भाष्यरत्नप्रभाव्याख्या
आध्यानाधिकरणम्
आध्यानाय वाक्यभेदाभेदानवधारणात्संशयमाह -
तत्रेति ।
पूर्वपक्षे वाक्यभेदाद्विद्याभेदः, सिद्धान्ते वाक्यैक्याद्विद्यैक्यमिति फलम् । पूर्वत्र ब्रह्मस्वभावानामानन्दादीनामुपसंहार्याणां ब्रह्मज्ञानफलोपायत्वमुक्तम्, अत्रत्वब्रह्मस्वभावस्यार्थादिपरत्वस्यानुपसंहार्यस्य तदुपायत्वमुच्यत इत्येकफलकत्वं संगतिः, तत्तत्परत्वविशिष्टत्वेनार्थादीनामपूर्वतया प्रतिपाद्यानां भेदाद्वाक्यभेदो न दोष इति पूर्वपक्षः ।
उत्सूत्रसिद्धान्तं प्रतिज्ञाय सौत्रं हेतुं व्याचष्टे -
पुरुष एवेति ।
फलवत्त्वे सत्यपूर्वत्वात्पुरुषस्यैव प्राधान्येन प्रतिपाद्यत्वमफलार्थादीनां परत्वं तु तच्छेषत्वेनोच्यत इत्यर्थः ।
किञ्च 'पुरुषान्न परं किञ्चित्सा काष्ठा' इति वेदः परनिषेधलिङ्गेन सर्वबाधावधित्वलिङ्गेन च पुरुषे तात्पर्यं दर्शयन्पूर्वस्मात्पूर्वस्मादपरस्यापरस्य परत्वोक्तिस्तदर्थेति दर्शयतीत्याह -
अपि चेति ।
अर्थादीनामत्रोक्तिराध्यानाय तत्तत्परत्वाध्यानपूर्वकं पुरुषदर्शनायैव स्वतः प्रयोजनाभावादिति सूत्रं योजयति -
आध्यानायेति ॥१४॥
आत्मत्वादिलिङ्गैश्च पुरुष एव प्रतिपाद्य इत्याह -
आत्मशब्दाच्चेति ।
किञ्च 'तद्विष्णोः परमं पदं, पुरषान्न परं किञ्चित्' इत्युपक्रमोपसंहारयोरैकरूप्यात्कॢप्तफलवदेकपुरुषपरत्वेनैकवाक्यत्वनिश्चये सति वाक्यभेदफलभेदकल्पना न युक्ता गौरवादित्याह -
अपि चेति ॥१५॥