अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

पृथिव्यधिकाराधिकरणम्

पृथि­व्य­धि­का­र­रू­प­श­ब्दा­न्त­रेभ्यः ।

विष­य­मु­क्त्वा­न्न­श­ब्द­म­हा­भू­त­प्र­क­र­णाभ्यां संशयमाह -
ता इति ।
अभ्यवहार्यं भक्ष्यम् । अत्र श्रुतौ यद्य­न्न­मो­द­ना­दिकं तदा 'अद्भ्यः पृथिवी' इति श्रुत्या विरोधः, यदि पृथिवी तदा न विरोध इति फलं बोध्यम् । अप्पृथिव्योः कार्य­का­र­ण­भा­वा­द­धि­क­र­ण­स­ङ्गतिः । अन्न­श्रु­ति­वृ­ष्टि­भ­व­न­त्व­लि­ङ्गाभ्यां पूर्वपक्षः । तदेव तत्रैवेति श्रुत्यर्थः ।

तथा च क्वचिदन्नं क्वचिदद्भयः पृथिवी ततोऽन्नमिति विरो­धा­न्नै­क­वा­क्य­तेति प्राप्ते सिद्धान्तयति -
एवं प्राप्त इति ।
अधिकारः प्रकरणम् । रूपं लिङ्गम् । पयः क्षीरं तद्वत्पाण्डुरं श्वेतम् , अङ्गारवद्रोहितं रक्तम् ।

शब्दा­न्त­र­श­ब्दितं स्थानं व्याचष्टे -
श्रुत्य­न्त­र­म­पीति ।
अबानन्तर्यं पृथिव्याः स्थानं श्रुत्य­न्त­र­सिद्धं तेनाप्यन्नस्य पृथि­वी­त्व­मि­त्यर्थः । तत्तत्र सृष्टिकाले यदपां शरः यो मण्डवद्घनीभाव आसीत्स एव समहन्यत कठिनः सङ्घा­तोऽ­भू­त्सापां कठिना परिणतिः पृथिव्यभवदिति श्रुत्यर्थः ।

व्रीह्या­द्य­न्न­सर्गः कस्मिन्स्थान इति विवक्षायामाह -
पृथि­व्या­स्त्विति ।
पञ्चमीयम् ।

वृष्टि­भ­व­त्व­लि­ङ्ग­स­हि­ता­न्न­श्रुतेः कथं प्रक­र­ण­लि­ङ्ग­स्था­नै­र्बाध इत्याशङ्क्याह -
वाक्यशेषोऽपीति ।
प्रब­ल­दु­र्ब­ल­प्र­मा­ण­स­न्नि­पाते बहूनां दुर्ब­ला­ना­म­त्य­न्त­बा­धा­द्वरं प्रब­ल­प्र­मा­ण­स्या­ल्प­बा­धेन कथञ्चिन्नयनमिति न्यायेन श्रुति­लि­ङ्ग­यो­र­न्न­मा­त्र­नि­ष्ठत्वं बाधि­त्वा­न्ना­न­न्ना­त्म­क­पृ­थि­वी­नि­ष्ठत्वं नीयते । ताभ्या­म­न्न­मा­त्र­ग्रहे प्रकरणादीनां पृथि­वी­मा­त्र­वि­ष­या­णा­म­त्य­न्त­बा­धा­प­त्ते­रिति भावः । अन्नस्य वृष्टि­ज­त्वो­क्ति­द्वारा पृथिव्या अब्जन्यत्वं सूच्यते । पृथिव्यब्जा, पृथिवीत्वात् , अन्न­व­दि­त्य­नु­मा­ना­दि­त्य­क्ष­रार्थः । एवं तित्ति­रि­श्रु­त्य­नु­सा­रेण छन्दो­ग­श्रु­ते­र्न­य­ना­द­वि­रुद्धो भूत­सृ­ष्टि­श्रु­तीनां ब्रह्मणि समन्वय इति सिद्धम् ॥१२॥