अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

अनिष्टादिकार्यधिकरणम्

एवं पुण्यात्मनां गत्यागतिचिन्तया वैराग्यं निरूप्य पापिनां तच्चिन्तया तन्निरूपयति -
अनि­ष्टा­दि­का­रि­णा­म­पीति ।

'ये वै के च' इत्य­वि­शे­ष­श्रुतेः, 'वैवस्वतं संगमनं जनानाम्' इति श्रुतेश्च संशये प्रथमाधिकरणेन सिद्ध­नि­य­मा­क्षे­प­सं­गत्या पूर्वपक्षसूत्रं व्याचष्टे -
तत्रेत्यादिना ।
यमराजं पापिजनानां सम्यग्गम्यं, हविषा प्रीणयतेति श्रुत्यर्थः । पूर्वपक्षे पुण्यवतामेव चन्द्रगतिरिति निय­मा­भा­वा­त्पु­ण्य­वै­यर्थ्यं पापा­द्वै­रा­ग्या­दार्ढ्यं चेति फलं, सिद्धान्ते पापिनां चन्द्र­लो­क­द­र्श­न­मपि नास्तीति पुण्या­र्थ­वत्त्वं वैराग्यदार्ढ्यं चेति फलम् ।

पञ्चमाग्नौ देहारम्भ इति निय­मा­त्पा­पि­ना­मपि प्रथ­म­द्यु­लो­का­ग्नि­प्रा­प्ति­र्वा­च्ये­त्याह -
देहारम्भ इति ।
पापिनां स्वर्ग­भो­गा­भा­वेऽपि मार्गान्तराभावा चन्द्रगतिरिति भावः ॥१२॥

सिद्धान्तसूत्रं व्याचष्टे -
तुशब्द इत्यादिना ।
संयमने यमलोके यमकृता यातना अनु­भू­या­व­रो­ह­न्ती­त्ये­व­मा­रो­हा­व­रो­हा­विति योजना सूत्रस्य ज्ञेया । प्रयतां मृत्वा गच्छताम् । सम्य­क्प­र­स्ता­त्प्रा­प्यत इति संपरायः परलोकः तदुपायः सांपरायः, बालमज्ञं, विशेषतो वित्तरागेण मूढं मोहात्प्रमादं कुर्वन्तं प्रति न भाति । स च बालोऽयं स्त्रीवि­त्ता­दि­लो­कोऽस्ति न परलोकोऽस्तीति मानी । स मे मम यमस्य वश­मा­प्नो­ती­त्यर्थः । पापिनां यम­व­श्य­ता­वा­दि­वि­शे­ष­श्रु­ति­स्मृ­ति­ब­लात् 'ये वै के च' इत्य­वि­शे­ष­श्रु­ति­रि­ष्टा­दि­का­रि­वि­ष­य­त्वेन व्याख्येयेति भावः ॥१३॥ सूत्रत्रयस्य भाष्यं सुबोधम् ॥१४ ॥ ॥१५ ॥ ॥१६॥

यदुक्तं मार्गा­न्त­रा­भा­वा­त्पा­पि­ना­मपि चन्द्रगतिरिति । तन्न । तृती­य­मा­र्ग­श्रु­ते­रि­त्याह -
विद्या­क­र्म­णो­रिति ।
मार्ग­द्वि­त­यो­क्त्य­न­न्तरं तृती­य­मा­र्गो­क्ति­प्रा­र­म्भार्थः श्रुतावथशब्दः । एत­यो­र्वि­द्या­क­र्मणोः पथि­द्व­य­सा­ध­न­यो­र­न्य­त­रे­णापि साधनेन ये नरा न युक्तास्ते जन्म­म­र­णा­वृ­त्ति­रू­प­तृ­ती­य­मा­र्ग­स्थानि भूतानि भवन्ति, क्रियावृत्तौ लोट्, तेन पापिनां चन्द्र­ग­त्य­भा­वा­च्च­न्द्र­लोको न संपूर्यत इति श्रुत्यर्थः ।

प्रतिपत्ताविति ।
प्राप्तिसाधने इत्यर्थः । अपिच पापिनां चन्द्रगतौ असौ लोकः संपूर्येत 'अतश्च न संपूर्यते' इत्ये­त­त्प्र­ति­व­चनं विरुद्धं प्रस­ज्ये­ते­त्य­न्वयः ।

अव­रो­हा­द­सं­पू­र­ण­म­श्रुतं न कल्प्यं श्रुत­हा­न्या­प­त्ते­रि­त्याह -
न अश्रुतत्वादिति ।

अवरोह एव तृतीयं स्थानं श्रुत्यु­क्त­मि­त्यत आह -
अवरोहस्येति ।
इममध्वानं पुनर्निवर्तन्त इति इष्टा­दि­का­रि­णा­म­व­रो­हो­क्ते­र­नि­ष्टा­दि­का­रि­णा­मपि अव­रो­ह­स्या­र्थ­सि­द्ध­त्वा­त्पु­न­रु­क्ति­र्व्य­र्थे­त्यर्थः । अथैतयोरिति मार्गा­न्त­रो­प­क्र­म­बा­ध­स्तृ­ती­य­श­ब्द­बा­ध­श्चे­त्यतः स्थानशब्दो मार्गलक्षक इति द्रष्टव्यम् ॥१७॥

एव­म­वि­शे­ष­श्रु­ते­र्मा­र्गा­न्त­रा­भा­वा­च्चेति पूर्व­प­क्ष­बी­ज­द्वयं निरस्य तृती­य­बी­ज­नि­रा­सार्थं सूत्रमादत्ते -
यत्पु­न­रि­त्या­दिना ।
विद्या­क­र्म­शू­न्यानां कृमिकीटादिभावेन जाय­स्वे­त्या­दि­श्रुत्या निर­न्त­र­ज­न्म­म­र­णो­प­ल­ब्धे­र्ना­हु­ति­सं­ख्या­दर इत्यर्थः ।

पुरु­ष­श­ब्दा­च्चै­व­मि­त्याह -
अपिचेति ।

मनुष्यदेहस्यापि नाहु­ति­स­ङ्ख्या­नि­यम इत्याह -
अपिचेत्यादिना ।
विधि­नि­षे­ध­रू­पा­र्थ­द्वये वाक्यभेदः स्यादित्यर्थः ॥१८॥

अनियमे स्मृति­सं­वा­दार्थं सूत्रम् -
स्मर्यतेऽपीति ।

लोक्यतेऽनेनेति लोको भारतादिरुक्तः मुख्यार्थमप्याह -
बलाकेति ॥१९॥

'अण्डजानि च जरायुजानि च स्वेदजानि चोद्भिज्जानि च' इति­श्रु­त्य­व­ष्ट­म्भेन सूत्रं व्याचष्टे -
अपिचेति ।
अन्य­त्रा­प्य­नि­ष्टा­दि­का­रि­ष्वि­त्यर्थः ॥२०॥

अनया श्रुत्या चातुर्विध्यं कथमुक्तं श्रुत्यन्तरे त्रीण्ये­वे­त्य­व­धा­र­ण­वि­रो­धा­दिति शङ्कोत्तरत्वेन सूत्रमादत्ते -
नन्वित्यादिना ।
जीवजं जरायुजं मनुष्यादि, भूमिमुद्भिद्य जायते वृक्षादिकं, उदकं भित्त्वा जायते यूकादि जङ्गममिति भेदः । संशोकः स्वेदः ॥२१॥