अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

प्रथमाध्याये द्वितीयः पादः

प्रथमाध्याये द्वितीयः पादः ।
श्रीरामं सिद्धमत्तारं गुहा­शा­यि­न­मा­न्त­रम् । अन्त­र्या­मि­ण­म­ज्ञेयं वैश्वानरमहं भजे ॥ १ ॥
पूर्व­पा­दे­नो­त्त­र­पा­दयोः सङ्गतिं वक्तुं वृत्तमनुवदति
प्रथम इति ।
जग­त्का­र­ण­त्वोक्त्या व्यापि­त्वा­दि­क­म­र्था­त्सि­द्धम् । तदुपजीव्योत्तरं पादद्वयं प्रवर्तत इति हेतुहेतुमद्वावः सङ्गतिः ।

कथं पादभेद इत्याशङ्क्य पादानां प्रमेयभेदमाह
अर्थान्तरेति ।
आकाशादिशब्दानां स्पष्ट­ब्र­ह्म­लि­ङ्गै­र्ब्र­ह्मणि समन्वयो दर्शितः । अस्प­ष्ट­ब्र­ह्म­लि­ङ्ग­वा­क्य­स­म­न्वयः पादद्वये वक्ष्यते । प्राये­णो­पा­स्य­ज्ञे­य­ब्र­ह्म­भे­दा­त्पा­द­यो­र­वा­न्त­र­भेद इति भावः ।