अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

अध्यक्षाधिकरणम्

सोऽध्यक्षे तदुपगमादिभ्यः ।

उक्तन्यायसिद्धं प्राणस्यापि वृत्ति­ल­य­मु­प­जीव्य 'प्राण­स्ते­जसि' इति श्रुते­रू­प­ग­मा­दि­श्रु­तेश्च संशयमुक्त्वा जीवे लयं विनापि उपगमादिसम्भव इति पूर्वपक्षयति -
स्थितमित्यादिना ।

अत्र तेजःशब्दस्य मुख्यत्वम् , सिद्धान्ते तु भूतो­प­हि­त­जी­व­ल­क्ष­क­त्व­मिति मत्वा सूत्रं योजयति -
स प्रकृत इत्यादिना ।
अज्ञा­न­क­र्म­वा­स­नो­पा­धिक इत्यर्थः । तं जीवं प्रति प्राणा­ना­मु­प­ग­मा­नु­ग­म­ना­व­स्था­न­श्रु­तिभ्य इति हेत्वर्थः । यथा यात्रेच्छावन्तं राजानं भृत्या उप­ग­च्छ­न्त्ये­व­मेव परलोकं जिगमिषुं जीवं सर्वे प्राणा आभि­मु­ख्ये­ना­या­न्ती­त्यु­प­गमः श्रुतः । तमु­त्क्रा­म­न्त­मि­त्य­नु­ग­मनं श्रुतम् ।

जीवे प्राणा­व­स्था­न­श्रु­ति­माह -
सविज्ञान इति ।
जीवस्य प्राप्त­व्य­फ­ला­व­ग­माय हि विज्ञा­न­सा­हि­त्य­श्रुत्या मुख्य­प्रा­ण­स­हि­त­क­र­णानां जीवे स्थिति­र्भा­ती­त्यर्थः ॥४॥

यद्यपि प्राणस्य तेजस्यव्यवधानेन लयः श्रुत­स्त­था­प्यु­भ­य­श्रु­त्य­नु­ग्र­हाय प्राणो जीवे लीयते, जीवद्वारा च तदुपाधिषु तेज­आ­दि­भू­ते­ष्विति श्रुत्य­र्थ­स्फु­टी­क­र­णार्थं सूत्रं गृह्णाति -
कथं तर्हीति ।
न च लयं विनापि जीवं प्रत्यु­प­ग­मा­दि­स­म्भ­वा­त्ते­जः­श्रु­ति­र्मु­ख्या­स्त्विति वाच्यम् , जीवं प्रत्यागत्य प्राणस्य निर्व्या­पा­र­त्वेन स्थितेरेवात्र लयत्वादिति भावः ।

भूतेषु जीवस्थितिः किं बलाद्व्याख्यायत इत्याशङ्क्य 'सोऽध्यक्षे' इति सूत्रो­दा­हृ­त­श्रु­ति­ब­ला­दि­त्याह -
नन्वित्यादिना ।

प्राणस्य जीवद्वारा भूतप्राप्तौ दृष्टान्तमाह -
योऽपि हीति ॥५॥

स्थूलदेहारम्भाय पञ्ची­कृ­त­भू­ता­न्या­व­श्य­का­नीति रंहत्यधिकरणे व्याख्यातम् । अण्व्यः सूक्ष्माः, मीयन्त इति मात्राः परिच्छिन्नाः प्राङ्मो­क्षा­द­वि­ना­शिन्यः, दशार्धानां पञ्चानां भूतानां सूक्ष्मभागा इति यावत् । जीवस्य भूताश्रयत्वं कर्मा­श्र­य­त्व­श्रु­ति­वि­रु­द्ध­मि­त्या­शङ्क्य कर्म निमि­त्त­त्वे­ना­श्रयः, भूतानि तु देहो­पा­दा­न­त्वे­ने­त्यु­भ­य­म­वि­रु­द्ध­मि­त्याह -
ननु चेत्यादिना ।
तौ याज्ञ­व­ल्क्या­र्त­भागौ यज्जी­वा­धा­र­मू­च­तु­स्त­त्क­र्मेति श्रुतेर्वचनम् ॥६॥