अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

पराधिकरणम्

यदुक्तं नेति नेती­त्या­दि­श्रु­तिभिः ब्रह्मातिरिक्तं वस्तु निषिध्यत इति, तदयुक्तम् । सेत्वा­दि­श्रु­ति­भि­र्व­स्त्व­न्त­रा­स्ति­त्व­भा­ना­दि­त्या­क्षि­पति -
परमत इति ।
यद्यपि द्युभ्वा­द्य­धि­क­रणे सेतुशब्दो विधारकत्वेन गौणो व्याख्या­त­स्त­था­प्यु­न्मा­ना­दि­श्रु­तीनां गतिमजानतोऽयं पूर्वपक्षः, तत्रो­न्मा­ना­दि­श्रु­तीनां मुख्यत्वात्, सद्वयं ब्रह्मेति फलं सिद्धान्ते तूक्ता­द्वि­ती­य­त­त्प­द­ल­क्ष्य­सि­द्धि­रिति विवेकः ।

ब्रह्म सद्वयं, सेतुत्वात्, लौकिकसेतुवत् । तीर्ण­त्व­श्रु­ते­श्चे­त्याह -
सेतुं तीर्त्वेति ।
जाङ्गलं वातभूयिष्ठमिति वैद्योक्तेः वातप्रचुरो देशो जाङ्गलं, इह तु देशमात्रं ग्राह्यम् । दिशश्चतस्रः कलाः प्रकाशवान्नाम पादः, पृथि­व्य­न्त­रिक्षं द्यौः समुद्र इत्यनन्तवान्नाम पादः, अग्निः सूर्यश्चन्द्रो विद्युदिति ज्योतिष्मान्नाम पादः, चक्षुः श्रोत्रं वाङ्मन इत्यायतनवान्नाम पाद इति चतु­ष्पा­द्ब्र­ह्मेति पादानामर्धानि अष्टौ शफा अस्ये­त्य­ष्टा­शफं, पादेषु चतुर्षु प्रत्येकं चतस्रः कला इति षोडशकलमित्यर्थः । षोडशपणपरिमितं ताम्रं कार्षापणसंज्ञं भवति तद्वत्सद्वयं ब्रह्म, परि­मि­त­त्वा­दि­त्यर्थः ।

संबन्धित्वाच्च नगरवदित्याह -
तथा संबन्धेति ।
अन्यदमितमिति अस­ङ्ख्या­त­मि­त्यर्थः । अन्यस्पर्शे अल्पत्वेन मितत्वनियमादिति मन्तव्यम् ।

भेदे­नो­क्त­त्वाच्च घटवदित्याह -
भेद­व्य­प­दे­श­श्चेति ।
अस्या­क्षि­स्थ­स्या­मु­ना­दि­त्य­स्थेन सहेति यावत् ।

आधा­र­तोऽ­ति­दे­श­तश्च भेद­मु­क्त्वा­व­धि­तोऽपि तमाह -
सावधिकं चेति ॥३१॥

सिद्धान्तसूत्रं व्याचष्टे -
तुश­ब्दे­ने­त्या­दिना ।

यदन्यत्तत्किं साद्यनादि वा, नाद्यः माना­भा­वा­त्का­र्यस्य ब्रह्मा­न­न्य­त्व­नि­र्गु­ण­या­च्चे­त्युक्त्वा न द्वितीयः प्रागु­त्प­त्ते­र­द्व­य­त्वा­व­धा­र­णा­दि­त्याह -
न च ब्रह्म­व्य­ति­रि­क्त­मिति ।
उक्ता­नु­मा­ना­ना­मा­ग­म­बाध इति भावः ।

उक्तं स्मारयित्वा हेतु­ना­म­सि­द्धि­माह -
ननु सेत्वित्यादिना ।

किं सेतुश्रुत्या पर­सि­द्धि­र­र्थाद्वा, नाद्य इत्युक्त्वा द्वितीयं शङ्कते -
तत्र परस्मिन्निति ।

सेतु­त्व­लि­ङ्गे­ना­द्वि­ती­य­त्व­श्रु­ति­बा­ध­न­म­न्या­य्य­मि­त्याह -
न चेति ।

लिङ्गं चासिद्धमित्याह -
अपि चेति ।
विधारकत्वं तु कल्पि­त­द्वि­ती­या­पे­क्ष­यापि युज्यत इति भावः ।

तीर्ण­त्व­हे­तु­र­प्य­सिद्ध इत्याह -
सेतुं तीर्त्वेति ॥३२॥

परि­मि­त­त्व­म­प्य­सि­द्ध­मि­त्याह -
बुद्ध्यर्थ इति ।
वाक्प्रा­ण­च­क्षुः­श्रो­त्राणि मनसः पादा अग्नि­वा­य्वा­दि­त्य­दिश आकाशस्य पादा ध्यानार्थं कल्पि­ता­स्त­द्व­द्ब्र­ह्मण उन्मानमित्यर्थः ।

लौकिकं दृष्टान्तमाह -
अथवेति ।

पादकल्पनां विनापि व्यवहारः किं न स्यादित्यत आह -
न हीति ।
कार्षापणस्य व्यवहाराय पाद­क­ल्प­ना­व­त्म­न्द­धियां ध्यानव्यवहाराय ब्रह्मण उन्मा­न­क­ल्प­ने­त्यर्थः ॥३३॥

संबन्धभेदौ कल्पितौ न सत्य­द्वि­ती­य­सा­ध­का­वि­त्याह -
स्थानेति ।
स्थान­मु­पा­धि­बु­द्ध्यादिः । एकस्यैवोपाधिना भिन्न­स्यो­पा­धि­शान्तौ सत्यां संबन्ध उपचर्यते । यथा सौरा­लो­का­दे­र­ङ्गु­ल्या­द्यु­पा­धिना भिन्न­स्यो­पा­धि­वि­योगे महा­लो­का­द्या­त्मना संब­न्धो­प­चा­र­स्त­द्व­त्त­था­दित्य चक्षुषोः स्थान­यो­र्भे­दा­द्धि­र­ण्म­य­पु­रु­ष­भे­द­क­ल्प­ने­त्यर्थः ॥३४॥

मुख्यावेव संबन्धभेदौ किं न स्यातामित्यत्र सूत्रम् -
उपपत्तेश्चेति ॥३५॥
स्वरूपेण ब्रह्मणा जीवस्य संबन्धो भेदनिवृत्तिरूपो युज्यते न मुख्यः संयोगादिः वस्तु­द्व­या­स­त्त्वा­त्तथा भेदोऽपि न स्वत एक­त्व­श्रु­ते­रि­त्यर्थः ॥३६॥

ननु द्वितीयाभावे सर्व­ग­त­त्व­श्रु­ति­वि­रोध इत्यत आह -
अनेन सर्वगतत्वमिति ।
द्वितीयं सत्यं चेत्से­त्वा­दि­व­द्ब्र­ह्म­णोऽ­ल्प­ता­स्यात् 'यत्रा­न्य­त्प­श्यति तदल्पम्' इति श्रुतेः किञ्च निर­व­य­वा­सं­ग­ब्र­ह्मणः सत्य­प्र­प­ञ्च­सं­ब­न्धा­यो­गा­त्त­वैव सर्व­ग­त­त्व­श्रु­ति­वि­रोध इति भावः अधि­ष्ठा­ने­ना­ध्यस्तं जग­द्व्या­प्त­म­ध्य­स्त­त्वात् रज्ज्वा व्याप्तसर्पवत्, इति न्यायः ॥३७॥