अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

चतुर्थाध्याये द्वितीयः पादः

ज्ञानिन इवो­पा­स­क­स्या­प्यु­त्क्रा­न्ति­र्ने­त्यत आह -
समानेति ।
विद्वानुपासकः, तस्या­नु­पा­स­क­व­दु­त्क्रा­न्ति­रस्ति, अज्ञत्वादिति वक्ष्यत इत्यर्थः । प्रयतो म्रिय­मा­ण­स्ये­त्यर्थः । वाक्पदस्य कर­ण­भा­व­व्यु­त्प­त्तिभ्यां कर­ण­त­द्वृ­त्त्यो­र्ल­य­भा­ना­त्सं­शयः । पूर्वपक्षे करणानां स्वरू­प­ल­या­न्मृ­त­मा­त्रस्य मुक्तिः, सिद्धान्ते तु संसारसिद्धिः । अनुपादाने मनसि वाच­स्त­त्त्व­ल­या­यो­गेन व्यापा­र­मा­त्रो­प­श­मा­दिति विवेकः ।