भाष्यरत्नप्रभाव्याख्या
पुरुषविद्याधिकरणम्
पुरुषविद्यायां छान्दोग्यस्थां विद्यामाह -
अस्तीति ।
'पुरुषो वाव यज्ञस्तस्य यानि चतुर्विंशति वर्षाणि तत्प्रातः सवनमथ यानि चतुश्चत्वारिंशद्वर्षाणि तन्माध्यन्दिनं सवनमथ यान्यष्टाचत्वारिंशद्वर्षाणि तत्तृतीयं सवनम्' इति प्रसिद्धयज्ञसाम्यार्थं सवनत्रयं कल्पितं, 'स यदशिशिषति यत्पिपासति यन्न रमते ता दीक्षा अथ यदश्नाति यत्पिबति यद्रमते ता उपसदः अथ यद्धसति यज्जक्षति यन्मैथुनं चरति तानि स्तुतशस्त्राणि अथ यत्तपोदानादि सा दक्षिणा मरणमेवावभृथः वस्वादिरूपा मे प्राणा इदं सवनत्रयं यावदायुरनुसंतनुते' इत्याशीः 'अक्षितमस्यच्युतमसि प्राणं संशितमसि' इति मन्त्रत्रयप्रयोगः । षोडशाधिकशतवर्षजीवित्वं फलमिति दर्शितम् ।
संशयार्थं शाखान्तरीयपुरुषविद्यामाह -
तैत्तिरीयका इति ।
अत्र विदुषो यज्ञस्येति षष्ठ्योःसामानाधिकरण्यवैयधिकरण्यानिश्चयात्संशयमाह -
तत्रेति ।
उपसंहारानुपसंहारावेव फलम् ।
पूर्वत्रासाधारणगुणप्रत्यभिज्ञानाभावात्संभृत्यादौ विद्याभेद उक्तः । इह त्वसाधारणमरणावभृथगुणविशिष्टपुरुषयज्ञरूपैक्यप्रत्यभिधानाद्विद्यैक्यमिति प्रत्युदाहरणेन प्राप्ते सिद्धान्तयति -
नोपसंहर्तव्या इति ।
'तस्यैवं विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी शरीरमिध्ममुरो वेदिर्लोमानि बर्हिर्वेदः शिखा हृदयं यूपः काम आज्यं मन्युः पशुस्तपोऽग्निर्दमः शमयिता दक्षिणा वाग्घोता प्राण उद्गाता चक्षुरध्वर्युर्मनो ब्रह्मा' इति बहुतरधर्मवैलक्षण्यान्न रूपैक्यप्रत्यभिज्ञेत्यर्थः । वेदः कुशमुष्टिः शमयिता दमो दक्षिणेत्यन्वयः ।
किञ्च छान्दोग्ये त्रिधाविभक्तायुषि सवनत्वकल्पना, अत्र तु सायङ्कालादाविति वैरूप्यमाह -
यदपीति ।
यन्मरणं तदवभृथो यद्रमते तदुपसद इति तित्तिरिश्रुतौ सारूप्यमपि भातीत्यत आह -
यदपि किञ्चिदिति ।
गजोष्ट्रयोश्चतुष्पात्त्वसारूप्यवदिदं सारूप्यं नैक्यप्रयोजकमित्यर्थः ।
किञ्च छान्दोग्ये पुरुषयज्ञयोरैक्यं श्रुतमत्र तु भेद इति वैरूप्यान्तरमाह -
न चेति ।
यद्यपि निषादस्थपतिन्यायेन सामानाधिकरण्यं षष्ठ्योर्युक्तं तथाप्यप्रसिद्धैक्यकल्पनागौरवाद्यज्ञस्यात्मेति भेदोक्तेरेकस्यैव यज्ञत्वयजमानत्वविरोधादात्मविदो यो यज्ञः प्रसिद्धस्तस्येति वैयधिकरण्यमेव युक्तम् । किञ्च विद्वत्संबन्धियज्ञरूपविशेष्यानुवादेन विद्वदङ्गैरङ्गसंपद्विधावेकवाक्यता प्रतीयते तस्यां सत्यां विशेष्यस्याङ्गानां च पृथग्विधिवादिनस्तव वाक्यभेददोषः स्यादित्यर्थः ।
किञ्च सत्यादिभ्यो न्यास एवापरे च यदिति संन्यासमुक्त्वा सर्वैः सर्वमिदं जगदित्येवं तमात्मानं ज्ञात्वा भूयो न मृत्युमुपयाति विद्वानिति संन्याससाध्यात्मविद्यां पुरस्तात्प्राजापत्यानुवाके उपदिश्यानन्तरानुवाके तस्यैवं विदुष इत्युक्तात्मविद्यानुवादेन प्रशंसार्थत्वेन, तच्छेषतयायज्ञसंपत्तिः क्रियते फलैक्यश्रुतेः, छन्दोगानां तु स्वतन्त्रविद्याविधिरित्याह -
अपि च ससंन्यासामिति ।
चिन्ताफलमाह -
तस्मादिति ॥२४॥