अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

भूमज्यायस्त्वाधिकरणम्

भूम्नः क्रतुवत् ।
द्युलोकादिषु प्रत्येकं वैश्वा­न­र­त्वो­पा­स्ति­र्व्य­स्तो­पा­स्ति­स्त­द­व­य­व्यु­पास्तिः सम­स्तो­पा­स्ति­रिति भेदः । आख्यायिका पूर्वमेव व्याख्याता ।

अत्रोभयत्र विधिफलयोः श्रव­णा­दे­क­वा­क्य­त्वो­प­प­त्तेश्च संशयमाह -
तत्रेति ।

'सैव हि सत्यादयः' इत्यत्र तद्य­त्त­त्स­त्य­मिति प्रकृ­ता­क­र्षा­द्वि­द्यै­क्य­मुक्तं तद्व­द­त्रै­क्य­हे­त्व­भा­वा­द­ग­ता­र्थत्वं मत्वा पूर्व­त्रो­द्गी­था­दि­श्रुत्या संनि­धि­बा­धे­नो­द्गी­था­द्यु­पा­स्तीनां सर्व­शा­खा­सू­प­सं­हा­र­व­द्व्य­स्तो­पा­स्तीनां विधिश्रुतेः फलश्रवणस्य च सम­स्तो­पा­स्ति­सं­नि­धि­प्राप्तं स्तुत्यर्थत्वं बाधित्वा तद्विधेयत्वमिति पूर्वपक्षमाह -
प्रत्यवयवमिति ।
फलानुक्तौ पूर्वो­त्त­र­प­क्ष­सि­द्धि­रेव फलं मन्तव्यम् । सुतं खण्डितं सोमद्रव्यं तस्यैव प्रसु­त­त्व­मा­स­म­न्तात् सुत­त्व­म­व­स्था­भेदः । सोम­या­ग­सं­प­त्ति­स्तव कुले दृश्यत इति यावत् । आत्मनो वैश्वानरस्य मूर्धेव सुतेजा इति वाक्य­प्र­क­र­णाभ्यां व्यस्तो­पा­स्तीनां सम­स्तो­पा­स्त्य­न्त­र्भा­वेन प्रया­ज­द­र्श­व­दे­क­प्र­यो­गत्वे सिद्धे प्रधा­न­त­द­ङ्ग­फ­ला­ना­म­र्थ­वा­द­ग­ता­ना­मे­क­प्र­धा­न­फ­ल­त­यो­प­सं­हा­रा­द्वा­क्य­भेदो न युक्त इति सिद्धान्त्याशयः ।

एक­दे­शि­व्या­ख्या­म­नूद्य दूषयति -
केचिदिति ।

यद्युभयथोपासनं सिद्धा­न्त­स्तर्हि व्यस्तो­पा­स­न­मे­वेति पूर्वपक्षो वक्तव्यः, स च न संभवतीत्याह -
स्पष्टे चेति ।

कथं तर्हि सूत्रे ज्याय­स्त्वो­क्ति­स्त­त्राह -
सौत्रस्येति ।
व्यस्तो­पा­स्ती­ना­म­प्रा­मा­णि­क­त्व­द्यो­त­नार्थं तदुक्तिरिति भावः ॥५७॥