अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

सन्ध्याधिकरणम्

न केवलं श्रुत्या स्वप्नार्थानां व्याव­हा­रि­क­स­त्यत्वं किन्तु सक­र्तृ­क­त्वा­द­पी­त्याह -
स हि कर्तेति ॥१॥

किञ्च स्वप्नार्थाः सत्याः, प्राज्ञ­नि­र्मि­त­त्वात्, आकाशादिवदिति सूत्रार्थमाह -
अपिचेत्यादिना ।

रूढिमाशङ्क्य प्रक­र­णा­न्नि­र­स्यति -
नन्वित्यादिना ।
यः सुप्तेषु निर्व्यापारेषु करणेषु जागर्ति तदेव शुक्रं स्वप्रकाशं ब्रह्मेत्यर्थः ।

स्वप्नस्य जाग्रदर्थैः समा­न­दे­श­त्व­श्रु­ते­र­भे­द­श्रु­तेश्च सत्यत्वे तात्पर्यमित्याह -
अथो खल्वाहुरिति ॥२॥

स्वप्नरथादयः प्रातीतिका जाग्रद्रथादौ कॢप्तसामग्रीं विना दृष्ट­त्वा­च्छु­क्ति­रू­प्या­दि­व­दिति सिद्धान्तयति -
तुशब्द इत्यादिना ।
चिन्मा­त्र­नि­ष्ठा­विद्या चित्त्वा­व­च्छे­देन जीवेऽपि स्थिता रथाद्याकारा मायेति सूत्र­भा­ष्य­यो­रुक्ता माया­वि­द्य­यो­र­भे­द­ज्ञा­प­नाय मात्रपदेन तु सति प्रमा­त­र्य­बा­ध्य­त्व­रू­पस्य व्याव­हा­रि­क­स­त्य­त्वस्य निरास उक्तः । कार्त्स्न्यमत्र जाग्रति या कॢप्तसामग्री, तज्जन्यत्वं परमार्थवस्तुनो जाग्रदर्थस्य कार्यस्य धर्मः ।

सत्यत्वव्यापकः तदभावं स्वप्ने विवृणोति -
न तावादित्यादिना ।
संवृते सङ्कीर्णे, पर्येतुं गन्तुं, विप­र्ये­तु­मा­गन्तुं, श्रावयति प्रबुद्धो जनः, पार्श्व­स्था­न्प्र­तीति शेषः । एतत्स्वप्नं यथा स्यात्तथा यत्र काले स्वप्न्यया वृत्त्या चरति तदा स्वशरीरे यथेष्टं चरतीत्यर्थः ।

बहिरिवेति ।
कुलायाद्देहात् बहिरिवामृत आत्मा चरित्वा यत्र कामं यथेष्टमीयते विहरतीत्यर्थः ।

गुणमाह -
यो हीति ।
देहा­भि­मा­न­ही­न­त्व­गु­णेन बहि­ष्ठ­व­द्दे­ह­स्थोऽपि बहिरित्युक्त इत्यर्थः । एवं सति श्रुति­यु­क्ति­भ्या­म­न्त­रेव स्वप्ने सतीत्यर्थः ।

विप्रलम्भो विभ्रमः योग्य­दे­शा­भा­व­मुक्त्वा कालाभावमाह -
कालेति ।
अत्र रात्रिसमयेऽपि केतु­मा­ला­दि­व­र्षा­न्तरे वासरो भवति इति भारत इत्युक्तम् । पूर्व­प­क्षा­नु­मा­नानां जाग्र­द­र्थ­दृ­ष्टान्ते कॢप्त­सा­म­ग्री­ज­न्य­त्व­म­बा­ध­यो­ग्यत्वं चोपाधिरिति सूत्रतात्पर्यम् ॥३॥

स्वप्नस्य भ्रान्ति­मा­त्रत्वे तत्सू­चि­तोऽ­प्यर्थः सत्यो न स्यादिति शङ्कोत्तरत्वेन सूत्रान्तरं व्याचष्टे -
मायेत्यादिना ।

मन्त्रेण देव­ता­नु­ग्र­हे­णौ­ष­धि­से­वया वा स्वप्नाः सत्य­सू­च­का­श्चे­त्सत्याः स्युरित्यत आह -
तत्रापि भवतु नामेति ।
सत्यहर्षहेतोरपि शुक्तिरूप्यस्य सत्य­त्वा­द­र्श­ना­दिति भावः ।

यथा कृषिद्वारा लाङ्गलस्य गवा­दि­जी­व­न­नि­मि­त्तत्वं तथा स्वप्न­भो­क्तु­र­दृ­ष्ट­द्वारा स्वप्न­सृ­ष्टि­नि­मि­त्तत्वं न तु कुम्भं प्रति कुम्भकारस्येव साक्षा­द्स्व­प्न­क­र्तृत्वं साम­ग्र्य­भा­व­बा­ध­यो­रु­क्त­त्वा­दि­त्याह -
यदु­क्त­मि­त्या­दिना ।
तथा च स्वप्नस्य सकर्तृकत्वं मुख्यं नास्तीति हेत्वसिद्धिरिति भावः ।

श्रुति­ता­त्प­र्य­वि­रो­धाच्च न स्वप्न­स­त्य­ते­त्याह -
अपिचेति ।
व्यतिकरः संकरः, श्रुत्या तत्परतयेत्यर्थः । जाग­रि­ता­द­वि­शे­षा­दिति भावः ।

फलितमाह -
तस्मादिति ।

एतेनेति ।
भाक्त­त्वे­ने­त्यर्थः ।

द्विती­य­सू­त्रो­क्त­प्रा­ज्ञ­क­र्तृ­क­त्व­हे­तु­रपि स्वप्नस्य किं श्रुतिसिद्ध उत प्राज्ञस्य सर्वे­श्व­र­त्वा­त्सिद्धः, नाद्य इत्याह -
यद­प्यु­क्त­मि­त्या­दिना ।
स्वयं विहत्य जाग्रद्देहं निश्चेष्टं कृत्वा, स्वयं वासनया निर्माय, स्वेन भासा स्वीय­बु­द्धि­वृत्त्या स्वेन ज्योतिषा स्वरूपचैतन्येन च स्वप्न­म­नु­भ­व­ती­त्यर्थः ।

न केवलं बृहदारण्यके जीवस्य स्वप्नकर्तृत्वं श्रुतं किन्तु काठकेऽपीत्याह -
इहापीति ।

जीवोक्तौ ब्रह्म­प्र­क­र­ण­वि­रोध इत्यत आह -
तस्य त्विति ।

एवं हेतोः श्रुतिसिद्धत्वं निरस्य द्विती­य­म­ङ्गी­क­रोति -
न चास्माभिरिति ।

तर्हि हेतुसिद्धेः स्वप्नस्य सत्य­त्व­मि­त्या­शङ्क्य सत्यत्वं व्यावहारिकं पारमार्थिकं वेति विकल्प्य व्यवहारकाले बाधदर्शनात्, नाद्य इत्याह -
पार­मा­र्थि­क­स्त्विति ।

द्वितीये दृष्टान्तस्य साध्य­वै­क­ल्य­मि­त्याह -
न चेति ।

कस्तर्हि स्वप्नस्य जाग्रतो विशेषोऽत्र कथ्यत इत्याशङ्क्य प्राति­भा­सि­क­त्व­मि­त्याह -
प्रागिति ॥४॥

पूर्वं कॢप्त­सा­म­ग्र्य­भा­वा­त्स्वप्नो माये­त्यु­क्त­म­युक्तं सत्य­स­ङ्क­ल्प­मा­त्रे­णापि सत्य­सृ­ष्टि­सं­भ­वा­दिति शङ्कां कृत्वा परिहरन् सूत्रं व्याचष्टे -
अथपि स्यादित्यादिना ।
सत्यसंकल्पस्य हि संक­ल्पा­त्सृष्टिः सत्या भवति जीवस्य त्वस­त्य­सं­क­ल्पत्वं प्रत्यक्षमिति परिहारार्थः ।

तर्हि विरु­द्ध­ध­र्म­व­त्त्वा­ज्जी­व­स्ये­श्व­रत्वं नास्त्येवेति शङ्कते -
किमिति ।

नास्तीति न किन्त्वा­वृ­त­मस्ति तत्पु­न­री­श्व­र­प्र­सा­दा­त्क­स्य­चि­द्व्य­ज्यत इत्याह -
न नास्तीति ।
विधूतध्वान्तस्य निष्पापस्य संसि­द्ध­स्या­णि­मा­दि­वि­शि­ष्ट­स्ये­त्यर्थः । ब्रह्मैवाहमिति देवं ज्ञात्वा साक्षात्कृत्य सर्व­पा­शा­ना­म­वि­द्या­दि­क्ले­शा­ना­म­प­हा­नि­र­प­क्ष­य­स्त­द्रूपो भवति । क्षीणैश्च क्लेशै­स्त­त्का­र्य­ज­न्म­म­र­णा­त्म­क­ब­न्ध­ध्वंस इति निर्गु­ण­वि­द्या­फ­ल­मु­क्तम् ।

सगुणविद्याफलमाह -
तस्येति ।
पर­स्या­भि­मु­ख्ये­ना­ह­ङ्ग्र­हेण ध्याना­द्ब­न्ध­मो­क्षा­पे­क्षया मन्त्रो­क्त­हा­नि­द्व­या­पे­क्षया वा तृतीयं विश्वै­श्व­र्य­म­णि­मा­दि­रूपं मर्त्यदेहपाते सति सिद्धे देहे भवति तद्भो­गा­न­न्त­र­मा­त्म­ज्ञा­ना­त्के­वलो द्वैतशून्य आप्तकामः प्राप्त­स्व­य­ञ्ज्यो­ति­रा­नन्दो भवतीति क्रम­मु­क्ति­रि­त्यर्थः ॥५॥

उक्तै­श्व­र्य­ति­रो­भावे देहाभिमानो हेतुरिति कथनार्थं सूत्रं, तन्निरस्यां शङ्कामाह -
कस्मादिति ।

सत्यावरणं नास्ती­त्य­ङ्गी­कृत्य कल्पितावरणं साधयति -
उच्यत इत्यादिना ।

जीव­स्ये­श्व­र­त्व­म­ङ्गी­कृ­त्या­व­र­ण­क­ल्प­नातो वर­म­न्य­त्व­क­ल्प­ने­त्या­श­ङ्का­मु­द्भाव्य श्रुत्या निरस्यति -
नन्वित्यादिना ।
स्वप्नेऽ­प्या­लो­कादेः सत्यत्वे जाग्रतीवात्मनः स्वप्र­का­श­त्व­म­स्फुटं स्यात्, प्रातिभासिकत्वे त्वालो­के­न्द्रि­या­द्य­स­त्त्वेऽ­प्य­र्था­प­रो­क्ष्य­मा­त्म­ज्यो­तिष एवेति स्फुटं सिध्यति । तस्मा­द्दे­शा­दि­सा­म्य­व­चनं स्वप्नस्य जाग्र­त्तु­ल्य­भा­ना­भि­प्रा­य­मि­त्यर्थः ॥६॥