भाष्यरत्नप्रभाव्याख्या
आकाशाधिकरणम्
भवतु रूपवत्त्वादिदुर्बललिङ्गानां पापास्पर्शित्वाद्यव्यभिचारिब्रह्मलिङ्गैरन्यथानयनम् । इह त्वाकाशपदश्रुतिर्लिङ्गाद्बलीयसीति प्रत्युदाहणेन प्राप्ते प्रत्याह
आकाशस्तल्लिङ्गादिति ।
छान्दोग्यवाक्यमुदाहरति
इदमिति ।
शालावत्यो ब्राह्मणो जैवलिं राजानं पृच्छति, अस्य पृथ्वीलोकस्यान्यस्य च क आधार इति । राजाब्रूते, 'आकाश इति ह' इति । 'यदेष आकाशः' इत्यानन्दत्वस्यासाधारणस्य श्रवणादाकाशो ब्रह्मेत्यवधारितम् । 'आकाशो वै नाम' इत्यत्र 'तद्ब्रह्म' इति वाक्यशेषादिति विभागः ।
निर्वहिता
उत्पत्तिस्थितिहेतुः । ते नामरूपे, यदन्तरा यस्माद्भिन्ने । यत्र कल्पितत्वेन मध्ये स्त इति वार्थः । अत्र पूर्वपक्षे भूताकाशात्मनोद्गीथोपास्तिः, सिद्धान्ते ब्रह्मात्मना इति फलम् । उपास्ये स्पष्टब्रह्मलिङ्गवाक्यसमन्वयोक्तेरापादं श्रुत्यादिसङ्गतयः । स्पष्टमत्र भाष्यम् ।
तेजःप्रभृतिषु वाय्वादेरपि कारणत्वादेवकारश्रुतिबाधः, सर्वश्रुतेश्चाकाशातिरिक्तविषयत्वेन सङ्कोचः स्यादित्याह
सत्यं दर्शितमिति ।
ब्रह्मणस्तु सर्वात्मकत्वात् 'तस्मादेव सर्वम्' इति श्रुतिर्युक्तेति भावः ।
तथा सर्वलयाधारत्वम् , निरतिशयमहत्त्वम् , स्थितावपि परमाश्रयत्वमित्येतानि स्पष्टानि ब्रह्मलिङ्गानीत्याह
तथा आकाशमित्यादिना ।
रातेर्धनस्य दातुः । रातिरिति पाठे बन्धुरित्यर्थः ।
लिङ्गान्तरमाह
अपि चेति ।
दाल्भ्यशालावत्यौ ब्राह्मणौ राजा चेति त्रय उद्गीथविद्याकुशला विचारयामासुः, किमुद्गीथस्य परायणमिति । तत्र स्वर्गादागताभिरद्भिर्जीवितेन प्राणेन क्रियमाणोद्गीथस्य स्वर्ग एव परायणमिति दाल्भ्यपक्षमप्रतिष्ठादोषेण शालावत्यो निन्दित्वा स्वर्गस्यापि कर्मद्वारा हेतुरयं लोकः प्रतिष्ठेत्युवाच । तं शालावत्यस्य पक्षं 'अन्तवद्वै ते किल शालावत्यसाम' इति राजा निन्दित्वानन्तमेवाकाशं वक्ति । भूताकाशोक्तावन्तवत्त्वदोषतादवस्थ्यादित्यर्थः ।
नन्वाकाशोऽनन्त इति न श्रुतमित्याशङ्क्याह
तं चेति ।
उद्गीथ आकाश एवेति सम्पादनादुद्गीथस्यानन्तत्वादिकं न स्वत इति भावः । स उद्गीथावयव ओङ्कारः, एष आकाशात्मकः, परः रसतमत्वादिर्गुणैरुत्कृष्टः, अतोऽक्षरान्तरेभ्यो वरीयान् । श्रेष्ठ इत्यर्थः । परः इत्यव्ययं सकारान्तं वा, परः कृत्स्नमिति प्रयोगात् । परश्चासौ वरेभ्योऽतिशयेन वरः । परोवरीयानित्यर्थः ।
प्राथम्यात् , श्रुतत्वाच्चाकाशशब्दो बलीयानित्युक्तं स्मारयति
यत्पुनरिति ।
एवकारसर्वशब्दानुगृहीतानन्त्यादिबहुलिङ्गानामनुग्रहाय 'त्यजेदेकं कुलस्यार्थे' इति न्यायेनैकस्याः श्रुतेर्बाधो युक्त इत्याह
अत्र ब्रूम इति ।
आकाशपदाद्भूतस्यैव प्रथमप्रतीतिरिति नियमो नास्तीत्यपिशब्देन द्योतितम् । तत्र युक्तिमाह
दर्शितश्चेति ।
आकाशपदाद्गौणार्थस्य ब्रह्मणोऽपि प्रथमप्रतीतिरस्ति, तस्य तत्पर्यायाणां च ब्रह्मणि प्रयोगप्राचुर्यादिति भावः । अक्षरे कूटस्थे व्योमन् व्योम्नि ऋचो वेदाः सन्ति । प्रमाणत्वेन यस्मिन्नक्षरे विश्वे देवा अधिष्ठिता इत्यर्थः ।
ओङ्कारः कं सुखं ब्रह्म खं व्यापकमित्युपासीत । श्रुत्यन्तरप्रयोगमाह
खं पुराणमिति ।
व्याप्यनादि ब्रह्मेत्यर्थः । 'कं ब्रह्म खं ब्रह्म' इति छान्दोग्यम् , 'ओं खं ब्रह्म खं पुराणम्' इति बृहदारण्यकमिति भेदः । किञ्च तत्रैव प्रथमानुसारेणोत्तरं नेयम् , यत्र तन्नेतुं शक्यम् ।
यत्र त्वशक्यं तत्रोत्तरानुसारेण प्रथमं नेयमित्याह
वाक्येति ।
तस्मादुपास्ये ब्रह्मणि वाक्यं समन्वितमित्युपसंहरति
तस्मादिति ॥ २२ ॥