अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

कार्याधिकरणम्

एवं मार्गं निरूप्य गन्तव्यं चिन्तयति -
कार्यं बादरिरस्य गत्युपपत्तेः ।

परं ब्रह्म गन्तव्यमिति पूर्वपक्षे मार्गस्य मुक्त्यर्थता कार्यं ब्रह्मेति सिद्धान्ते भोगार्थतेति मत्वा प्रथमं सिद्धान्तमाह -
तत्र कार्यमेवेति ।
सर्वगतस्यापि प्रदे­शा­न्त­र­वि­शि­ष्ट­त्वे­ना­का­शस्य गन्तव्यत्वं दृष्टम् , ब्रह्मणस्तु प्रत्यक्त्वान्न कथमपि गन्त­व्य­ते­त्यर्थः ॥७॥

ब्रह्म­लो­के­ष्विति बहु­व­च­न­लो­क­श­ब्दा­धा­र­स­प्त­मी­श्रु­ति­भि­र्ग­न्त­व्यस्य पर­स्मा­द्व्या­वृ­त्त­त्वाच्च न परं गन्तव्यमित्याह -
विशे­षि­त­त्वा­च्चेति ।
परब्रह्मणि भोग्य­त्वो­प­चा­रा­द्गौणी लोक­श्रु­ति­रि­त्यर्थः । नपुं­स­क­ब्र­ह्म­श­ब्देन कारणवाचिना कार्यं लक्ष्यते गन्त­व्य­त्व­न्या­यो­पे­त­ब­हु­व­च­ना­द्य­ने­क­श्रु­त्य­नु­ग्र­हाय । न चाना­वृ­त्ति­लि­ङ्गा­त्प­रस्य गन्तव्यता, क्रममुक्त्या लिङ्ग­स्या­न्य­था­सि­द्धे­रिति भावः ॥८॥

प्रतिसञ्चरो महाप्रलयः, तस्मिन्प्राप्ते परस्य हिर­ण्य­ग­र्भ­स्यान्ते सम­ष्टि­लि­ङ्ग­श­री­र­रू­प­वि­का­रा­व­साने ब्रह्म­लो­क­नि­वा­सिनः कृतात्मानः शुद्ध­धि­य­स्त­त्रो­त्प­न्न­स­म्य­ग्धियः सर्वे ब्रह्मणा मुच्यमानेन सह परं पदं प्रविशन्तीति योजना । एवं सिद्धा­न्त­मुक्त्वा तेन निरस्तं पूर्वपक्षमाह -
कं पुनरित्यादिना ॥९ ॥ ॥१० ॥ ॥११ ॥ ॥१२॥
दहरविद्यायां कठवल्लीषु परब्रह्मप्रकरणे च तयो­र्ध्व­मा­य­न्निति गतिर्दर्शिता ॥१३॥

एवं ब्रह्म­श्रु­त्य­मृ­त­त्व­लि­ङ्गाभ्यां प्रकरणाच्च परविषया गतिरित्युक्तम् , सम्प्रति प्रजापतेः सभां वेश्म प्राप्नुयामिति उपासकस्य मरणकाले कार्य­प्रा­प्ति­स­ङ्क­ल्प­श्रु­तेर्न परं गन्तव्यमिति शङ्कां निरस्यति -
न च कार्य इति ।
परस्य प्रकृतत्वात्, यशःपदस्य पर­मा­त्म­ना­म­त्व­प्र­सिद्ध्या यशः­प­दे­ना­त्मोक्तिः । यश आत्मा ब्राह्मणानामहं भवामि, तथा राज्ञां यशो विशां यश इति सार्वा­त्म्य­लि­ङ्गाच्च पर­प्रा­प्ति­स­ङ्कल्प एवायमित्यर्थः ।

अस्तु वेश्म­प्र­ति­प­त्तीच्छा परब्रह्मविषया तथापि सा कथं गतिपूर्विका स्यादित्यत आह -
सा चेति ।
तत्तत्र ब्रह्मलोके विद्या­वि­ही­ने­ना­प­रा­जिता पूरस्ति ब्रह्मणो हिरण्यगर्भस्य तेनैव प्रभुणां विमितं निर्मितं हिरण्मयं वेश्मास्ति तत्प्रतिपद्यते विद्वानिति दहरविद्यायां गतिपूर्विका वेश्म­प्रा­प्ति­रुक्ता । तेन परब्रह्मण्यपि वेश्म­प्र­ति­प­त्ति­श­ब्द­सा­मा­न्या­द्ग­ति­पू­र्व­कत्वं तस्याः सिध्यतीत्यर्थः ।

किञ्च पद गताविति धातुपाठाद्वेश्म प्रपद्ये इत्यत्र मार्गापेक्षा भातीत्याह -
पदेरपीति ।

पूर्व­प­क्ष­मु­प­सं­ह­रति -
तस्मादिति ।

आद्य एव सिद्धान्तपक्ष इति दृढी­क­र्तु­मु­प­स­ङ्क्र­मते -
ताविति ।

ब्रह्म­श­ब्द­मु­ख्य­त्वा­दि­हे­तू­ना­मा­भा­सत्वं स्फुटयति -
न हीति ।
गन्तव्यत्वस्य ब्रह्म­लो­के­ष्विति बहुवचनादेः सङ्कल्पादेव गन्धा­दि­दि­व्य­भो­ग­श्रु­तेश्च पर­ब्र­ह्म­ण्य­स­म्भ­वा­न्मु­ख्या­र्थ­त्याग इत्यर्थः । यद्यप्येतद्वै सत्यकाम परं चापरं च ब्रह्मे­त्या­दि­श्रु­तिषु प्रयो­ग­सा­म्या­द्ब्र­ह्म­शब्द उभयत्र रूढतया मुख्य एव तथापि पूर्णे पर­स्मि­न्न­व­य­वा­र्थस्य निर­ति­श­य­म­ह­त्त्वस्य लाभा­द­प­र­ब्र­ह्म­ण्य­मुख्य इत्यङ्गीकृतमिति मन्तव्यम् ।

यदुक्तं कठवल्लीषु प्रकरणबलाद्गतिः परविषयेति, तत्राह -
परेति ।
यथा विद्या­स­म्ब­द्ध­सु­षु­म्ना­स्तु­त्यर्थं तद­स­म्ब­द्ध­ना­ड्य­न्त­र­की­र्तनं तथा पर­वि­द्या­स्तु­त्यर्थं तत्प्र­क­र­णेऽ­प्य­प­र­वि­द्या­श्र­य­ग­ति­की­र्तनं युज्यते, गतिं विनापि हि परविद्या निरतिशयफला तस्यां त्वपरविद्याफलं गति­सा­ध्य­म­न्त­र्भ­व­तीति स्तुति­ला­भा­दि­त्यर्थः ।

यदप्युक्तं प्राप्ति­स­ङ्क­ल्पोऽपि प्रकृतपरविषय इति तन्नेत्याह -
प्रजापतेरिति ।
प्रजा­प­ति­स­भा­वे­श्म­श्रु­ति­भि­स्त­त्स­ङ्घा­ता­त्म­क­वा­क्येन च प्रकरणं बाध्यम् , यशोऽहमिति सार्वात्म्यं तूपा­स­ना­र्थ­म­प­र­ब्र­ह्म­ण्यु­प­यु­ज्यत इत्यर्थः ।

स्वपक्षमुक्त्वा परमतं दूषयति -
केचिदित्यादिना ।

सर्वगतस्य स्वात्म­भू­त­स्यापि ब्रह्मणः संसा­र­दे­शा­द्दे­शा­न्त­रेण तत्का­ला­त्का­ला­न्त­रेण विशिष्टतया गन्तव्यत्वं स्यादिति पृथि­वी­व­यो­दृ­ष्टा­न्ताभ्यां शङ्कते -
नन्विति ।
यत्नं विनैव प्राप्त­म­न­न्य­त्वम्, अव­स्था­त­द्व­तो­र­भे­दा­त्स्वा­त्म­भू­त­त्वम् ।

ननु युक्तं भूवयसोः प्राप्तयोरपि देशा­न्त­र­का­ला­न्त­र­वि­शि­ष्ट­त्वेन गन्तव्यत्वं तयो­र्ग­न्तृ­भि­न्न­त्वात्, ब्रह्मणस्तु गन्त्रभिन्नस्य कथं गन्तव्यत्वं तत्राह -
सर्वशक्तीति ।
या प्राप्ता भूः सा न गन्तव्या यच्च गन्तव्यं देशान्तरं तत्त्व­प्रा­प्त­मिति कुतः प्राप्तस्य गन्तव्यता वयसोऽपि काला­न्त­रेऽ­भि­व्य­क्ति­मात्रं न गन्तव्यत्वमिति वस्तुगतिः ।

अङ्गीकृत्य विशि­ष्ट­भू­व­य­सो­र्ग­न्त­व्यतां परब्रह्मणो देश­का­ल­वै­शि­ष्ट्या­भा­वान्न कथञ्चिदपि गन्तव्यतेत्याह -
नेत्यादिना ।
'अना­दि­म­त्परं ब्रह्म' इत्याद्या स्मृति­र्दृ­श्य­वि­शे­षस्य दृशि कल्पि­त­त्वा­द्दृ­गा­त्मनो निर्विशेषतेति न्यायः ।

सगुणमेव ब्रह्म सूत्रा­त्मा­पे­क्षया परं गन्तव्यम् , निर्विशेषं तु नास्त्येवेति शङ्कते -
जगदुत्पत्तीति ।

किं निर्वि­शे­ष­स्या­सत्त्वं माना­भा­वा­त्स­वि­शे­ष­श्रु­ति­वि­रो­धाद्वा । नाद्य इत्याह -
नेति ।

द्वितीयं शङ्कते -
उत्पत्त्यादीति ।

सविशेषश्रुतीनां निर्वि­शे­ष­श्रु­ति­शे­ष­त्वान्न विरोध इत्याह -
नेति ।

निर्वि­शे­ष­श्रु­ती­ना­मेव सवि­शे­ष­श्रु­ति­शे­षत्वं किं न स्यादित्याह -
कस्मादिति ।

तासां स्वार्थे फलवत्त्वेन निरा­का­ङ्क्ष­त्वा­च्छे­षिता विशेषश्रुतीनां त्वफ­ल­त्वा­न्नि­षे­ध्य­वि­शे­ष­स­म­र्प­णा­दि­द्वा­रेण शेषत्वं फल­व­त्स­न्नि­धा­व­फलं तदङ्गमिति न्यायादित्याह -
उच्यत इत्यादिना ।

न केवलं न्यायाच्छेषता किन्तु श्रुत्यापीत्याह -
प्रत्यक्षं त्विति ।
तत्र मूलकारणे ब्रह्म­ण्ये­त­च्छुङ्गं जगदात्मकं कार्य­मु­त्प­न्न­मि­त्यु­प­क्रम्य तेन शुङ्गेन तन्मू­ल­म­न्वि­च्छे­त्यु­प­सं­हारे सत एव ज्ञेयत्वमुक्तं छान्दोग्ये । तथा तैत्तिरीयकेऽपि जग­ज्ज­न्मा­द्य­नु­वा­देन ब्रह्मण एव ज्ञेयत्वं दर्शितमतः सृष्टिश्रुतीनां श्रुत्यैव निर्वि­शे­ष­धी­शे­षता भातीत्यर्थः ।

एवं ब्रह्मणो निर्वि­शे­ष­त्वान्न गन्तव्यतेति फलितमाह -
एवमिति ।

स्पष्टनिषेधाच्च परस्य न गन्तव्यतेत्याह -
न तस्येति ।

एवं गन्तव्यालोचनया गतिं निरस्य गन्त्रालोचनयापि निरस्यति -
गतिकल्पनायां चेत्यादिना ।
भेदाभेदेन द्वौ कल्पा­व­त्य­न्त­भे­द­स्तृ­तीयः कल्पः ।

नन्व­त्य­न्ता­भे­द­कल्पः किमिति नोक्तः, तत्राह -
अत्यन्तेति ।

कल्पत्रये किं दूषणमिति पृच्छति -
यद्येवमिति ।

कल्पद्वयेऽपि दोषान्तरमाह -
विका­रा­व­य­व­प­क्ष­यो­श्चेति ।
विका­रा­व­य­व­रू­प­जी­व­वि­शि­ष्टस्य ब्रह्मणः स्थिर­त्वा­ज्जी­वानां गत्यागती न स्याताम् । न ह्यच­ला­ति­स्थू­ल­पा­षा­ण­स्थ­यो­र्म­ण्डू­क­पा­षा­णा­व­य­व­यो­श्च­ल­न­म­स्ती­त्यर्थः । अस्माकं त्वज्ञा­ना­त्क­ल्पि­तो­पा­धि­भि­र्ग­त्या­ग­ति­वि­भ्रम इति भावः ।

तृतीयकल्पमनूद्य विकल्प्य दूषयति -
अथेत्यादिना ।

अभे­द­श्रु­ति­वि­रो­ध­रूपो दोषो मम नास्तीति भेदाभेदवाद्याह -
विकारावयवयोरिति ।

भिन्नयोरभेदो मुख्यो न युक्तो विरोधादिति परिहरति -
नेति ।

किञ्च पक्ष­त्र­य­म­प्य­युक्तं संसारित्वस्य तात्त्वि­क­जी­व­भा­वस्य नाशे तात्त्वि­व­जी­व­स्व­रू­प­ना­श­प्र­स­ङ्गात् । न चास्माभिरिव त्वया ब्रह्मात्मत्वं जीवस्य तात्त्वि­क­रू­प­म­ङ्गी­कृतं यदस्य संसारनाशेऽपि न नश्येदित्याह -
सर्वेष्विति ।

ननु किं ब्रह्मत्वेन, संसाराभावः किल मोक्षः स च कर्माभावमात्रेण सेत्स्यतीति क्रमजडानां मतमुद्भाव्य निरस्यति -
यत्त्वित्यादिना ।

तदिति ।
एवंवृत्तं मोक्ष­हे­तु­रि­त्य­स्मि­न्नर्थे माना­भा­वा­दि­त्यर्थः ।

तर्क एव मानमित्यत आह -
न चैत­त्त­र्क­यि­तु­मिति ।

ननु तवा­प्ये­त­त्त­र्क­मा­त्र­मे­क­स्मि­ञ्ज­न्म­न्य­ने­क­वि­रु­द्ध­फ­लानां कर्मणां भोगा­यो­गा­द­स्त्य­व­शिष्टं कर्म जन्मान्तरस्य निमि­त्त­मि­त्या­शङ्क्य तत्र मानमाह -
कर्म­शे­ष­स­द्भा­व­सि­द्धि­श्चेति ।

सन्त्व­ना­र­ब्ध­फ­लानि पुण्यपापानि तेषां नित्या­द्य­नु­ष्ठा­नेन क्षयान्न जन्मान्तरमिति शङ्कते -
स्यादेतदिति ।
पुण्येन पुण्यस्य न नाशः अवि­रो­धा­द­न्य­था­ति­प्र­स­ङ्गात् ।

पापस्यापि सर्वात्मना पुण्यनाश्यत्वे मानं नास्तीति सञ्चि­त­पु­ण्य­पा­पाभ्यां जन्मान्तरं दुर्वारमित्याह -
तन्नेत्यादिना ।

क्रिय­मा­ण­नि­त्या­दि­नापि जन्म स्यात्, कर्मणा पितृलोक इत्य­वि­शे­ष­श्रुतेः, स्मृतेश्चेत्याह -
न च नित्येति ।
प्रत्य­वा­य­नि­रा­सार्थे नित्याद्याचारे सत्यनु पश्चात्फलान्तरं निष्पद्यत इत्यत्र दृष्टान्तः ।

तद्यथेति ।
निर्मिते आरोपिते सतीत्यर्थः ।

तथापि काम्या­दि­क­र्म­स­त्ता­नि­श्चयो नास्त्यत आह -
संशयितव्यं त्विति ।
ज्ञानं विना देहपाते मोक्ष एवेति निश्च­या­ला­भा­त्त्व­त्पक्षे क्षतिरिति भावः ।

ब्रह्मभिन्नस्य जीवस्य कर्तृ­त्वा­दि­स्व­भा­वस्य मोक्षाशापि न युक्तेत्याह -
न चेति ।

कर्तृत्वादिरूपं कार्यं न स्वभावः किन्तु तच्छक्तिरिति शङ्कते -
स्यादेतदिति ।

कार्यगम्यायाः शक्तेः कार्य­स्या­त्य­न्ता­नु­त्पादे सत्त्वमयुक्तमतः शक्तिसत्त्वे तद्विषयस्य कार्य­स्या­दृ­ष्ट­दे­श­का­ला­दि­नि­मि­त्तानां चात्मना शक्तिद्वारा नित्य­स­म्ब­द्ध­त्वा­न्मोक्षो न स्यादिति परिहरति -
तच्चेत्यादिना ।

मोक्ष­सि­द्ध्यर्थं जीवस्य ब्रह्म­त्वा­ङ्गी­कारे संसा­रा­नु­प­प­त्ति­मा­श­ङ्क्या­ज्ञा­ना­दु­प­प­त्ति­म­स­कृ­दुक्तां स्मारयति -
पर­स्मा­दि­त्या­दिना ।

प्रासङ्गिकं परिहृत्य परमं प्रकृतमुपसंहरति -
तदेवमिति ।

ननु पर­वि­द्या­या­म­प्या­प्नो­ति­प­देन गतिः श्रुतेत्यत आह -
ब्रह्म­वि­दा­प्नो­तीति ।

वैफल्याच्च गतेर्न पर­वि­ष­य­त्व­मि­त्याह -
अपि चेति ।

अनुचिन्तनपक्षं प्रत्याह -
न च नित्यसिद्धेति ।

कथं तर्हि कैश्चि­त्प­र­वि­ष­यत्वं गते­रु­क्त­मि­त्या­शङ्क्य भ्रान्त्येत्याह -
तत्र परापरेति ।

प्रश्नपूर्वकं परा­प­र­ब्र­ह्म­वि­भागं वदन्नपरब्रह्मणि गते­र­र्थ­व­त्त्व­माह -
किं द्वे इत्यादिना ।

व्यापिनो जीवस्य कथं गतिस्तत्राह -
सर्वगतत्वेऽपीति ॥१४॥