अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

रचनानुपपत्त्यधिकरणम्

प्रधानमचेतनं जगदुपादानमिति साङ्ख्य­सि­द्धा­न्तोऽत्र विषयः स किं प्रमाणमूलो भ्रान्तिमूलो वेति सन्देहे 'सर्व­ध­र्मो­प­प­त्तेश्च' इत्यु­क्त­ध­र्माणां प्रधाने सम्भ­वा­त्त­दे­वो­पा­दा­न­मि­त्या­क्षे­प­स­ङ्गत्या प्रमाणमूलत्वं दर्शयन् पूरवपक्षमाह -
तत्र साङ्ख्या इति ।
स्वसि­द्धा­न्त­ज्ञा­नस्य परमतनिरासं प्रत्यु­प­जी­व्य­त्वा­त्पा­दयोः सङ्गतिः । पर­म­त­नि­रा­सा­त्म­क­त्मा­त्स­र्वे­षा­म­धि­क­र­णा­ना­मे­त­त्पा­द­स­ङ्गतिः । पूर्वपक्षे प्रमा­ण­मू­ल­म­त­वि­रो­धा­दु­क्त­श्रु­त्य­र्थ­स­म­न्व­या­सिद्धिः फलम् , सिद्धान्ते तत्सि­द्धि­रि­त्या­पादं द्रष्टव्यम् । मूल­श्रौ­त­स­म­न्व­य­दा­र्ढ्या­र्थ­त्वा­दस्य पादस्य श्रुति­स­ङ्ग­ति­रिति विवेकः ।

भिद्यन्त इति भेदा विकाराः, ये विकारा येनान्वितास्ते तत्प्रकृतिका इति व्याप्तिमाह -
यथेति ।

सर्वं कार्यं सुख­दुः­ख­मो­हा­त्म­क­व­स्तु­प्र­कृ­ति­कम् , तदन्वितत्वात् , घटा­दि­व­दि­त्य­नु­मा­न­माह -
तथेति ।

किमर्थं प्रधानं परिणमते, तत्राह -
चेतनस्येति ।
अर्थो भोगापवर्गरूपः, तदर्थं स्वभावत एव प्रवर्तते न तु केन चिच्चेतनेन प्रेर्यत इत्यर्थः । तदुक्तम् 'पुरुषार्थ एव हेतुर्न केन चित्कार्यते करणम्' इति ।

अनुमानान्तराणि तैरुक्तानि स्मारयति -
तथेति ।
उक्तं हि 'भेदानां परि­मा­णा­त्स­म­न्व­या­च्छ­क्तितः प्रवृत्तेश्च । कार­ण­का­र्य­वि­भा­गा­द­वि­भा­गा­द्वै­श्व­रू­प्यस्य ॥ ' इति । अत्र कारिकायां समन्वयादिति लिङ्गं व्याख्यातम् । शिष्टानि व्याख्यायन्ते । तथा हि क्षित्यादीनां भेदानां कार­ण­म­व्य­क्त­मस्ति, परिमितत्वात् , घटवत् । न च दृष्टान्ते साध्यवैकल्यम् , घटोत्पत्तेः प्राग­न­भि­व्य­क्त­घ­टा­दि­रू­प­का­र्य­वि­शि­ष्ट­त्वेन मृदोऽ­प्य­व्य­क्त­त्वात् । तथा घटादीनां कारणशक्तितः प्रवृ­त्ते­र्म­ह­दा­दि­का­र्या­णा­मपि कारणशक्तितः प्रवृ­त्ति­र्वाच्या, तच्छ­क्ति­म­त्का­र­ण­म­व्य­क्तम् । किञ्च कारणात्कार्यस्य विभागो जन्म दृश्यते क्षिते­र्मृ­त्तिका जायते ततो घट इति । एवमविभागः प्रातिलोम्येन प्रलयो दृश्यते घटस्य मृत्तिकायां लयः तस्याः क्षितौ क्षितेरप्सु अपां तेजसीति । एतौ विभागाविभागौ वैश्वरूप्यस्य विचित्रस्य भावजातस्य दृश्यमानौ पृथक्पक्षीकृतौ क्वचित्कारणे विश्रान्तौ विभा­ग­त्वा­द­वि­भा­ग­त्वाच्च मृदि घट­वि­भा­गा­वि­भा­ग­व­दि­त्यर्थः ।

सिद्धान्तयति -
तत्र वदाम इति ।

किम­नु­मा­नै­र­चे­त­न­प्र­कृ­ति­कत्वं जगतः साध्यते, स्वत­न्त्रा­चे­त­न­प्र­कृ­ति­कत्वं वा । आद्ये सिद्धसाधनता, अस्मा­भि­र­ना­दि­त्रि­गु­ण­मा­या­ङ्गी­का­रात् । द्वितीये घटादिदृष्टान्ते साध्या­प्र­सि­द्धि­रि­त्याह -
यदीति ।
स्वतन्त्रमचेतनं प्रकृ­ति­रि­त्ये­त­द्दृ­ष्टा­न्त­ब­लेन तदा निरूप्येत यदि दृष्टान्तः क्वचित्स्यात् । न तु दृष्टः क्वचिदित्यन्वयः ।

स्वत­न्त्र­प­दा­र्थ­माह -
चेत­ना­न­धि­ष्टि­त­मिति ।

परकीयस्य साध्य­स्या­प्र­सि­द्धि­मुक्त्वा सत्प्रतिपक्षं वक्तुं यद्वि­चि­त्र­र­च­ना­त्मकं कार्यं तच्चे­त­ना­धि­ष्ठि­ता­चे­त­न­प्र­कृ­ति­क­मिति व्याप्तिमाह -
गेहेति ।
इदं जग­च्चे­त­ना­धि­ष्ठि­ता­चे­त­न­प्र­कृ­ति­कम् , कार्यत्वात् , गेहवदिति प्रयोगः ।

विपक्षे विचि­त्र­र­च­ना­नु­प­प­त्ति­रूपं सूत्रोक्तं बाधकतर्कं वक्तुं जगतो वैचित्र्यमाह -
तथेति ।
बाह्यं पृथिव्यादि भोग्यम् , आध्यात्मिकं शरीरादि च भोगाधिष्ठानमिति विभागः । प्रति­नि­य­तोऽ­सा­धा­र­णोऽ­व­य­वानां विन्यासो रचना यस्य तदित्यर्थः । इत्थं विचित्रं जग­च्चे­त­ना­न­धि­ष्ठिता जडप्रकृतिः कथं रचयेत् । न कथमपीत्यर्थः ।

यच्चे­त­ना­न­धि­ष्ठि­त­म­चे­तनं तन्न कार्यकारीति व्याप्ति­मु­क्त­त­र्क­मू­ल­भू­ता­माह -
लोष्टेति ।
चेतनाप्रेरितेषु लोष्टादिषु कार्य­का­रि­त्वा­द­र्श­ना­दि­त्यर्थः ।

किञ्चा­ना­दि­ज­ड­प्र­कृ­ति­श्चे­त­ना­धि­ष्टिता, परिणामित्वात् , मृदादिवदित्याह -
मृदिति ।

ननु मृदा­दि­दृ­ष्टान्ते द्वय­म­प्य­स्त्य­चे­त­नत्वं चेत­ना­धि­ष्ठि­तत्वं चेति, तत्र परि­णा­मि­त्व­हे­तो­र­चे­त­न­त्व­मेव व्यापकं मृदा­दि­स्व­रू­प­त्वे­ना­न्त­र­ङ्ग­त्वात् , न तु चेत­ना­धि­ष्ठि­तत्वं व्यापकम् , तस्य मृदा­दि­बा­ह्य­कु­ला­ला­दि­सा­पे­क्ष­त्वेन बहिरङ्गत्वात् , तथा च परिणामित्वेऽपि मूल­प्र­कृ­ते­र­चे­त­न­त्व­ध­र्मे­णैव योगो न चेत­ना­धि­ष्ठि­त­त्वे­ने­त्या­शङ्क्य निषेधति -
न चेति ।
महा­न­स­दृ­ष्टा­न्तेऽ­न्त­र­ङ्ग­स्यापि महानसस्वरूपस्य धूमव्यापकत्वं नास्ति तद्भिन्नस्य बहिरङ्गस्यापि वह्ने­स्त­द­स्ती­त्य­न्त­र­ङ्गत्वं व्यापकत्वे प्रयोजकं न भवतीति भावः ।

किञ्च यदचेतनं तच्चे­त­ना­धि­ष्ठि­त­मेव परिणमत इत्यङ्गीकारे बाध­का­भा­वा­त्प्र­त्युत श्रुत्य­नु­ग्र­हाच्च तथा­ङ्गी­का­र्य­मि­त्याह -
न चैवं सतीति ।

सुख­दुः­ख­मो­हा­न्व­या­दिति हेतो­र­सि­द्धि­द्यो­त­नार्थं सूत्रे चकार इत्याह -
अन्व­या­द्य­नु­प­प­त्ते­श्चेति ।
नानुमानं युक्तमित्यर्थः । आदिशब्दः परि­मा­णा­दि­ग्र­हार्थः । श्ब्दादीनां बाह्य­त्वा­नु­भ­वा­दा­न्त­र­सु­खा­द्या­त्म­क­त्व­म­सिद्धं तन्नि­मि­त्त­त्वाच्च । न हि निमि­त्त­नै­मि­त्ति­क­यो­र­भे­देन योगोऽस्ति, दण्ड­घ­ट­यो­र­द­र्श­ना­दि­त्यर्थः । किञ्च यदि घटे मृद्वत्सुखादिकं शब्दाद्यन्वितं स्यात्तर्हि सर्वैरविशेषेण सुखा­दि­क­मु­प­ल­भ्येत घटे मृद्वत् ।

न तथो­प­ल­ब्धि­र­स्तीति योग्या­नु­प­लब्ध्या हेत्वभावनिश्चय इत्याह -
शब्दादीति ।
विष­य­स्यै­क­त्वेऽपि पुरु­ष­वा­स­ना­वै­चि­त्र्या­त्क­स्य­चि­त्सु­ख­बुद्धिः कस्य­चि­द्दुः­ख­बुद्धिः कस्य­चि­न्मो­ह­बु­द्धि­र्दृ­श्य­तेऽतो विषयाः सुखाद्यात्मका न भवन्तीत्यर्थः ।

एवं समन्वयादिति हेतुं दूषयित्वा परिमाणादिहेतून् दूषयति -
तथेति ।
बुद्ध्यादीनां परिमितत्वेन संस­र्ग­पू­र्व­क­त्व­सिद्धौ संसृ­ष्टा­न्य­ने­कानि सत्त्व­र­ज­स्त­मांसि सिद्ध्यन्ति, एकस्मिन् संस­र्गा­स­म्भ­वान्न ब्रह्म­सि­द्धि­रिति साङ्ख्यस्य भावः । किमिदं परिमितत्वम् , न तावद्देशतः परिच्छेदः, पक्षा­न्त­र्ग­ता­काशे तस्याभावेन भावासिद्धेः । नापि कालतः परिच्छेदः, साङ्ख्यैः काल­स्या­न­ङ्गी­का­रात् , अवि­द्या­गु­ण­सं­स­र्गेण सिद्धसाधनाच्च ।

नापि वस्तुतः परिच्छेदः, सत्त्वादीनां परस्परं भिन्नत्वे सत्यपि साध्याभावेन व्यभि­चा­रा­दि­त्याह -
सत्त्वेति ।
यदुक्तं कार्यकारणविभागो यत्र समाप्यते तत्प्रधानमिति । तन्न । ब्रह्मणि मायायां वा समाप्तिसम्भवात् ।

न च यः कार्यस्य विभागः स चेत­ना­न­धि­ष्ठि­ता­चे­तने समाप्त इति व्याप्तिरस्ति, सर्वत्राचेतनेषु चेत­ना­धि­ष्ठा­न­द­र्श­ना­दि­त्याह -
कार्येति ।
एतेनाविभागोऽपि व्याख्यातः । यत्तु यत्परिमितं तद­व्य­क्त­प्र­कृ­ति­पू­र्व­क­मिति व्याप्त्यन्तरम् , तस्यापि गुणेष्वनादिषु परिमितेषु व्यभिचारः । एतेन सदृशयोरेव प्रकृ­ति­वि­का­र­भा­वा­द­चे­त­न­वि­का­रा­णा­म­चे­त­न­मेव प्रकृतिरिति निरस्तम् । चेत­ना­धि­ष्ठि­ता­चे­त­न­प्र­कृ­ति­क­त्वेऽपि सादृ­श्यो­प­पत्तेः, 'न विल­क्ष­ण­त्वात्' इत्यत्र सादृश्यनियमस्य निरस्तत्वाच्च । एवं चेत­ना­धी­न­का­र­ण­श­क्तितः कार्य­प्र­वृ­त्ति­स­म्भ­वात् शक्तितः प्रवृ­त्ति­लि­ङ्ग­म­न्य­था­सि­द्ध­मिति भावः ॥१॥

स्वतन्त्रमचेतनं कारणत्वेन नानुमातव्यम् , तस्य सृष्ट्यर्थं प्रवृ­त्ते­र­नु­प­प­त्ते­रिति चका­रे­णा­नु­प­प­त्ति­प­द­म­नु­षज्य सूत्रं योजनीयम् । रच­ना­प्र­वृत्त्योः को भेद इत्याशङ्क्य प्रवृ­त्ति­स्व­रू­प­माह -
साम्येति ।
गुणानां किल साम्यावस्था तत्त्वानां प्रलयः, तदा न किञ्चित्कार्यं भवति प्रल­या­भा­व­प्र­स­ङ्गात् । किन्त्वादौ साम्य­प्र­च्यु­ति­रूपं वैषम्यं भवति, ततः कस्य­चि­द्गु­ण­स्या­ङ्गि­त्व­मु­द्भू­त­त्वेन प्राधान्यं कस्यचिदङ्गत्वं शेष­त्व­मि­त्य­ङ्गा­ङ्गि­भावो भवति, तस्मिन् सति मह­दा­दि­का­र्यो­त्पा­द­ना­त्मिका प्रवृत्तिः, तया विवि­ध­का­र्य­वि­न्यासो रचनेति भेद इत्यर्थः ।

गुणानां प्रवृ­त्ति­श्चे­त­ना­धि­ष्ठा­न­पू­र्विका, प्रवृत्तित्वात् , रथा­दि­प्र­वृ­त्ति­व­दि­त्याह -
सापीति ।
विपक्षे स्वतन्त्रे प्रवृ­त्त्य­नु­प­प­त्ति­रि­त्यर्थः । केचित्तु भेदानां प्रवृ­त्ति­श­क्ति­म­त्वा­च्चे­त­ना­न­धि­ष्ठ­ता­चे­त­न­प्र­कृ­ति­क­त्व­मिति शक्तितः प्रवृत्तिरिति लिङ्गं व्याचक्षते । अस्यापि गुणेषु व्यभिचारः । कार्यत्वविशेषणे च विरुद्धता, प्रवृ­त्ति­श­क्ति­मत्वे सति कार्यत्वस्य घटादिषु चेत­ना­धि­ष्टि­त­प्र­कृ­ति­क­त्वे­नो­क्त­सा­ध्य­वि­रु­द्धेन व्याप्ति­द­र्श­ना­दिति 'प्रवृ­त्तेश्च' इति सूत्रेण ज्ञापितम् ।

ननु लोके स्वत­न्त्रा­चे­त­नानां प्रवृ­त्य­द­र्श­नेऽपि प्रधाने सा प्रवृत्तिः सिध्यतु, तत्राह -
दृष्टाच्चेति ।
अनुमानशरणस्य तव दृष्टन्तं विना­ती­न्द्रि­या­र्थ­सि­द्ध्य­यो­गा­दिति भावः ।

ननु प्रधानस्य प्रवृत्तिं खण्डयता चेतनस्य सृष्टौ प्रवृ­त्ति­र्वाच्या सा न युक्तेति साङ्ख्यः शङ्कते -
नन्विति ।

शुद्धचेतनस्य प्रवृ­त्त्य­यो­ग­म­ङ्गी­क­रोति -
सत्यमिति ।

तर्हि केवलस्याचेतनस्य प्रवृ­त्ति­सि­द्धि­र­न्यथा सृष्ट्ययोगात् , तत्राह -
तथापीति ।
केवलस्य चेत­न­स्या­प्र­वृ­त्ता­वपि चेत­ना­चे­त­न­यो­र्मिथः सम्ब­न्धा­त्सृ­ष्टि­प्र­वृ­त्ति­रिति भावः ।

इमं वेदा­न्त­सि­द्धान्तं साङ्ख्यो दूषयति -
न त्विति ।
सर्वा प्रवृ­त्ति­र­चे­त­ना­श्र­यैव दृष्टा । न त्वचे­त­न­स­म्ब­न्धे­नापि चेतनस्य क्वचि­त्प्र­वृ­त्ति­र्दृष्टा । तस्मान्न चेत­ना­त्सृ­ष्टि­रि­त्यर्थः ।

मतद्वयं श्रुत्वा मध्यस्थः पृच्छति -
किं पुनरिति ।
यस्मिन्न चेतने रथादौ प्रवृ­त्ति­र्दृष्टा तस्यैव सा न चेतनस्तत्र हेतुरिति किं साङ्ख्यमतं साधु उत येन चेतनेनाश्वादिना संयोगादचेतनस्य प्रवृ­त्ति­स्त­त्प्र­युक्ता सेति वेदान्तिमतं वा साध्विति प्रश्नार्थः ।

साङ्ख्य आह -
नन्विति ।

उभयोः ।
प्रवृ­त्ति­त­दा­श्र­य­यो­रि­त्यर्थः । दृष्टाश्रयेणैव प्रवृ­त्ते­रु­प­प­त्ता­व­दृ­ष्ट­चे­त­न­प्र­वृ­त्तिर्न कल्प्येति भावः ।

आत्म­नोऽ­प्र­त्य­क्षत्वे कथं सिद्धिः, तत्राह -
प्रवृत्तीति ।
जीवद्देहस्य रथादिभ्यो वैलक्षण्यं प्राणादिसत्त्वं लिङ्गं दृष्टमिति कृत्वा चेतनस्य सिद्धि­रि­त्य­न्वयः । जीवद्देहः सात्मकः प्राणादिमत्वात् , व्यतिरेकेण रथा­दि­व­दि­त्या­त्म­सि­द्धि­रि­त्यर्थः । देहप्रवृत्तिः स्वाश्रयादन्येन ज्ञानवता सहभूता, प्रवृत्तित्वात् , रथ­प्र­वृ­त्ति­व­दि­त्य­नु­मा­ना­न्त­र­सू­च­नाय प्रवृ­त्त्या­श्र­ये­त्यु­क्तम् , सद्भावसिद्धिरेव न प्रव­र्त­क­त्व­मि­त्ये­व­का­रार्थः । अनुमितस्य सद्भावमात्रेण प्रवृ­त्ति­हे­तुत्वे सर्व­त्रा­का­श­स्यापि हेतु­त्व­प्र­स­ङ्गा­दिति भावः ।

आत्म­नोऽ­प्र­त्य­क्षत्वे चार्वाकाणां भ्रमोऽपि लिङ्गमित्याह -
अत एवेति ।
अप्र­त्य­क्ष­त्वा­दे­वे­त्यर्थः । देहान्यात्मनः प्रत्यक्षत्वे भ्रमासम्भवादिति भावः ।

दर्शनात् ।
प्रवृ­त्ति­चै­त­न्य­यो­रिति शेषः ।

प्रवृत्तिं प्रत्या­श्र­य­त्व­म­चे­त­न­स्यै­वे­त्यु­क्त­म­ङ्गी­कृत्य चेतनस्य प्रयोजकत्वं सिद्धान्ती साधयति -
तदभिधीयत इति ।

रथा­दि­प्र­वृ­त्ता­व­श्वा­दि­चे­त­न­स्या­न्व­य­व्य­ति­रेकौ स्फुटौ ताभ्यां चेतनस्य प्रवर्तकत्वं बाह्यानामपि सम्मतमित्याह -
लौका­य­ति­का­ना­म­पीति ।

यः प्रवर्तकः सः स्वयं प्रवृ­त्ति­मा­न­श्वा­दि­व­दिति व्याप्तेरात्मनि व्यापकाभावान्न प्रवर्तकत्वमिति कश्चिच्छङ्कते -
नन्विति ।

मण्यादौ व्यभिचारान्न व्याप्तिरिति परिहरति -
नेति ।

वस्तुत एकत्वेऽपि कल्पितं द्वैतं प्रव­र्त्य­म­स्ती­त्याह -
न । अविद्येति ।
अविद्याकल्पिते नामरूपप्रपञ्चे तयै­वा­वि­द्या­रू­पया मायया य आवेशश्चिदात्मनः कल्पितः सम्बन्धस्तस्य वशः सामर्थ्यं तेना­न्त­र्या­मि­त्वा­दि­क­मी­श्व­र­स्ये­त्यु­क्त­त्वान्न चोद्यावसर इत्यर्थः ॥२॥

अनादिजडस्य प्रवृ­त्ति­श्चे­त­ना­दिना, प्रवृत्तित्वात् , रथा­दि­प्र­वृ­त्ति­व­दिति स्थितम् । तत्र क्षीरादौ व्यभि­चा­र­मा­शङ्क्य तस्यापि पक्ष­स­म­त्वे­नो­क्ता­नु­मा­ना­दा­ग­मेन च साध्यसिद्धिर्न व्यभिचार इति सूत्रं व्याचष्टे -
स्यादे­त­दि­त्या­दिना ।

साध्यपक्षेति ।
साध्यवता पक्षे­ण­तु­ल्य­त्वा­दि­त्यर्थः ।

अनुपन्यासः ।
न व्यभि­चा­र­भू­मि­रिति यावत् ।

क्षीरे प्रवर्तकत्वेन धेन्वादेः सत्त्वाच्च न व्यभिचार इत्याह -
चेतनायाश्चेति ।
उपदर्शितम् । अनु­मा­ना­ग­मा­भ्या­मिति शेषः ।

सूत्रकारस्य 'क्षीर­वद्धि', 'तत्रापि' इति च वक्तुः पूर्वा­प­र­वि­रो­ध­मा­शङ्क्य लोकदृष्ट्या शास्त्रदृष्ट्या च सूत्र­द्व­य­मि­त्य­वि­रो­ध­माह -
उपसंहारेति ॥३॥

अस्तु प्रधानस्यापि धर्मादि कर्म पुरुषो वा प्रवर्तक इत्याशङ्क्य सूत्रं प्रवृत्तम् , तद्व्याचष्टे -
साङ्ख्या­ना­मि­त्या­दिना ।
प्रधा­न­व्य­ति­रे­केण कर्म­णोऽ­न­व­स्थितेः पुरु­ष­स्यो­दा­सी­न­त्वा­त्क­दा­चि­त्सृ­ष्टि­प्र­वृत्तिः कदाचित्प्रलय इत्य­यु­क्त­मि­त्यर्थः । कर्मणोऽपि प्रधा­ना­त्म­क­स्या­चे­त­न­त्वा­त्स­दा­स­त्त्वाच्च न कादा­चि­त्क­प्र­वृ­त्ति­नि­या­म­क­त्व­मिति भावः ॥४॥

पुनरपि दृष्टा­न्त­ब­ला­त्प्र­धा­नस्य स्वत एव कादा­चि­त्क­प्र­वृ­त्ति­रि­त्या­शङ्क्य निषेधति सूत्रकारः -
अन्य­त्रे­त्या­दिना ।

पृच्छति -
कथमिति ।

उत्तरम् -
निमित्तान्तरेति ।

धेन्वा­दि­नि­मि­त्ता­न्त­र­म­स्तीति सिद्धान्तयति -
अत्रोच्यत इति ।
प्रहीणं नष्टम् ।

यदुक्तं क्षीरस्य स्वेच्छया सम्पा­द­यि­तु­म­श­क्य­त्वा­त्स्वा­भा­वि­क­त्व­मिति, तत्राह -
न च यथाकाममिति ॥५॥

प्रधानस्य न स्वतः­प्र­वृत्तिः, स्वतः­प्र­वृ­त्त्य­भ्यु­प­गमे पुरु­षा­र्थ­स्या­प्य­पे­क्षा­भा­व­प्र­स­ङ्गा­दि­त्ये­कोऽर्थः । तत्रेष्टापत्तिं निरस्यति -
इत्यतः प्रधानमिति ।
उक्त­प्र­स­ङ्ग­स्ये­ष्टत्वे प्रतिज्ञाहानिः स्यादित्यर्थः ।

अर्थासम्भवान्न स्वतः­प्र­वृ­त्ति­रि­त्य­र्था­न्तरं शङ्कापूर्वकमाह -
स यदीत्यादिना ।

प्रयो­ज­न­म­पे­क्षितं चेद्व­क्त­व्य­मि­त्याह -
तथापीति ।
कूटस्थे पुरुषे स्वतः­सु­खा­दि­रू­प­स्या­ति­श­य­स्या­धा­तु­म­श­क्य­त्वा­द­ध्या­सा­न­ङ्गी­का­राच्च भोगो न युक्तः । किं च प्रधा­न­प्र­वृ­त्ते­र्भो­गा­र्थत्वे मोक्ष­हे­तु­वि­वे­क­ख्या­त्य­भा­वा­द­नि­र्मो­क्ष­प्र­स­ङ्गश्च, अपवर्गार्थत्वे स्वरू­पा­व­स्था­न­रू­प­मुक्तेः स्वतः­सि­द्ध­त्वा­त्प्र­वृ­त्ति­वै­य­र्थ्यम् , भोगा­भा­व­प्र­स­ङ्ग­श्चे­त्यर्थः ।

तृतीयं दूषयति -
उभयार्थतेति ।
मीयन्ते भुज्यन्त इति मात्रा भोग्याः ।

औत्सु­क्य­नि­वृ­त्त्यर्थं यथा क्रियासु प्रवर्तते लोकः पुरुषस्य विमोक्षार्थं प्रवर्तते तद्वदव्यक्तमिति कारिकोक्तं दूषयति -
न चेति ।
औत्सु­क्य­मि­च्छा­वि­शेषः केवलजडस्यात्मनो वा न युक्त इत्यर्थः ।

अस्ति पुरुषस्य दृक्श­क्ति­श्चि­द्रू­प­त्वात् , अस्ति च प्रधानस्य सर्ग­श­क्ति­स्त्रि­गु­ण­त्वात् , तयोः शक्त्यो­र्दृ­श्य­सृष्टी विना सार्थ­क्या­यो­गा­त्प्र­धा­नस्य सृष्टौ प्रवृत्तिरिति चेत् । न । शक्त्यो­र्नि­त्य­त्वा­त्सृ­ष्टि­नि­त्य­त्वा­प­त्ति­रि­त्याह -
दृक्शक्तीति ॥६॥

पुरुषस्य प्रवर्तकत्वं निरस्तमपि दृष्टान्तेन पुनराशङ्क्य निषेधति -
पुरुषाश्मवदिति चेत्तथापि ।

प्रधानस्य स्वातन्त्र्यं पुरु­ष­स्यौ­दा­सीन्यं चाभ्युपेतं त्यज्यत इति वदन्तं साङ्ख्य­म्प्र­त्याह -
कथं चेति ।
पुरुषस्य परिस्पन्दः प्रयत्नगुणो वा नास्तीति वक्तुं हेतुद्वयम् । प्रधा­न­पु­रु­ष­यो­र्नि­त्य­त्वा­द्व्या­पि­त्वाच्च नित्यः सन्निधिः, अश्मनस्तु परि­मा­र्ज­न­मृ­जु­त्वेन स्थाप­न­म­नि­त्य­स­न्नि­धि­श्चेति व्यापा­रोऽ­स्ती­त्य­नु­प­न्यासः, सम­दृ­ष्टा­न्तो­प­न्यासो न भवतीत्यर्थः ।

ननु चिज्ज­ड­यो­र्द्र­ष्टृ­दृ­श्य­भा­व­यो­ग्य­तास्ति, तया तद्भावः सम्बन्ध इत्यत आह -
योग्यतेति ।
चिज्जडत्वरूपाया योग्यताया नित्य­त्वा­त्स­म्ब­न्ध­नि­त्य­त्वा­प­त्ति­रि­त्यर्थः ।

यथा स्वत­न्त्र­प्र­धा­न­प्र­वृ­त्ति­पक्षो भोगोऽपवर्ग उभयं वा फलमिति विकल्प्य दूषितः, एवं पुरु­षा­धी­न­प्र­धा­न­प्र­वृ­त्ति­प­क्षोऽपि फलाभावेन दूषणीय इत्याह -
पूर्ववच्चेति ।

सिद्धान्ते परमात्मन उदासीनस्य कथं प्रव­र्त­क­त्व­मि­त्या­श­ङ्क्याह -
परमात्मेति ।
साङ्ख्यमते उभयं विरुद्धं सत्यत्वात् ।अस्मन्मते कल्पि­ता­क­ल्पि­त­यो­र­वि­रोध इत्यतिशयः ॥७॥

किं प्रधानावस्था कूट­स्थ­व­न्नित्या, उत विकारिणी । आद्ये दोषमाह -
तस्यामिति ।
अङ्गाङ्गिभावे साम्यस्वरूपनाशः स्यात् , ततः कौटस्थ्यभङ्ग इति भया­द­ङ्गा­ङ्गि­त्वा­नु­प­पत्तेः सृष्ट्य­नु­प­प­त्ति­रि­त्यर्थः ।

द्वितीयं दूषयति -
बाह्यस्येति ।
चिरकालस्थितस्य साम्यस्य च्युतौ निमित्तं वाच्यं तन्ना­स्ती­त्यर्थः ॥८॥

गुणानां मिथोऽ­न­पे­क्ष­स्व­भा­व­त्वान्न स्वतो वैष­म्य­मि­त्यु­क्तम् , तत्र हेत्व­सि­द्धि­मा­शङ्क्य सूत्रकारः परिहरति -
अन्यथेति ।
अन­पे­क्ष­स्व­भा­वा­द­न्यथा सापेक्षत्वेन गुणा­ना­म­नु­मा­ना­त्पू­र्व­सू­त्रोक्तो दोषो न प्रसज्यते ।

न चैव­म­प­सि­द्धान्तः, कार्यानुसारेण गुण­स्व­भा­वा­ङ्गी­का­रा­दि­त्याह -
चलं गुणवृत्तमिति ।

पूर्व­सू­त्रो­क्ता­ङ्गा­ङ्गि­त्वा­नु­प­प­त्ति­दो­षा­भा­व­म­ङ्गी­कृत्य परिहरति -
एवमपीति ।
कार्यार्थं ज्ञान­श­क्ति­क­ल्पने ब्रह्मवादः स्यादित्यर्थः ।

अङ्गीकारं त्यजति -
वैषम्येति ॥९॥

सूत्रं व्याचष्टे -
परस्परेति ।
त्वङ्मात्रमेव ज्ञाने­न्द्रि­य­मे­क­म­ने­क­श­ब्दा­दि­ज्ञा­न­का­र­णम् , पञ्च कर्मेन्द्रियाणि मनश्चेति सप्ते­न्द्रि­याणि, ज्ञाने­न्द्रि­याणि पञ्च कर्मेन्द्रियाणि पञ्च मनश्चेत्येकादश । बुद्धिरहङ्कारो मन इति त्रीणि । एकमिति बुद्धिरेव ।

एवं पूर्वा­प­र­वि­रो­धा­दिति व्याख्याय श्रुति­स्मृ­ति­वि­प्र­ति­षे­धा­च्चे­त्य­र्था­न्त­र­माह -
प्रसिद्ध इति ।
तस्मा­द्भ्रा­न्ति­मू­ल­त्वा­त्सा­ङ्ख्य­शा­स्त्रस्य तेन निर्दे­ष­वे­दा­न्त­स­म­न्व­यस्य न विरोध इति सिद्धम् ।

स्वम­ता­सा­म­ञ्ज­स्य­म­स­ह­मानः साङ्ख्यः प्रत्यवतिष्ठते -
अत्राहेति ।
तप्यो जीवस्तापकः संसा­र­स्त­यो­र्भे­दा­न­ङ्गी­का­रा­ल्लो­क­प्र­सि­द्ध­स्त­प्य­ता­प­क­भावो लुप्येतेत्यर्थः ।

विवृणोति -
एकं हीति ।
तथा च भेदव्यवहारलोप इत्य­स­म­ञ्ज­स­मि­त्यर्थः ।

ननु तयो­रु­पा­दा­नै­क्येऽपि मिथो भेदोऽस्त्येव यथै­क­व­ह्न्या­त्म­क­यो­रौ­ष्ण्य­प्र­का­शयोः, अतो न व्यवहारलोप इत्याशङ्क्य वह्नेरिव ताभ्या­मा­त्म­नो­मोक्षो न स्यादित्याह -
यदि चेत्यादिना ।

ननु सत्यपि धर्मिणि स्वभावनाशो मोक्ष उपपद्यते, सत्येव जले वीच्या­दि­ना­श­द­र्श­ना­दि­त्या­शङ्क्य दृष्टा­न्ता­सि­द्धि­माह -
योऽपीति ।

किञ्च भेदा­ङ्गी­का­रेऽ­प­सि­द्धान्तः, अनङ्गीकारे लेकप्रसिद्धिबाध इत्याह -
प्रसिद्धश्चेति ।

अर्थो ह्यर्ज­ना­ला­भा­दि­ना­र्थिनं तापयतीति तापकः, अर्थी तप्यस्तयोरभेदे बाधकमाह -
यदीति ।

अर्थि­नोऽ­न्य­स्या­र्थ­स्या­भा­वा­द­र्थि­त्वा­भा­व­व­द­र्था­द­न्य­स्या­र्थि­नोऽ­स­त्त्वा­द­र्थ­त्वा­भावः प्रसज्येतेत्याह -
तथार्थस्यापीति ।

प्रस­ङ्ग­स्ये­ष्टत्वं निराकरोति -
न चैतदस्तीति ।
अर्थत्वं हि कामनाविषयत्वम् , तच्च काम्यादन्यस्य काम­यि­तु­र­स­त्त्वान्न स्यात् । न हि स्वस्य स्वार्थत्वमस्ति काम्यस्यैव काम­यि­तृ­त्वा­यो­गात् । तस्मा­द्भे­दोऽ­ङ्गी­कार्य इत्यर्थः ।

इतश्च भेद इत्याह -
सम्बन्धीति ।
तथा­न­र्था­न­र्थि­ना­वपि भिन्ना­वि­त्य­न्वयः ।

अर्थानर्थयोः स्वरू­पो­क्ति­पू­र्वकं तापकत्वं स्फुटयति -
अर्थिनोऽनुकूल इति ।

अद्वैतमते मुक्ते­र­यो­ग­मुक्त्वा स्वमते योगमाह -
जात्यन्तरेति ।
तया तप्यया बुद्ध्या पुरुषस्य संयोगः स्वस्वा­मि­भा­व­स्तस्य हेतु­र­ना­दि­र­वि­वे­क­स्तस्य परिहारो विवे­क­स्त­स्मा­न्नि­त्य­मु­क्त­स्यापि पुरुषस्य कथ­ञ्चि­दु­प­चा­रा­न्मो­क्षो­प­प­त्ति­रि­त्यर्थः । यथा योद्धृगतौ जयपराजयौ राजन्युपचर्येते तथा पुरु­षा­द­त्य­न्त­भि­न्न­बु­द्धि­गतौ बन्धमोक्षौ पुरुषे उपचर्येते । तदुक्तम् 'सैव च बध्यते मुच्यते च' इति ।

सिद्धान्तयति -
अत्रेति ।

किं परमार्थदृष्ट्या तप्य­ता­प­क­भा­वा­नु­प­प­त्ति­रु­च्यते, व्यवहारदृष्ट्या वा । नाद्य इत्याह -
न । एकत्वादेवेति ।
दोषत्वमिति शेषः ।

तस्या अदोषत्वं विवृणोति -
भवेदित्यादिना ।
एतत्तात्त्विकं विषयविषयित्वं न त्वस्तीत्यर्थः ।

यत्र तप्यतापकभावो दृष्ट­स्त­त्रै­वेति व्यव­हा­र­प­क्ष­मा­दाय सिद्धान्ती ब्रूते -
किं न पश्यसीति ।

देहस्य तप्यत्वे देहा­त्म­वा­दा­प­त्ति­रिति शङ्कते -
नन्विति ।

अचेतनस्यैव देहस्य तप्तिर्नेति वदता साङ्ख्येन वक्तव्यं किं चेतनस्य केवलस्य तप्तिः, किं वा देहसंहतस्य, उत तप्तेः, आहो­स्वि­त्स­त्त्वस्य । नाद्य इत्याह -
उच्यत इति ।

न द्विती­य­तृ­ती­या­वि­त्याह -
नापीत्यादिना ।

चतुर्थं शङ्कते -
सत्त्वमिति ।

सत्त्व­र­ज­सो­स्त­प्य­ता­प­कत्वे पुरुषस्य बन्धा­भा­वा­च्छा­स्त्रा­र­म्भ­वै­य­र्थ्य­मिति परिहरति -
न । ताभ्यामिति ।

असङ्गत्वेऽपि पुरुषस्य तप्य­स­त्त्व­प्र­ति­बि­म्ब­त्वा­त्त­प्ति­रिति शङ्कते -
सत्त्वेति ।

तर्हि जलचन्द्रस्य चलनवन्मिथ्यैव तप्ति­रि­त्य­स्म­त्पक्ष आगत इत्याह -
परमार्थत इति ।

इवशब्दमात्रेण कथं मिथ्या तप्त्यवगम इति चेत्तदुच्यते - इव­श­ब्द­स्त­प्य­बु­द्धि­स­त्त्व­सा­दृश्यं ब्रूते, तच्च सादृश्यं पुरुषस्य तप्यत्वरूपं चेत्कल्पितमेव वस्तु­त­स्त­प्त्य­भा­वा­दि­त्यु­प­पा­द­यति -
न चेदिति ।
पुरुषो वस्तु­त­स्त­प्ति­शू­न्य­श्चे­दि­व­शब्दो न दोषाय मिथ्या­त­प्ति­प­र­त्वा­दि­त्यर्थः ।

मिथ्या­सा­दृ­श्य­मेव दोष इति चेत् , नेत्याह -
न हीति ।
सविषयत्वं निर्विषयत्वं चेवशब्दार्थः कल्पित एव द्रष्टव्यः । साङ्ख्य­स्या­वि­द्यके तप्यतापकत्वे सति ममापि किञ्चिन्न दुष्यति किन्तु दृष्टमेव सम्प­न्न­मि­त्यर्थः । यदि मिथ्या­त­प्य­त्वा­ङ्गी­का­रेऽ­प­सि­द्धान्तः स्यादिति भीत्या सत्यं तप्यत्वं पुरुषस्योच्यते तथा­प्य­प­सि­द्धान्तः, कौटस्थ्यहानात् ।

अनिर्मोक्षश्च, सत्य­स्या­त्म­व­न्नि­वृ­त्त्यो­गा­दि­त्याह -
अथेत्यादिना ।

किञ्च रजसो नित्य­त्वा­द्दुः­ख­सा­त­त्य­मि­त्याह -
नित्यत्वेति ।

अत्र साङ्ख्यः शङ्कते -
तप्येति ।
सत्त्वं पुरुषो वा तप्यशक्तिः, तापकशक्तिस्तु रजः, निमि­त्त­म­वि­वे­का­त्म­क­द­र्शनं तमस्तेन सहितः सनिमित्तः संयेगः पुरुषस्य गुण­स्वा­मि­त्व­रू­प­स्त­द­पे­क्ष­त्वा­दि­त्यर्थः । मोक्ष­स्त­प्त्य­भावः ।

निमित्तस्य निवृ­त्त्य­भा­वान्न मोक्ष इति सिद्धान्ती परिहरति -
नेति ।

तमसो निवृ­त्त्य­भा­वेऽपि विवे­के­नो­प­र­मा­न्मोक्ष इत्यत आह -
गुणानां चेति ।
'चलं गुण­वृ­त्तम्' इत्य­ङ्गी­का­रा­दिति भावः ।

परपक्षे बन्ध­मो­क्षा­नु­प­प­त्ति­मुक्त्वा स्वप­क्ष­मु­प­सं­ह­रति -
औपनिषदस्य त्विति ।
वस्तुत एकत्वेन बन्धाभावान्न मुक्त्य­भा­व­श­ङ्का­व­सरः । व्यवहारस्तु भेदा­ङ्गी­का­रा­त्त­प्य­ता­प­क­भावो बन्धः तत्त्व­ज्ञा­ना­त्त­न्नि­वृ­त्ति­श्चो­प­प­द्यत इति न चोद्यावसर इत्यर्थः ॥१०॥