भाष्यरत्नप्रभाव्याख्या
ज्योतिराद्यधिकरणम्
पूर्वं प्राणस्याध्यात्मिकाधिदैविकविभागेनाप्यणुत्वविभुत्वव्यवस्थोक्ता तत्प्रसङ्गेनाध्यात्मिकानां प्राणानामाधिदैविकाधीनत्वमाह -
ज्योतिराद्यधिष्ठानं तु तदामननात् ।
'वाचा हि नामान्यभिवदति चक्षुषा रूपाणि पश्यति' इति तृतीयाश्रुत्यान्वयव्यतिरेकवत्या वागादीनां निरपेक्षसाधनत्वोक्तिविरोधात् 'अग्निर्वाग्भूत्वा' इत्यादिश्रुतिस्तेषामचेतनाग्न्याद्युपादानकत्वपरा न तु तेषामधिष्ठातृदेवतापरा । न च स्वकार्ये शक्तानामपि वागादीनामचेतनत्वादधिष्ठात्रपेक्षा न विरुध्यत इति वाच्यम् , जीवस्याधिष्ठातृत्वात् । किञ्च देवतानामधिष्ठातृत्वे जीववद्भोक्तृत्वमस्मिन् देहे स्यात् , तथा चैकत्रानेकभोक्तृणां विरोधाद्दुर्बलस्य जीवस्य भोक्तृत्वं न स्यादिति पूर्वपक्षार्थः ।
सिद्धान्तयति -
एवं प्राप्त इत्यादिना ।
अग्निर्वाग्भूत्वादित्यश्चक्षुर्भूत्वेति च तद्भावोऽत्राग्न्यादिदेवताधिष्ठेयत्वरूप एव सम्बन्धो न तदुपादानकत्वरूपो दूरस्थादित्यमण्डलादेर्मुखस्थचक्षुराद्युपादानत्वासम्भवादित्याह -
अग्नेश्चायमिति ।
वायुः प्राणाधिष्ठाता भूत्वा नासापुटे प्राविशदिति व्याख्येयमित्याह -
तथेति ।
भाति दीप्यते, तपति स्वकार्यं करोतीत्यर्थः ।
एतस्मिन्नधिष्ठात्रधिष्ठेयत्वरूपार्थे लिङ्गान्तरमाह -
स वै वाचमिति ।
स प्राणो वाचं प्रथमामुद्गीथकर्मणि प्रधानामनृतादिपाप्मरूपं मृत्युमतीत्यावहन्मृत्युना मुक्तां कृत्वा अग्निदेवतात्मत्वं प्रापितवानित्यर्थः ।
किञ्च मृतस्याग्निं वागप्येति वातं प्राणः चक्षुरादित्यमित्यादिश्रुतिरप्यधिष्ठात्रधिष्ठेयत्वसम्बन्धं द्योतयतीत्याह -
सर्वत्रेति ।
ननु शकटादीनां बलीवर्दादिप्रेरितानां प्रवृत्तिर्दृष्टा, क्षीरादीनां त्वनधिष्ठितानामपि दध्यादिप्रवृत्तिर्दृश्यते, तथा चोभयथासम्भवे कथं निश्चयः, तत्राह -
उभयथोपपत्तौ चेति ।
उक्तदोषान्तरनिरासाय सूत्रमवतारयति -
यदपीति ॥१४॥
शारीरेणैवेति ।
भोक्त्रेति शेषः । सम्बन्धो भोक्तृभोग्यभावः । अथ देहे प्राणप्रवेशानन्तरं यत्र गोलके एतच्छिद्रमनुप्रविष्टं चक्षुरिन्द्रियं तत्र चक्षुष्यभिमानी स आत्मा चाक्षुषः तस्य रूपदर्शनाय चक्षुः । यद्यप्यात्मा करणान्यपेक्षते तथापि ज्ञेयज्ञानतदाश्रयाहङ्कारान्यो वेद स आत्मा चिद्रूप एव, करणानि तु गन्धादिप्रवृत्तयेऽपेक्ष्यन्ते न चैतन्यायेति श्रुत्यर्थः ।
किञ्च योऽहं रूपमद्राक्षं स एवाहं शृणोमीति प्रतिसन्धानादेकः शारीर एव भोक्ता न बहवो देवा इत्याह -
अपि चेति ॥१५॥
कदाचिद्देवानामत्र भोक्तृत्वं कदाचिज्जीवस्येत्यनियमोऽस्त्वित्याशङ्क्य स्वकर्मार्जिते देहे जीवस्य भोक्तृत्वनियमान्मैवमित्याह - सूत्रकारः -
तस्य चेति ।
उत्क्रमाणादिषु जीवस्य प्राणाव्यभिचारात्तस्यैव प्राणस्वामित्वम् , देवतानां तु परस्वामिकरथसारथिवदधिष्ठातृत्वमात्रमिति व्याख्यान्तरमाह -
शारीरेणैव च नित्य इति ।
यथा प्रदीपादिः करणोपकारकतया करणपक्षस्यान्तर्गतस्तथा देवाः करणोपकारिण एव न भोक्तार इत्यर्थः । जीवस्यादृष्टद्वारा करणाधिष्ठातृत्वाद्रथस्वामिवद्भोक्तृत्वम् , देवानां तु करणोपकाराभिज्ञतया सारथिवदधिष्ठातृत्वमिति न जीवेनान्यथासिद्धिः । देवानामधिष्ठातृत्वेनास्मिन्देहे भोक्तृत्वानुमानं तु 'न ह वै देवान् पापं गच्छति' इत्युक्तश्रुतिबाधितम् । तस्मात् 'चक्षुषा हि रूपाणि पश्यति' इति श्रुतेः साधनत्वमात्रबोधित्वादग्निर्वाग्भूत्वेत्याद्यधिष्ठातृदेवतापेक्षाबोधकश्रुतिभिरविरोध इति सिद्धम् ॥१६॥