हा­न्या­दि­दोष इत्यर्थः ।

ब्रह्मणः प्रधानत्वं पुच्छ­श्रु­ति­वि­रु­द्ध­मिति शङ्कते
नन्विति ।

अत्र ब्रह्म­श­ब्दा­त्प्र­कृ­त­स्व­प्र­धा­न­ब्र­ह्म­प्र­त्य­भि­ज्ञाने सति पुच्छ­श­ब्द­वि­रो­ध­प्राप्तौ, एकस्मिन्वाक्ये प्रथ­म­च­र­म­श्रु­त­श­ब्द­यो­रा­द्य­स्या­नु­प­स­ञ्जा­त­वि­रो­धिनो बलीयस्त्वात् , पुच्छशब्देन प्राप्त­गु­ण­त्वस्य बाध इति मत्वाह
प्रकृतत्वादिति ।

प्रक­र­ण­स्या­न्य­था­सि­द्धि­माह
नन्विति ।

एकस्यैवगुणत्वं प्रधानत्वं च विरुद्धमित्याह
अत्रोच्यत इति ।

तत्र विरो­ध­नि­रा­सा­या­न्य­त­र­स­स्मि­न्वाक्ये ब्रह्मस्वीकारे पुच्छवाक्ये ब्रह्म स्वीका­र्य­मि­त्याह
अन्यतरेति ।

वाक्य­शे­षा­च्चै­व­मि­त्याह
अपिचेति ।
तत्त­त्र­ब्र­ह्म­णि­श्लो­कोऽ­पी­त्यर्थः ।

पुच्छशब्दस्य गतिं पृच्छति
कथं पुनरिति ।

त्वयापि पुच्छशब्दस्य मुख्यार्थो वक्तुमशक्यः, ब्रह्मण आन­न्द­म­य­ला­ङ्गू­ल­त्वा­भा­वात् । पुच्छ­दृ­ष्टि­ल­क्ष­णायां चाधारलक्षणा युक्ता, प्रति­ष्ठा­प­द­यो­गात् , ब्रह्मशब्दस्य मुख्या­र्थ­ला­भाच्च । त्वत्पक्षे ब्रह्म­प­द­स्या­प्य­व­य­व­ल­क्ष­क­त्वा­दि­त्याह
नैष दोष इति ।
पुच्छ­मि­त्या­धा­र­त्व­मा­त्र­मु­क्तम् । प्रति­ष्ठे­त्वे­क­नी­ड­त्वम् । एकं मुख्यं नीडमधिष्ठानं सोपादानस्य जगत इत्यर्थः ।

ननु वृत्तिकारैरपि तैत्तिरीयवाक्यं ब्रह्म­णि­स­म­न्वि­त­मि­ष्टम् , तत्र किमु­दा­ह­र­ण­भे­दे­ने­त्या­श­ङ्क्याह
अपिचेति ।

यत्र सविशेषत्वं तत्र वाङ्म­न­स­गो­च­र­त्व­मिति व्याप्तेरत्र व्याप­का­भा­वोक्त्या निर्विशेषमुच्यत इत्याह
निर्विशेषमिति ।
निवर्तन्ते अशक्ता इत्यर्थः । सविशेषस्य मृषात्वादभयं चायुक्तम् । अतो निर्वि­शे­ष­ज्ञा­नार्थं पुच्छ­वा­क्य­मे­वो­दा­ह­र­ण­मिति भावः । प्राचु­र्या­र्थ­क­म­यटा सविशेषोक्तौ निर्वि­शे­ष­श्रु­ति­बाध उक्तः ।

दोषान्तरमाह
अपिचेति ।

प्रत्य­या­र्थ­त्वेन प्रधानस्य प्राचुर्यस्य प्रकृत्यर्थो विशेषणम् , विशेषणस्य यः प्रतियोगी विरोधीति तस्या­ल्प­त्व­म­पे­क्षते, यथा विप्रमयो ग्राम इति शूद्राल्पत्वम् । अस्तु को दोषः, तत्राह
तथाचेति ।
प्रकृ­त्य­र्थ­प्रा­धान्ये त्वयं दोषो नास्ति, प्रचुरप्रकाशः सवितेत्यत्र तम­सोऽ­ल्प­स्या­प्य­भा­नात् । पर­न्त्वा­न­न्द­म­य­प­दस्य प्रचु­रा­न­न्द­ल­क्ष­णा­दोषः स्यादिति मन्तव्यम् ।

किञ्च भिन्न­त्वा­द्घ­ट­वन्न ब्रह्मतेत्याह
प्रतिशरीरमिति ।

नन्व­भ्य­स्य­मा­ना­न­न्द­पदं लक्ष­ण­या­न­न्द­म­य­प­र­मि­त्य­भ्या­स­सि­द्धि­रि­त्यत आह
यदि चेति ।
आनन्दमयस्य ब्रह्मत्वे निर्णीते सत्यानन्दपदस्य तत्प­र­त्व­ज्ञा­ना­द­भ्या­स­सिद्धिः, तत्सिद्धौ तन्निर्णय इति परस्पराश्रय इति भावः ।

अयमभ्यासः पुच्छब्रह्मण इत्याह
तस्मादिति ।
उपसङ्क्रमणं बाधः ।

ननु 'स य एवंवित्' इति ब्रह्मविदं प्रक्र­म्यो­प­स­ङ्क्र­म­ण­वा­क्येन फलं निर्दिश्यते तत्त­स्या­ब्र­ह्मत्वे न सिध्यतीति शङ्कते
नन्विति ।

उपसङ्क्रमणं प्राप्ति­रि­त्य­ङ्गी­कृत्य विशि­ष्ट­प्रा­प्त्युक्त्या विशे­ष­ण­प्रा­प्ति­फ­ल­मु­क्त­मि­त्याह
नैष इति ।

ज्ञानेन कोशानां बाधस्तदिति सिद्धान्ते बाधा­व­धि­प्र­त्य­गा­न­न्द­ला­भोऽ­र्था­दुक्त उत्तरश्लोकेन स्फुटीकृत इत्याह
तदपीति ।

तदपेक्षत्वादिति ।
काम­यि­तृ­पु­च्छ­ब्र­ह्म­वि­ष­य­त्वा­दि­त्यर्थः ।

यदुक्तं पञ्च­म­स्था­न­स्थ­त्वा­दा­न­न्द­मये ब्रह्मवल्ली समाप्ता, भृगुवल्लीवदिति, तत्राह
यत्त्विति ।
या त्वित्यर्थः । मयट्श्रुत्या साव­य­व­त्वा­दि­लि­ङ्गेन च स्थानं बाध्यमिति भावः । गोचराति क्रमो गोचरत्वाभावः ।

वेद­सू­त्र­यो­र्वि­रोधे 'गुणे त्वन्या­य्य­क­ल्पना' इति सूत्राण्यन्यथा नेतव्यानीत्याह
सूत्राणीति ।

पूर्वमीक्षतेः संशयाभावादिति युक्त्या प्रायपाठो न निश्चायक इत्युक्तम् । तर्ह्यत्र पुच्छ­प­द­स्या­धा­रा­व­य­व­यो­र्ल­क्ष­णा­सा­म्या­त्सं­श­योऽ­स्ती­त्य­व­य­व­प्रा­य­पाठो निश्चायक इति पूर्वा­धि­क­र­ण­सि­द्धा­न्त­यु­क्त्य­भा­वेन पूर्वपक्षयति
पुच्छशब्दादिति ।
तथाच प्रत्यु­दा­ह­र­ण­स­ङ्गतिः । पूर्वपक्षे सगुणोपास्तिः, सिद्धान्ते निर्गुणप्रमितिः फलम् । वेदा­न्त­वा­क्य­स­म­न्व­योक्तेः श्रुत्या­दि­स­ङ्ग­तयः स्फुटा एव । सूत्र­स्था­न­न्द­म­य­प­देन तद्वाक्यस्थं ब्रह्मपदं लक्ष्यते । विक्रि­य­तेऽ­ने­नेति विकारोऽवयवः ।

प्रायापत्तिरिति ।
अवयवक्रमस्य बुद्धौ प्राप्ति­रि­त्यर्थः । अत्र हि प्रकृतस्य ब्रह्मणो ज्ञानार्थं कोशाः पक्षित्वेन कल्प्यन्ते, नात्र तात्पर्यमस्ति । तत्रा­न­न्द­म­य­स्यापि अव­य­वा­न्त­रो­क्त्य­न­न्तरं कस्मिं­श्चि­त्पुच्छे वक्तव्ये प्रकृतं ब्रह्म पुच्छपदेनोक्तम् । तस्या­न­न्द­म­या­धा­र­त्वे­ना­व­श्यं­व­क्त­व्य­त्वा­दि­त्यर्थः ।

तद्धे­तु­व्य­प­दे­शाच्च ॥ १४ ॥
तस्य ब्रह्मणः सर्व­का­र्य­हे­तु­त्व­व्य­प­दे­शात् । प्रिया­दि­वि­शि­ष्ट­त्वा­का­रे­णा­न­न्द­म­यस्य जीवस्य कार्यत्वात्तं प्रति शेषत्वं ब्रह्मणो न युक्तमित्यर्थः ।

मान्त्र­व­र्णि­क­मेव च गीयते ॥ १५ ॥
'ब्रह्म­वि­दा­प्नोति परम्' इति यस्य ज्ञाना­न्मु­क्ति­रुक्ता, यत् 'सत्यं ज्ञानम्' इति मन्त्रोक्तं ब्रह्म, तदत्रैव पुच्छवाक्ये गीयते, ब्रह्म­प­द­सं­यो­गात् । नानन्तमयवाक्य इत्यर्थः ।

नेतरो अनुपपत्तेः ॥ १६ ॥
इतरा आनन्दमयो जीवोऽत्र न प्रतिपाद्यः । सर्व­स्र­ष्टृ­त्वा­द्य­नु­प­प­त्ते­रि­त्यर्थः ।

भेदव्यपदेशाच्च ॥ १७ ॥
अयमानन्दमयो ब्रह्मरसं लब्ध्वानन्दी भवतीति भेदोक्तेश्च तस्या­प्र­ति­पा­द्य­ते­त्यर्थः ।

आनन्दमयो ब्रह्म, तैत्त­री­य­क­प­ञ्च­म­स्था­न­स्थ­त्वा­त्भृ­गु­व­ल्ली­स्था­न­न्द­व­दि­त्या­श­ङ्क्याह
कामाच्च नानुमानापेक्षा ॥ १८ ॥
काम्यत इति काम आनन्दः तस्य भृगुवल्ल्यां पञ्चमस्य ब्रह्म­त्व­दृ­ष्टे­रा­न­न्द­म­य­स्यापि ब्रह्म­त्वा­नु­मा­ना­पेक्षा न कार्या, विका­रा­र्थ­क­म­य­ड्वि­रो­धा­दि­त्यर्थः ।

भेद­व्य­प­दे­शा­च्चे­त्स­गुणं ब्रह्मात्र वेद्यं स्यादि­त्या­श­ङ्क्याह
अस्मिन्नस्य च तद्योगं शास्ति ॥ १९ ॥

गुहानिहितत्वेन प्रतीचि 'स एकः' इत्युपसंहृते पुच्छवाक्योक्ते ब्रह्मण्यहमेव परं ब्रह्मेति प्रबोधवत आनन्दमयस्य 'यदा हि' इति शास्त्रं ब्रह्मभावं शास्ति, अतो निर्गु­ण­ब्र­ह्मै­क्य­ज्ञा­नार्थं जीवभेदानुवाद इत्यभिप्रेत्याह
अपराण्यपीति ॥ १९ ॥