अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

ज्योतिराद्यधिकरणम्

पूर्वं प्राण­स्या­ध्या­त्मि­का­धि­दै­वि­क­वि­भा­गे­ना­प्य­णु­त्व­वि­भु­त्व­व्य­व­स्थोक्ता तत्प्र­स­ङ्गे­ना­ध्या­त्मि­कानां प्राणा­ना­मा­धि­दै­वि­का­धी­न­त्व­माह -
ज्योति­रा­द्य­धि­ष्ठानं तु तदामननात् ।
'वाचा हि नामान्यभिवदति चक्षुषा रूपाणि पश्यति' इति तृती­या­श्रु­त्या­न्व­य­व्य­ति­रे­क­वत्या वागादीनां निर­पे­क्ष­सा­ध­न­त्वो­क्ति­वि­रो­धात् 'अग्नि­र्वा­ग्भूत्वा' इत्या­दि­श्रु­ति­स्ते­षा­म­चे­त­ना­ग्न्या­द्यु­पा­दा­न­क­त्व­परा न तु तेषा­म­धि­ष्ठा­तृ­दे­व­ता­परा । न च स्वकार्ये शक्तानामपि वागा­दी­ना­म­चे­त­न­त्वा­द­धि­ष्ठा­त्र­पेक्षा न विरुध्यत इति वाच्यम् , जीव­स्या­धि­ष्ठा­तृ­त्वात् । किञ्च देव­ता­ना­म­धि­ष्ठा­तृत्वे जीव­व­द्भो­क्तृ­त्व­म­स्मिन् देहे स्यात् , तथा चैक­त्रा­ने­क­भो­क्तृणां विरो­धा­द्दु­र्ब­लस्य जीवस्य भोक्तृत्वं न स्यादिति पूर्वपक्षार्थः ।

सिद्धान्तयति -
एवं प्राप्त इत्यादिना ।

अग्नि­र्वा­ग्भू­त्वा­दि­त्य­श्च­क्षु­र्भू­त्वेति च तद्भा­वोऽ­त्रा­ग्न्या­दि­दे­व­ता­धि­ष्ठे­य­त्व­रूप एव सम्बन्धो न तदु­पा­दा­न­क­त्व­रूपो दूर­स्था­दि­त्य­म­ण्ड­ला­दे­र्मु­ख­स्थ­च­क्षु­रा­द्यु­पा­दा­न­त्वा­स­म्भ­वा­दि­त्याह -
अग्नेश्चायमिति ।

वायुः प्राणाधिष्ठाता भूत्वा नासापुटे प्राविशदिति व्याख्ये­य­मि­त्याह -
तथेति ।
भाति दीप्यते, तपति स्वकार्यं करोतीत्यर्थः ।

एत­स्मि­न्न­धि­ष्ठा­त्र­धि­ष्ठे­य­त्व­रू­पार्थे लिङ्गान्तरमाह -
स वै वाचमिति ।
स प्राणो वाचं प्रथ­मा­मु­द्गी­थ­क­र्मणि प्रधा­ना­म­नृ­ता­दि­पा­प्म­रूपं मृत्यु­म­ती­त्या­व­ह­न्मृ­त्युना मुक्तां कृत्वा अग्नि­दे­व­ता­त्मत्वं प्रापि­त­वा­नि­त्यर्थः ।

किञ्च मृतस्याग्निं वागप्येति वातं प्राणः चक्षु­रा­दि­त्य­मि­त्या­दि­श्रु­ति­र­प्य­धि­ष्ठा­त्र­धि­ष्ठे­य­त्व­स­म्बन्धं द्योतयतीत्याह -
सर्वत्रेति ।

ननु शकटादीनां बली­व­र्दा­दि­प्रे­रि­तानां प्रवृ­त्ति­र्दृष्टा, क्षीरादीनां त्वन­धि­ष्ठि­ता­ना­मपि दध्या­दि­प्र­वृ­त्ति­र्दृ­श्यते, तथा चोभयथासम्भवे कथं निश्चयः, तत्राह -
उभयथोपपत्तौ चेति ।

उक्त­दो­षा­न्त­र­नि­रा­साय सूत्रमवतारयति -
यदपीति ॥१४॥

शारीरेणैवेति ।
भोक्त्रेति शेषः । सम्बन्धो भोक्तृभोग्यभावः । अथ देहे प्राण­प्र­वे­शा­न­न्तरं यत्र गोलके एत­च्छि­द्र­म­नु­प्र­विष्टं चक्षुरिन्द्रियं तत्र चक्षुष्यभिमानी स आत्मा चाक्षुषः तस्य रूपदर्शनाय चक्षुः । यद्यप्यात्मा करणान्यपेक्षते तथापि ज्ञेय­ज्ञा­न­त­दा­श्र­या­ह­ङ्का­रान्यो वेद स आत्मा चिद्रूप एव, करणानि तु गन्धा­दि­प्र­वृ­त्त­येऽ­पे­क्ष्यन्ते न चैतन्यायेति श्रुत्यर्थः ।

किञ्च योऽहं रूपमद्राक्षं स एवाहं शृणोमीति प्रति­स­न्धा­ना­देकः शारीर एव भोक्ता न बहवो देवा इत्याह -
अपि चेति ॥१५॥

कदा­चि­द्दे­वा­ना­मत्र भोक्तृत्वं कदा­चि­ज्जी­व­स्ये­त्य­नि­य­मोऽ­स्त्वि­त्या­शङ्क्य स्वकर्मार्जिते देहे जीवस्य भोक्तृ­त्व­नि­य­मा­न्मै­व­मि­त्याह - सूत्रकारः -
तस्य चेति ।

उत्क्रमाणादिषु जीवस्य प्राणा­व्य­भि­चा­रा­त्त­स्यैव प्राण­स्वा­मि­त्वम् , देवतानां तु पर­स्वा­मि­क­र­थ­सा­र­थि­व­द­धि­ष्ठा­तृ­त्व­मा­त्र­मिति व्याख्यान्तरमाह -
शारीरेणैव च नित्य इति ।
यथा प्रदीपादिः करणोपकारकतया कर­ण­प­क्ष­स्या­न्त­र्ग­त­स्तथा देवाः करणोपकारिण एव न भोक्तार इत्यर्थः । जीव­स्या­दृ­ष्ट­द्वारा कर­णा­धि­ष्ठा­तृ­त्वा­द्र­थ­स्वा­मि­व­द्भो­क्तृ­त्वम् , देवानां तु कर­णो­प­का­रा­भि­ज्ञ­तया सार­थि­व­द­धि­ष्ठा­तृ­त्व­मिति न जीवे­ना­न्य­था­सिद्धिः । देवा­ना­म­धि­ष्ठा­तृ­त्वे­ना­स्मि­न्देहे भोक्तृ­त्वा­नु­मानं तु 'न ह वै देवान् पापं गच्छति' इत्यु­क्त­श्रु­ति­बा­धि­तम् । तस्मात् 'चक्षुषा हि रूपाणि पश्यति' इति श्रुतेः साध­न­त्व­मा­त्र­बो­धि­त्वा­द­ग्नि­र्वा­ग्भू­त्वे­त्या­द्य­धि­ष्ठा­तृ­दे­व­ता­पे­क्षा­बो­ध­क­श्रु­ति­भि­र­वि­रोध इति सिद्धम् ॥१६॥