अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

अविभागाधिकरणम्

अविभागो वचनात् ।

उक्तलयमुपजीव्य लयस्य द्वेधा­द­र्श­ना­त्सं­श­य­माह -
स पुनरिति ।
मुक्त्य­सि­द्धि­स्त­त्सि­द्धि­श्चे­त्यु­भ­यत्र फलम् । अवशेषो मूलकारणे शक्त्यात्मना स्थितिः । पुन­र्ज­न्म­यो­ग्य­तेति यावत् । विमतः कलालयः सावशेषः, कला­ल­य­त्वा­त्सु­षु­प्ति­व­दिति पूर्वपक्षः ।

विमतो निरवशेषः, विद्या­कृ­त­त्वा­द्रज्ज्वा विद्यया सर्पलयवदिति युक्त्यु­पे­त­श्रुत्या सिद्धान्तयति -
ब्रवीतीति ।
नामरूपे शक्त्यात्मके अपि भिद्येते इत्यर्थः ॥१६॥