भाष्यरत्नप्रभाव्याख्या
समुदायाधिकरणम्
वैशेषिकं निरस्य वैनाशिकं निरस्यति -
समुदाय इति ।
परिमाणभेदेन देहादेराशुतरविनाशाङ्गीकारादर्धवैनाशिको वैशेषिकस्तस्य निरासानन्तरं सर्वक्षणिकवादी बुद्धिस्थो निरस्यत इति प्रसङ्गसङ्गतिमाह -
वैशेषिकेति ।
'नाभाव उपलब्धेः' इति निरसनीयसिद्धान्तादत्र निरस्यसिद्धान्तस्य भेदं वक्तुं तत्सिद्धान्तं विभजते -
स चेति ।
ननु सुगतप्रोक्तागमस्यैक्यात्कुतो बहुप्रकारता, तत्राह -
प्रतिपत्तीति ।
एकस्यैवागमव्याख्यातुः शिष्यस्यावस्थाभेदेन बुद्धिभेदात् , मन्दमध्यमोत्तमधियां शिष्याणां वा भेदाद्बहुप्रकारतेत्यर्थः ।
तानेव प्रकारानाह -
तत्रेति ।
सौत्रान्तिको वैभाषिको योगाचारी माध्यमिकश्चेति चत्वारः शिष्याः ।
तेष्वाद्ययोर्बाह्यार्थानां परोक्षत्वापरोक्षत्वविवादेऽप्यस्तित्वसम्प्रतिपत्तेस्तयोः सिद्धान्तमेकीकृत्य निरस्यत इत्याह -
तत्र ये सर्वास्तित्वेति ।
भूतं भौतिकं बाह्यम् , चित्तं चैत्तं च कामाद्यान्तरमिति विभागः ।
तत्र सन्दिह्यते किं मानमूलो भ्रान्तिमूलो वायं सिद्धान्त इति । तत्र प्रमाणमूल इति पूर्वपक्षयन् सिद्धान्तं तदीयं दर्शयति -
तत्र भूतमिति ।
स्थिरः प्रपञ्चो ब्रह्महेतुक इति वेदान्तसिद्धान्तस्य मानमूलक्षणिकसिद्धान्तविरोधादसिद्धिः पूर्वपक्षे फलम् , सिद्धान्ते तदविरोध इति ज्ञेयम् ।
पृथिव्यादिभूतचतुष्टयं विषयेन्द्रियात्मकं भौतिकं च परमाणुसमुदाय एव नावयव्यन्तरमिति मत्वा परमाणून् विभजते -
चतुष्टये चेति ।
चतुर्विधा इत्यर्थः । खरः कठिनस्तत्स्वभावाः पार्थिवाः परमाणवः, स्निग्धा आप्याः, उष्णास्तैजसाः, ईरणं चलनस्वभावो वायव्यानामिति ।
बाह्यसमुदायमुक्त्वाध्यात्मिकसमुदायमाह -
तथेति ।
सविषयेन्द्रियाणि रूपस्कन्धः विषयाणां बाह्यत्वेऽपि देहस्थेन्द्रियग्राह्यत्वादाध्यात्मिकत्वम् , अहमहमित्यालयविज्ञानप्रवाहो विज्ञानस्कन्धः, सुखाद्यनुभवो वेदनास्कन्धः, गौरश्व इत्येवं नामविशिष्टसविकल्पकप्रत्ययः संज्ञास्कन्धः, रागद्वेषमोहधर्माधर्माः संस्कारस्कन्धः । तत्र विज्ञानस्कन्धश्चित्तमात्मेति गीयते । अन्ये चत्वारः स्कन्धाश्चैत्तास्तेषां सङ्घात आध्यात्मिकः । सकललोकयात्रानिर्वाहक इत्यर्थः ।
अवयवातिरिक्तावयव्यनुपलब्धेरवयवाः शिष्यन्ते, यत्सत्तत्क्षणिकम् , यथा विद्युदिति तेषां क्षणिकत्वमिति मानमूलोऽयं सिद्धान्त इति प्राप्ते सिद्धान्तसूत्रं योजयति -
योऽयमिति ।
सर्गादौ परमाणूनां च स्कन्धानां च स्वतःसङ्घातस्तावन्न सम्भवति, अचेतनत्वात् । नापि चित्ताख्यमभिज्वलनं विज्ञानं समुदायहेतुः, सङ्घाते देहाकारे जाते विज्ञानं विज्ञाने जाते सङ्घात इत्यन्योन्याश्रयात् । न च क्षणिकविज्ञानादन्यः कश्चिज्जीव ईश्वरो वा त्वयाभ्युपगम्यते यः सङ्घातकर्ता भवेत् । न च कर्तारमनपेक्ष्याणवः स्कन्धाश्च स्वयमेव सङ्घातार्थं प्रवर्तन्त इति वाच्यम् , अनिर्मोक्षप्रसङ्गात् ।
नन्वालयविज्ञानसन्तानः संहन्तास्त्वित्यत आह -
आशयस्येति ।
आशेरतेऽस्मिन् रागादय इत्याशयः सन्तानः, स किं सन्तानिभ्योऽन्यो विज्ञानिभ्योऽन्योऽनन्यो वा । आद्येऽपि स्थिरः क्षणिको वा । नाद्यः, अस्मदिष्टनित्यात्मवादप्रसङ्गात् ।
द्वितीये दोषमाह -
क्षणिकत्वेति ।
क्षणिकस्य जन्मातिरिक्तव्यापारो नास्ति, तस्मात्तस्य परमाण्वादिमेलनार्थं प्रवृत्तिरनुपपन्ना । क्षणिकत्वव्याघातादित्यर्थः । एतेनानन्यः सन्तान इति पक्षो निरस्तः, क्षणिकस्य मेलकत्वानुपपत्तेः । तस्मात्संहन्तुरसत्त्वात्सङ्घातानुपपत्तिरित्यर्थः ॥१८॥
संहन्तुरभावेऽपि सङ्घातोपपत्तिमाशङ्क्य निषेधति -
इतरेति ।
कार्यं प्रत्ययते गच्छतीति प्रत्ययः कारणम् । अविद्यादिभिरेवार्थात्सङ्घातसिद्धौ व्यवहारोपपत्तिरित्यर्थः ।
अविद्यादीनाह -
ते चेति ।
क्षणिकेषु स्थिरत्वबुद्धिरविद्या, ततो रागद्वेषमोहाः संस्कारा भवन्ति, तेभ्यो गर्भस्थस्याद्यं विज्ञानमुत्पद्यते, तस्माच्चालयविज्ञानात्पृथिव्यादिचतुष्टयं नामाश्रयत्वान्नाम भवति । ततो रूपं सितासितात्मकं शुक्रशोणितं निष्पद्यते ।गर्भस्य कललबुद्बुदावस्था नामरूपशब्दार्थ इति निष्कर्षः । विज्ञानं पृथिव्यादिचतुष्टयं रूपं चेति षडायतनानि यस्येन्द्रियजातस्य तत्षडायतनम् , नामरूपेन्द्रियाणां मिथः संयोगः स्पर्शः, ततः सुखादिका वेदना, तया पुनर्विषयतृष्णा, तया प्रवृत्तिरूपादानम् , तेन भवत्यस्माज्जन्मेति भवो धर्मादिः, ततो जातिर्देहजन्म पञ्चस्कन्धसमुदाय इति यावत् । जातानां स्कन्धानां परिपाको जरास्कन्धः, मरणं नाशः, म्रियमाणस्य पुत्रादिस्नेहादन्तर्दाहः शोकः, तेन हा पुत्रेत्यादिविलापः परिदेवना, अनिष्टानुभवो दुःखम् , तेनं दुर्मनस्ता मानसी व्यथा, इतिशब्दो मानापमानादिक्लेशसङ्ग्रहार्थः ।
न केवलं सुगतानामेवाविद्यादयः सम्मताः, किन्तु सर्ववादिनामपीत्याह -
सर्वेषामिति ।
अविद्यादिहेतुका जन्मादयो जन्मादिहेतुकाश्चाविद्यादय इति मिथो हेतुहेतुमद्भावादर्थात्सङ्घातसिद्धिरिति शङ्कामुपसंहरति -
तदेवमिति ।
सिद्धान्तभागं व्याचष्टे -
तन्नेति ।
अविद्यादीनामुत्तरोत्तरहेतुत्वमङ्गीकृत्य सङ्घातहेत्वभावात्सङ्घातो न स्यादित्युक्ते पूर्वोक्तं स्मारयति -
नन्विति ।
किमविद्यादयः सङ्घातस्य गमका उतोत्पादका इति विकल्प्याद्ये सङ्घातस्योत्पादकं किञ्चिद्वाच्यम् , तन्नास्तीत्याह -
अत्रोच्यते, यदीति ।
आश्रयाश्रयिभूतेष्विति भोक्तृविशेषणम् । अदृष्टाश्रयेष्वित्यर्थः ।
यदा स्थिरेष्वणुषु सङ्घातयोग्येषु कर्तृषु चादृष्टसहायेषु सत्सु ज्ञानाभावमात्रेण संहतिकर्तृत्वायोगात्सङ्घातापत्तेर्निमित्तं नास्तीत्युक्तं तदा क्षणिकपक्षे तन्नास्तीति किमु वक्तव्यमित्याह -
किमिति ।
आश्रयाश्रयः सङ्घातकर्ता तच्छून्येष्वित्यर्थः । 'आश्रयाश्रयिशून्येषु' इति पाठे उपकार्योपकारकत्वशून्येष्वित्यर्थः ।
द्वितीयं शङ्कते -
अथायमिति ।
सङ्घातस्याविद्यादीनां चोत्पत्तावन्योन्याश्रयः स्यादिति दूषयति -
कथमिति ।
स्वाभाविकः खल्वयं सङ्घातानां हेतुहेतुमद्भावेन प्रवाहो न संहन्तारमपेक्षते, पूर्वसङ्घाताश्रया अविद्यादय उत्तरसङ्घातप्रवर्तका इति नान्योन्याश्रयदोषोऽपीत्याशङ्कते -
अथ मन्यस इति ।
स्वभावस्य नियमानियमयोरपसिद्धान्तापातः स्यादिति परिहारार्थः । पूर्यते गलति चेति पुद्गलो देहः ।
किञ्च भोक्तुः क्षणिकत्वपक्षे भोगापवर्गव्यवहारोऽपि दुर्घट इत्याह -
अपि चेति ।
यो यदिच्छति स तत्काले नास्ति चेदिच्छा व्यर्था, अस्ति चेत्क्षणिकत्वभङ्ग इत्यर्थः ।
प्रकृतं सङ्घातनिरासमुपसंहरति -
तस्मादिति ॥१९॥
द्विविधो हि कार्यसमुत्पादः सुगतसम्मतो हेत्वधीनः कारणसमुदायाधीनश्चेति । तत्राविद्यातः संस्कारस्ततो विज्ञानमित्येवंरूपः प्रथमः, पृथिव्यादिसमुदायात्काय इत्येवं द्वितीयः । तत्राद्यमङ्गीकृत्य द्वितीयः सङ्घातकर्त्रभावेन दूषितः । सम्प्रत्याद्यं दूषयति सूत्रकारः -
उत्तरेति ।
क्षणिकोऽर्थः क्षणिक इत्युच्यते । निरुध्यमानत्वं विनाशकसान्निध्यम् , निरुद्धत्वमतीतत्वम् ।
ननु कार्यकाले विनाशव्याप्तत्वेऽपि पूर्वक्षणे सत्त्वात्क्षणिकार्थस्य हेतुत्वमक्षतमिति शङ्कते -
अथ भावेति ।
सद्रूप इत्यर्थः ।
किं हेतोरुत्पत्त्यतिरिक्तः कार्योत्पादनाख्यो व्यापारः, अनतिरिक्तो वा । नाद्य इत्युक्त्या द्वितीयं शङ्कते -
अथेति ।
भाव उत्पत्तिः । उक्तं हि 'भूतिर्येषां क्रिया सैव कारकं सैव चोच्यत' इति । येषां क्षणिकभावानां या भूतिः सैव क्रिया कारकं चेत्यर्थः । नष्टस्यापि निमित्तत्त्वं स्यान्नोपादानत्वम् , तथा च मृदादेर्घटादिकालासत्त्वे घटाद्यनुत्पत्तिः ।
सत्त्वे च क्षणिकत्वहानिरिति परिहरति -
तथापीत्यादिना ।
प्रथमपक्षेक्तदोषं द्रढयति -
विनैवेति ।
वस्तुनो जन्मध्वंसानिरूपाणाच्च न क्षणिकत्वमित्याह -
अपि चेति ।
तयोः स्वरूपत्वे वस्तुन्यन्तर्भावाद्वस्तुनोऽनाद्यनन्तत्वमित्यपि द्रष्टव्यम् ।
द्वितीयं शङ्कते -
अथास्तीति ।
विशेषमेवाह -
उत्पादेति ।
दूषयति -
एवमपीति ।
ताभ्यां संसर्गे वस्तुनः क्षणिकत्वभङ्गः स्यात् ।
संसर्ग एव नास्तीति तृतीयकल्पमुत्थाप्य दूषयति -
अथात्यन्तेति ॥२०॥
सूत्रं व्याख्यातुं वृत्तं स्मारयति -
क्षणभङ्गेति ।
किं कार्योत्पत्तिर्निर्हेतुका सहेतुका वा । आद्ये प्रतिज्ञाहानिरित्याह -
अथासत्येवेत्यादिना ।
विषयकरणसहकारिसंस्काराश्चतुर्विधा हेतवस्तान् प्रतीत्य प्राप्य चित्तं रूपादिविज्ञानं चैत्ताश्चित्तात्मकाः सुखादयश्च जायन्त इति प्रतिज्ञार्थः । यथा नीलविज्ञानस्य नीलवस्त्वालम्बनप्रत्ययो विषयः, चक्षुः करणमधिपतिप्रत्ययः, सहकारिप्रत्यय आलोकः, समनन्तरपूर्वप्रत्ययः संस्कार इति भेदः ।
प्रतिज्ञाहानिं पुरुषदोषमुक्त्वा वस्तुदोषमप्याह -
निर्हेतुकायां चेति ।
सहेतुकत्वपक्षेऽन्वयिकारणस्य मृदादेः कार्यसहभावापत्त्या क्षणिकत्वप्रतिज्ञाहानिरिति सूत्रशेषं व्याचष्टे -
अथोत्तरक्षणेत्यादिना ।
सम्यक्क्रियन्त इति संस्काराः । आद्यन्तवन्तो भावा इत्यर्थः ॥२१॥
एवमाद्यसूत्राभ्यां समुदायो निरस्तः । उत्तरसूत्राभ्यां कार्यकारणभावक्षणिकत्वे निरस्ते । सम्प्रति तदभिमतं द्विविधं विनाशं दूषयति -
प्रतिसङ्ख्येति ।
संस्कृतमुत्पाद्यं बुद्धिबोध्यं प्रमेयमात्रम् , त्रयात्तुच्छरूपादन्यदित्यर्थः ।
किं तत्त्रयम् , तदाह -
तदपीति ।
निरुपाख्यं निःस्वरूपम् । प्रतीपा प्रतिकूला सङ्ख्या सन्तं भावमसन्तं करोमीत्येवंरूपा बुद्धिः प्रतिसङ्ख्या, तया निरोधः कस्यचिद्भावस्य भवति ।
अबुद्धिपूर्वकस्तु स्तम्भादीनां स्वरसभङ्गुराणामित्याह -
तद्विपरीत इति ।
परक्रियामुक्त्वा सूत्रं व्याचष्टे -
तेषामिति ।
भावाः सन्तानिनः । सन्तानो नाम भावानां हेतुफलभावेन प्रवाहः, तस्मिन् सन्ताने चरमक्षणः क्षणान्तरं करोति वा न वा । आद्ये चरमत्वव्याघातः, सन्तानाविच्छेदात् । द्वितीये चरमस्यासत्त्वप्रसङ्गः, अर्थक्रियाकारित्वं सत्त्वमिति स्वसिद्धान्तात् , चरमस्यासत्त्वे पूर्वेषामप्यसत्त्वप्रसङ्गः, अर्थक्रियाशून्यत्वात् ।
तस्मात्सन्तानस्य विच्छेदासम्भवान्निरोधाप्राप्तिरित्याह -
न तावदिति ।
न द्वितीय इत्याह -
नापीति ।
घटकपालचूर्णाद्यवस्थासु सेयं मृदिति प्रत्यभिज्ञानादन्वयिभावस्य मृदादेर्नात्यन्तिकविनाश इत्यर्थः ।
बीजस्याङ्कुरादिषु प्रत्यभिज्ञानादर्शनादन्वयिनो विच्छेद इत्यत आह -
अस्पष्टेति ।
अङ्कुरादयोऽनुस्यूतान्वयिभावस्थाः, कार्यत्वात् पटवदित्यन्वय्यविच्छेदसिद्धिरित्यर्थः । यस्माद्भावानां स्थायित्वं तस्मात्प्रतिक्षणनिरोधासम्भव इत्युपसंहारः ॥२२॥
अविद्यादीनां प्रतिसङ्ख्यानिरोधं तदभिमतं दूषयति -
उभयथेति ।
यमनियमादयः परिकराः । सर्वं दुःखं क्षणिकमिति भावनोपदेशो मार्गोपदेशः ॥२३॥
आगमप्रामाण्यादिति ।
तत्राकाशस्य कार्यत्वोक्त्या घटादिवद्वस्तुत्वं प्रसिध्यतीत्यर्थः ।
नन्वागमप्रामाण्ये विप्रतिपन्नान्सुगतान्प्रत्याकाशस्य वस्तुत्वं कथं सिध्यतीत्यत आह -
विप्रतिपन्नानिति ।
शब्दो वस्तुनिष्ठः गुणत्वात् , गन्धादिवदित्यनुमानादाकाशस्य वस्तुत्वं सिध्यति । पृथिव्याद्यष्टद्रव्याणां श्रोत्रग्राह्यगुणाश्रयत्वायोगादित्यर्थः ।
आकाशस्य भावत्वं प्रसाध्याभावत्वं दूषयति -
अपि चेति ।
यथैकघटसत्त्वेऽपि घटसामान्याभावो नास्ति तथैकपक्षिसत्त्वेऽपि मूर्तद्रव्यसामान्याभावात्मकाकाशो नास्त्येवेति पक्ष्यन्तरसञ्चारो न स्यादित्यर्थः ।
देशविशेषावच्छेदेनावरणाभावोऽस्तीत्याशङ्क्याभावावच्छेदकदेशविशेष एवाकाशो नाभाव इत्याह -
यत्रेत्यादिना ।
पतिष्यति । पक्षी सञ्चरिष्यतीत्यर्थः ।
आकाशस्यावस्तुत्वं स्वग्रन्थविरुद्धं चेत्याह -
अपि चेति ।
किं सम्यक् निश्रय आश्रयोऽस्या इति किंसन्निश्रया । अवस्तुनः शशविषाणस्याश्रयत्वादर्शनादिति ।
व्याघातान्तरमाह -
अपि चेति ।
ध्वंसाप्रतियोगिताख्यो धर्मो नित्यत्वं नासति सम्भवति । धर्मिणोऽसत्त्वव्याघातादित्यर्थः ॥२४॥
आत्मनः क्षणिकत्वं दूषयति -
अनुस्मृतेरिति ।
अनुभवजन्यस्मृतिरनुस्मृतिस्तस्यामनुभवसमानाश्रयत्वात्तदुभयाश्रयात्मनः स्थायित्वमित्यर्थः ।
क्षणिकत्वे ज्ञानद्वयानुसन्धानं च न स्यादित्याह -
कथं ह्यहमिति ।
पूर्वदर्शनकर्तुरद्राक्षमिति स्मरणकर्तैक्यप्रत्यभिज्ञानाच्चात्मानः स्थायित्वमित्याह -
अपि चेति ।
योऽहमदः पूर्वमद्राक्षं स एवाहमद्य तत्स्मरामीति प्रत्यभिज्ञानाकारो द्रष्टव्यः । इदं पश्यामीति ज्ञानान्तरसम्बन्धकथनम् , योऽहमद्राक्षं सोऽहं पश्यामीति प्रत्यभिज्ञान्तरद्योतनार्थम् ।
विपक्षे बाधकमाह -
यदि हीति ।
द्रष्टृस्मर्त्रोर्भेदेऽहं स्मरामि अन्योऽद्राक्षीदिति प्रतीतिः स्यादित्यत्र दृष्टान्तमाह -
यत्रैवमिति ।
प्रत्ययमाह -
स्मरामीति ।
स्मराम्यहमन्योऽद्राक्षीदिति प्रत्ययो यत्र तत्र भिन्नमेव कर्तारं लोकोऽवगच्छतीत्यविवादमित्यर्थः ।
प्रकृतप्रत्यभिज्ञायां तादृशभेदप्रत्ययस्य बाधकस्यादर्शनादात्मस्थायित्वं दुर्वारमित्याह -
इह त्वहमद इति ।
यथाग्नेरौष्ण्यादिकं न बाधते कश्चित्तथा नाहमद्राक्षमिति पूर्वदर्शनं न निह्नुत इत्यनेन बाधाभावात्प्रत्यभिज्ञा प्रमेत्युक्तं भवति ।
तथा द्रष्टृस्मर्त्रोरैक्ये सति स्थायित्वं फलितमित्याह -
तत्रैवं सतीति ।
क्षणद्वयसम्बन्धेऽप्यात्मनस्तृतीयक्षणे भङ्गोऽस्त्विति वदन्तं प्रत्याह -
तथेति ।
वर्तमानदशामारभ्योत्तमादुच्छ्वासादामरणादनन्तरामनन्तरां स्वस्यैव प्रतिपत्तिमात्मैककर्तृकां प्रत्यभिजानन्ना जन्मनश्च वर्तमानदशापर्यन्तमतीताः प्रतिपत्तीः स्वकर्तृकाः प्रतिसन्दधानःसन्निति योजना ।
दीपज्वालास्विवात्मनि प्रत्यभिज्ञानं सादृश्यदोषादिति शङ्कते -
स इति ।
सादृश्यज्ञानस्य धर्मिप्रतियोगिज्ञानाधीनत्वात्स्थिरस्य ज्ञातुरसत्त्वान्न सादृश्यज्ञानं सम्भवति, सत्त्वे वापसिद्धान्तः स्यादिति परिहरति -
तमित्यादिना ।
स्यादेतत् । न सादृश्यप्रत्ययः पूर्वोत्तरवस्तुद्वयज्ञानजन्यस्तद्द्वयसादृश्यावगाही, किं तर्हि कश्चिदेष विकल्पः स्वाकारमेव बाह्यत्वेन विषयीकुर्वाणः क्षणान्तरास्पर्शी, अतो न स्थिरद्रष्ट्रपेक्षेति शङ्कते -
तेनेदमिति ।
अत्र वक्तव्यं सादृश्यप्रत्यये तेनेदं सदृशमिति वस्तुत्रयं भासते न वेति । नेति वदतः स्वानुभवविरोधः । किञ्चार्थभेदाभावात्पदत्रयप्रयोगो न स्यात् ।
तस्मात्पदत्रयेण मिथःसंसृष्टभिन्नार्थभानादभानमसिद्धमिति परिहरति -
न तेनेति ।
अथ भासते वस्तुत्रयं तच्च प्रत्ययाभिन्नमेव न बाह्यमिति चेत् । न । त्रयाणामेकप्रत्ययाभेदे मिथोऽप्यभेदापत्तेः ।
इष्टापत्तिरिति ब्रुवाणं विज्ञानवादिनं प्रत्याह -
यदा हीति ।
वस्तुत्रयं ज्ञेयं सादृश्यप्रत्ययाद्भिन्नं सर्वलोकप्रसिद्धं तच्चेन्नाङ्गीक्रियते स्थायिद्रष्टृप्रसङ्गभयेन, तर्हि तत्तदाकाराणां क्षणिकविज्ञानानां मिथो वार्तानभिज्ञत्वादेकस्मिन् धर्मिणि विरुद्धानेकपक्षस्फुरणात्मकविप्रतिपत्त्यसम्भवात्स्वपक्षसाधनादिव्यवहारो लुप्येत, अतो यथानुभवं ज्ञानज्ञेयभेदोऽङ्गीकार्यः । तथा च तेनेदं सदृशमिति बाह्यार्थयोर्ज्ञानपूर्वकं सादृश्यं जानत आत्मनः स्थायित्वं दुर्वारमित्यर्थः ।
ननु सन्त्येव बाह्यार्थाः क्षणिकस्वलक्षणा निर्विकल्पकग्राह्याः, सविकल्पाध्यवसेयास्तु स्थायित्वसादृश्यादयो बाह्याः कल्पिता अवभासन्ते, अतो विप्रतिपत्त्यादिव्यवहार इति बाह्यार्थवादमाशङ्क्य निरस्यति -
एवमेवेति ।
यत्प्रमाणसिद्धं तदेव वक्तव्यम् । न हि क्षणिकत्वे किञ्चित्प्रमाणमस्ति । न चेदानीं घट इति प्रत्यक्षमवर्तमानकालासत्त्वं घटस्य गोचरयद्वर्तमानक्षणमात्रसत्त्वरूपे क्षणिकत्वे मानमिति वाच्यम् , तस्य वर्तमानत्वमात्रगोचरत्वेन कालान्तरासत्त्वासिद्धेः । न च यत्सत्तत्क्षणिकमिति व्याप्तिरस्ति, विद्युदादेरपि द्वित्रिक्षणस्थायित्वेन दृष्टान्ताभावात् । न च स्थायिनमनुमातारमन्तरेणानुमानं सम्भवति । तस्मादमानसिद्धार्थवक्ता तथागतोऽश्रद्धेयवचन इत्यर्थः । किञ्च सादृश्यं प्रत्यभिज्ञायां दोषतया निमित्तं विषयतया वा । आद्येऽपि स्वरूपसत् ज्ञातं वा । नाद्यः, मन्दान्धकारे शुक्तिमात्रग्रहे श्वैत्याज्ञानेऽपि रूप्याभेदभ्रमापत्तेः । न द्वितीयः, स्थायिज्ञातारं विना तज्ज्ञानासम्भवस्योक्तत्वात् ।
नापि विषयतया निमित्तमित्याह -
न चेति ।
सोऽहमित्युल्लेखात्तेनाहं सदृश इत्यनुल्लेखादित्यर्थः ।
सोऽहमिति प्रत्यभिज्ञाया भ्रमत्वं निरस्य संशयत्वं निरस्यति -
भवेदिति ।
जडार्थे प्रत्यभिज्ञातेऽपि बाधसम्भावनया संशयः कदाचित्स्यान्नात्मनीत्यर्थः ।
असन्दिग्घाविपर्यस्तप्रत्यभिज्ञाविरोधादात्मक्षणिकत्वमतमत्यन्तासङ्गतमित्युपसंहरति -
तस्मादिति ॥२५॥
अभावः शशविषाणवदत्यन्तासन्नित्यङ्गीकृत्य मृदादिनाशादसतो घटादिकं जायते इति सुगता वदन्ति, तद्दूषयति -
नासत इति ।
न केवलं बलादापद्यते किन्तु स्वयं दर्शयन्ति च । द्वौ नञौ प्रकृतार्थं गमयतः ।
मृदादिकमुपमृद्य घटादेः प्रादुर्भावादितीममर्थमाह -
विनष्टादिति ।
कारणविनाशात्कार्यजन्मेत्यत्र युक्तिमाह -
कूटस्थादिति ।
विनाशशून्यात् । नित्यादित्यर्थः । नित्यस्य निरतिशयस्य कार्यशक्तत्वे तत्कार्याणि सर्वाण्येकस्मिन्नेव क्षणे स्युः, तथा चोत्तरक्षणे कार्याभावादसत्त्वापत्तिः । न च सहकारिकृतातिशयक्रमात्कार्यक्रम इति युक्तम् । अतिशयस्यातिशयान्तरापेक्षायामनवस्थानात् । अनपेक्षायां कार्यस्याप्यतिशयानपेक्षत्वेन सहकारिवैयर्थ्यात् । तस्मान्न स्थायिभवात्कार्यजन्मेत्यर्थः । क्षणिकभावस्य हेतुत्वम् 'उत्तरोत्पादे च' इत्यत्र निरस्तम् ।
अभावस्य हेतुत्वनिरासार्थं सूत्रं व्याचष्टे -
तत्रेदमिति ।
यदि बीजाभावस्याभावान्तराद्विशेषः स्यात् , तदा विशेषवदभावद्वारा बीजादेवाङ्कुर इति लौकायतिकानामभ्युपगमोऽर्थवान्स्यात् , न सोऽस्तीत्याह -
येनेति ।
सूत्रं योजयति -
निर्विशेषस्येति ।
शशविषाणादेः कार्यकारित्वस्यादृष्टत्वान्नाभावस्यासतो हेतुत्वमित्यर्थः ।
अस्त्वभावस्यापि विशेष इत्यत आह -
यदीति ।
अभावस्य हेतुत्वेऽतिप्रसङ्ग इति तर्कमुक्त्वानुमानमाह -
नापीति ।
अभावो न हेतुः, असत्त्वात् । सम्मतवदित्यर्थः ।
अभावो न प्रकृतिः, कार्यानन्वितत्वात् , यथा शरावाद्यनन्वितस्तन्तुर्न शरावादिप्रकृतिरिति तर्कपूर्वकमाह -
अभावाच्चेति ।
अतोऽन्वितत्वान्मृदादिर्भाव एव प्रकृतिरित्याह -
मृदिति ।
स्थायिनः कारणत्वायोगमुक्तमनूद्य दूषयति -
यत्तूक्तमित्यादिना ।
अनुभवबलात्स्थिरस्वभावानामेव सहकारिसन्निधिक्रमेण कार्यक्रमहेतुत्वमङ्गीकार्यम् । न च शक्तस्य सहकार्यपेक्षा न युक्तेति वाच्यम् , यतोऽशक्तस्यापि नापेक्षेत्यसहकारि विश्वं स्यात् । ततः स्वर्णादौ स्वतोऽतिशयशून्येऽग्नितापादिसहकारिकृतातिशयक्रमाद्रुचकादिकार्यक्रमः । न चातिशयस्यातिशयान्तरानपेक्षत्वे कार्यस्याप्यनपेक्षेति वाच्यम् , पटस्य मृदनपेक्षत्वे कार्यत्वाविशेषाद्घटस्यापि मृदनपेक्षाप्रसङ्गादन्वयव्यतिरेकाभ्यामपेक्षा सहकारिष्वपि तुल्या । यदुक्तं कार्याभावदशायां कारणस्यासत्त्वापत्तिरिति । तन्न । अकारणस्यापि बाधाभावेन सत्त्वोपपत्तेः । न ह्यर्थक्रियाकारित्वमेव सत्त्वम् , असतस्तदयोगेन सत्त्वस्य ततो भेदात् । सतो ह्यर्थक्रियाकारित्वं नासतः । अतः कारणतावच्छेदकमबाधितस्वरूपात्मकं सत्त्वं कारणत्वाद्भिन्नमेव । तस्मादनुस्यूतस्थिरभावानां हेतुत्वमुपपन्नमिति भावः ।
पूर्वापरविरोधमप्याह -
अपि चेति ॥२६॥
अभावादुत्पत्तौ शशविषाणादप्युत्पत्तिः स्यादित्युक्तम् । अतिप्रसङ्गान्तरमाह -
उदासीनानामिति ।
अनीहमानानां प्रयत्नशून्यानाम् । अमत्रं घटादिपात्रम् । तन्वानस्यव्यापारयतः । तस्माद्भ्रान्तिमूलेन क्षणिकबाह्यार्थवादेन कूटस्थनित्यब्रह्मसमन्वयस्य न विरोध इति सिद्धम् ॥२७॥