अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

मुग्धाधिकरणम्

अव­स्था­त्र­या­दा­त्मानं विविच्य मूर्च्छातो विवेचयति -
मुग्धेऽ­र्ध­सं­पत्तिः परिशेषात् ।

मूर्च्छा प्रसि­द्धा­व­स्था­न्त­र्गता वा पञ्चमावस्था वेति । अव­स्था­च­तु­ष्ट­य­सि­द्धे­र्मु­ग्धस्य तद्वै­ल­क्ष­ण्याच्च संशये सोऽहमिति प्रत्य­भि­ज्ञ­यो­त्थि­तस्य सुप्ता­भे­द­व­द्वि­शे­ष­ज्ञा­ना­भा­वा­वि­शे­षेण लिङ्गेन सुषुप्तिरेव मूर्च्छेति प्रत्य­भि­ज्ञा­ना­त्सु­षु­प्त्य­न्त­र्गता मूर्च्छेति दृष्टा­न्त­सं­गत्या पूर्वपक्षमाह -
तिस्रस्तावदिति ।
पूर्वपक्षे प्रसि­द्धा­व­स्थातः पृथगात्मनो मूर्च्छातो विवेकार्थं यत्नासिद्धिः फलं, सिद्धान्ते पृथ­ग्य­त्न­ध्रौ­व्य­मिति भेदः ।

परिशेषं दर्शयन् सिद्धान्तयति -
न तावदित्यादिना ।
जाग्रदपि जाग­रा­व­स्थोऽ­पी­त्यर्थः ।

ऐन्द्रि­य­क­म­र्थ­ज्ञानं देहधारणं च तस्यास्ति न मुग्धस्येति वैषम्योक्त्या दूषयति -
नेत्यादिना ।

मूर्च्छाया जाग­रा­द्भे­द­मुक्त्वा स्वप्नमृतिभ्यां भेदमाह -
नापीत्यादिना ।
आलभन्ते स्पृशन्ति । दिष्टं मरणम् ।

सुषु­प्ति­मू­र्च्छयोः किञ्चि­त्सा­रू­प्येऽपि बहु­वै­ल­क्ष­ण्या­द्भेद इत्याह -
नेति ।

लक्ष­ण­भे­द­मुक्त्वा निमित्तभेदमाह -
निमित्तेति ।

प्रत्य­भि­ज्ञा­प्य­सि­द्धे­त्याह -
न चेति ।
उक्त­सा­रू­प्य­वै­रू­प्या­भ्या­म­र्ध­सं­पत्तिः सर्वैः सुषु­प्ति­ध­र्मै­र­सं­पन्नो मुग्धः सुषुप्तो न भवति, सर्वै­र्म­र­णा­व­स्था­ध­र्मै­र­सं­प­त्ते­र्मृ­तोऽपि न किन्तु अवस्थान्तरं गत इति सूत्रार्थः ।

अत्र सूत्रे जीवस्य ब्रह्म­णा­र्ध­सं­प­त्ति­रु­क्तेति भ्रान्तः शङ्कते -
कथमिति ।
यत्सुप्तं प्रति सत्संपन्नत्वं श्रुतं तदु­पा­ध्य­भा­वा­भि­प्रा­यम् । उपाध्यभावश्च मुग्धस्यापि मम इति यत­स्त­स्मा­त्कृ­त्स्न­सं­प­त्ति­रे­वे­त्यर्थः ।

सुषुप्तिकाले कर्मासंबन्धे पुनरुत्थानं कथमित्याशङ्क्य तत्का­र्या­भा­वा­त्त­द­सं­ब­न्धो­क्ति­रि­त्याह -
जीवे हीति ।

ब्रह्मणा कृत्स्न­सं­प­त्ति­म­ङ्गी­कृत्य परिहरति -
न ब्रूम इति ।
मुग्धत्वं हि सुषु­प्त­स्या­र्धेन निःसं­ज्ञ­त्वा­दि­ध­र्मेण साम्येन संपन्नं भवति, मरणास्यार्धेन कम्पादिना संप­न्न­मि­त्य­र्ध­सं­प­त्ति­रि­त्यर्थः ।

इतोऽपि सुषु­प्ति­वै­ष­म्य­मि­त्याह -
द्वारं चेति ।

अप्र­सि­द्धि­म­ङ्गी­कृ­त्योक्तं प्रसि­द्धि­र­प्य­स्ती­त्याह -
प्रसिद्धा चेति ।
नायुर्वेदो वैद्यशास्त्रम् ।

प्रसिद्धौ कथं विवाद इत्याशङ्क्य पञ्च­म­त्वे­ना­प्र­सि­द्धे­रि­त्याह -
अर्धेति ।
सुषु­प्ति­मृ­ति­ध­र्मा­र्ध­सं­पत्त्या तद­न्त­र्भा­व­बु­द्धि­र्लो­का­ना­मि­त्यर्थः ॥१०॥